________________
wamawaamawwwm
द्वैत एव सन्निधिसिद्धिः] न्यायागमानुसारिणीव्याख्यासमेतम्
३३३ मृदि घटभवनं घ्यक्तमित्यर्थः, तत्पर्यायकथनं निवर्तते आपद्यते इत्यर्थः, सन्निधिभवनमेवापत्तीभवति, उक्तमापत्तिभवनमपि ।
अनयोरेव न्यूनाधिकरूपतया सिद्धिरुच्यतेसा च सन्निधिसिद्धिः भोग्यद्वैतभूततायां, नाद्वैतत्रैतादितायां व्यतिरेकाभावात् ।
सा चेत्यादि, सामान्यत्वात् सन्निधिभवनसिद्धिस्तावत्-सा च भोग्यद्वैतभूततायां सन्निधि-। सिद्धिः- सन्निधिभवनसिद्धिः तद्धि सन्निधिभवनं द्वैतभूततायां सिद्ध्यति नाद्वैततायाम् , दर्शितैकभोक्तभोग्यत्वायुक्तत्वादिदोषात् , न ततो न्यूनतायां सिद्धिरधिकतायां वा द्वैतात्तृतीयस्याभावात् न्यूनाधिकभावानुपपत्तौ कारणमाह-व्यतिरेकाभावादिति, व्यतिरेक:-पृथक्त्वेनैकस्यैव वृत्ति विनापि भावः, तदभावान्यूनतायामसिद्धिः, यथा स्वामिना विना भृत्यस्य, भृत्येन विना वा स्वामिनः । अधिकेऽपि व्यतिरेको यथा भावव्यतिरिक्तं नास्तीति, तथेह भोक्तभोग्यव्यतिरेकाभावात् , अतो न्यूनाधिकाभावात् द्वैते 10 सन्निधिभवनं सिद्ध्यति नाद्वैतत्रैतादितायामिति ।
तत्प्रतिपादनार्थमुपपत्तिरुच्यते
न ज्ञेयमन्तरेण ज्ञातृत्वं ज्ञेयासत्त्वात् , अथवाऽनुपपन्नं ज्ञातृत्वमसंज्ञेयत्वात् खपुष्पज्ञत्ववत्, वैधhणेतरकुसुमज्ञत्ववत् , अथवा ज्ञातृत्वमुपपद्यते संज्ञेयत्वादितरकुसुमज्ञत्ववत्, वैधय॒ण खपुष्पज्ञत्ववत् , एवं हि ज्ञातुातृत्वम् , यो हि संज्ञेयं जानीते स तु मुख्यो ज्ञाता, 16 यथा सलिलं सलिलमिति विद्वान् , यः पुनरसंज्ञेयं विजानीते स तु न ज्ञाता, यथा मृगतृष्णिकां सलिलमिति विद्वानिति।
(नेति) न ज्ञेयमन्तरेण ज्ञातृत्वम् , भोग्यस्य ज्ञेयत्वात् , शब्दादिगुणपुरुषोपलब्धिद्वयपुरुषोप
www
तयाऽऽपत्तिभवनात् सन्निधिभवनमेवेषद्भिन्नं सदापत्तिभवनं भवतीत्याह-सन्निधिभवनमिति । अथ प्रकृतिमहदादयो भोग्यरूपाः पुरुषस्तु भोक्ता भोक्तृभोग्यावेव सन्निधिभवनापत्तिभवने उच्येते तयोश्चैकाभावेऽपरस्याप्यभाष एव, परस्परा-30 पेक्षत्वादिति प्रथमं सन्निधिभवनात्मानं भोक्तारं साधयितुमाह-सा चेति द्वे इते यं स द्वीतः स एव द्वैतो भूतः, भोगश्चासौ द्वैतभूतश्च भोग्यद्वैतभूतः तस्य भावस्तत्ता तस्यां भोग्यद्वितीयतायामित्यर्थः, भोग्येन हि भोकाऽनुमीयते न ह्यचेतनस्य भोग्यस्य भोक्तारमन्तरेण भोग्यतोपपद्यते, न च बुद्ध्यादीनामेव भोक्तृत्वसम्भवः, तथा सति तेषां भोग्यत्वानुपपत्तिः खात्मनि वृत्तिविरोधेन खस्य खेन भोग्यत्वासम्भवात् , न ह्यसिरात्मानं छिनत्ति तथा च सुखाद्यात्मकं बुद्ध्यादिकं खातिरिक्तन केनचिद्भोक्त्राऽनुभवनीयम् , भोग्यत्वादोदनादिवदिति मानम् । न्यूनतायां दोषमाह-नाद्वैततायामिति-एकान्तपुरुषादिवादस्य 25 दूषितत्वादिति भावः । अधिकं दूषयति-द्वैतादिति सर्वेषां भोक्तभोग्यद्वैराशिकत्वेन तदनन्तःपातिनो वस्तुनः कस्याप्यभावादिति भावः । पृथक्त्वेनेति भोक्तभोग्यभिन्नत्वेनैकस्यैव पुरुषादेः परस्परसम्बन्धमन्तरेण सद्भावासम्भवादिति भावः। अधिकस्याभावमाह-अधिकेऽपीति, यथा भावव्यतिरिकं किञ्चिदपि नास्ति सर्वस्य भावान्तःपातित्वात् तथा भोक्तभोग्यव्यतिरिक्त किञ्चिदपि नास्ति निष्प्रयोजनत्वात् , सप्रयोजनत्वे तयोरेवान्तर्भावादिति भावः । भोक्तभोग्ययोः परस्परापेक्षसत्ताकत्वमेव तावद्विवृणोति-न ज्ञेयमिति, पुरुषस्य भोगापवर्गार्थ हि प्रकृतेर्महदादिरूपेण भवनम् , तत्र भोग्यस्य महदा-30 देरभावे पुरुषार्थाभावात् कथं पुरुषस्य ज्ञातृत्वं ? सुखदुःखभोगरूपबुद्धिप्रयुक्तं हि तस्यः ज्ञातृत्वं भोक्तृत्वं वेति भावः। भोग्यस्य ज्ञेयत्वं कथमित्यत्राह-शब्दादीति, भोगापवर्गाथं हि. पुरुषस्य तज्ज्ञेयं, न तु विना प्रयोजनम् , अत्र भोगः शब्दाद्युपलब्धिः
१ सि. क. तदज्ञेयः।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org