________________
३३२
wwwwww
द्वादशारनयचक्रम्
[विध्युभयारे . (सर्वतंत्रेति) सर्वतंत्रसिद्धान्तेन व्याकरणेन विरुद्धमस्वतंत्रभवनम् , भवतेः कर्तृविहिततिप्प्रत्ययान्तत्वादित्यतञ्चायुक्तम् , तत्रैवानुज्ञातत्वात् , यदुपादायैतदभिधीयते इत्यादि, इदन्तु सन्निधिमात्रवृत्तिभवनमेवोपादायाभिहितम् । यत्रान्यत् क्रियापदं न श्रूयते तत्रापि अस्तिर्भवन्तीपरः प्रथमपुरुषेऽप्रयुज्यमानोऽप्यस्तीति गम्यते भवंती वर्तमाना विभक्तिः पूर्वाचार्यसंज्ञयोक्ता लडित्यर्थः तत्परोऽस्ति:5 असिः-अस भुवीति धातुः, 'इश्तिपौ धातुनिर्देशे' (वार्तिकं पा. ३।३।१०८ सूत्रे) प्रथमपुरुषे न मध्यमोत्तमयोः, अप्रयुज्यमानोऽपि गम्यते, अर्थसद्भावात्-अविनाभावादर्थेन, तदुदाहरति-वृक्ष इति, अस्तीति गम्यते, किमुक्तं भवति अस्ति भवति सन्निहितमित्यर्थः, निर्दिष्टं सन्निधिभवनमुभयोः समानलक्षणत्वादादौ।
आपत्तिभवनन्तु10 अस्तिभवनमेवेदं सन्निहिततथावृत्ति आपत्तिभवनम् , कारणे कार्यस्य सत्त्वात् , यथा घटो भवतीति, पूर्वमघटत्वेन दृष्टं सन्निहितमेव मृदि घटभवनं व्यक्तं निवर्तते आपद्यत इति ।
अस्तिभवनमित्यादि, यावदापद्यत इति, इदमपि चेषद्भिन्नं सन्निधिभवनमेव, यथा वृत्ति सन्निहितस्य तथावृत्तेरापत्तिभवनम् , अथवा तथावृत्तिरस्य तथावृत्ति सन्निहितं च सथावृत्ति च तदिति सन्निहिततथावृत्ति, किं तत् ? आपत्तिभवनम् , कुतः सन्निहितमेव तथावर्तत इत्युच्यते ? उच्यते कारणे 15 कार्यस्य सत्त्वात् , कार्य ह्यङ्करादि बीजादौ सन्निहितमेव तथा तथा देशकालाकारनिमित्तवशाव्यत्त्य
व्यक्तिरूपेण वर्त्तत इति, तन्निदर्शयति-यथा घटो भवतीति, पूर्वमघटत्वेन मृत्त्वेन दृष्टं सन्निहितमेव
मानस्याप्यर्थसद्भावादाक्षेपस्योक्तत्वादित्याह-तत्रैवेति। उक्तं हि महाभाष्ये 'अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्ति इति गम्यते, वृक्षः प्लक्षः, अस्तीति गम्यते' इति, अस्य भाष्यस्यायं प्रसङ्गः 'अनभिहिते' इति सूत्रानुक्तो क्रियते कटः कृतः कट
इत्यादी द्वितीयादिप्राप्तिः स्यात् , न चात्र द्वितीयादिभावे प्रथमा निरवकाशा स्यादिति वाच्यम् , यत्र क्रियापदं न श्रूयते वृक्षः 20 लक्ष इत्यादौ प्रथमाया अवकाशात्, तत्र क्रियापदाश्रवणेऽपि अस्तीति पदस्य गम्यमानतया कर्तरि तृतीयाप्राप्तौ प्रथमाया अन
वकाशापत्त्या तत्सूत्रमावश्यकम् , तथा च न तृतीया, कर्तुस्तिबोक्तत्वात् किन्तु प्रथमैवेति । भवन्तीति वर्तमाना लड्विभक्तिः पूर्वाचार्यसंज्ञया, तथा च भवन्तीपर इत्यस्य लट्पर इत्यर्थ इत्याह भवन्तीति । इश्तिपाविति, धातोर्निर्देशे कर्तव्ये तत इश्तिपौ प्रत्ययो भवतः शकारः इत् , तेन सार्वधातुकत्वात् शबादयो भवन्ति, अत्र श्तिबा इका च अस्तिः,असिरिति निर्दिष्टम् , प्रथमपुरुषान्ताया एवास्तेर्गम्यमानत्वोक्तर्न मध्यमोत्तमयोरप्रयुज्यमानो गम्यत इत्याह-नेति। प्रथमादयो विभक्तयः क्रियायोगे एव भवन्तीति वृक्षः प्लक्ष इति प्रथमाऽपि क्रियाऽविनाभाविनीति भवनक्रिया गम्यत इत्याशयेनाह-अर्थसद्धावादिति ।
खेन नितिं परं बुबोधयिषितुं शब्दप्रयोगो भवति, ज्ञानच्च सत एव भवति, भवनस्य च देशपरिच्छेदाभावेन सर्व. गतत्वात् कालपरिच्छेदाभावेन नित्यत्वाच्च तद् वक्तः सदा सन्निहितमिति सन्निधिभवनमुच्यत इत्याशयेन तदर्थ व्याख्याति
सन्निहित मित्यर्थ इति । सन्निधिभवनापत्तिभवनयोर्द्रव्यपर्यायात्मकयोर्भवनत्वेन सन्निधिभवनस्य प्रकृतिपुरुषयो; समान- त्वादादौ सन्निधिभवनमुपदर्शितमित्याह-निर्दिष्टमिति । मृदादौ सन्निधिभवने विद्यमाना एवापद्यन्ते ये घटत्वादिभावान् ते an आपत्तिभवनमित्युच्यन्त इत्याह-अस्तिभवनमिति । सन्निहितस्य मृदादेर्यथा वसनं तथैव तस्य वर्तनम् , यद्वा येन रूपेण
यत्र यत्सन्निहितं तस्य तेन रूपेण भवनमेवापत्तिभवनमुच्यते कारणे कार्यस्य सद्भावाद्धि मृदादौ घटादिमृत्त्वेन सन्निहितः सन् तथाविधदेशकालाकारादिनिमित्तविशेषमुपलभ्य व्यक्तीभवतीत्याह-यथा वृत्तीति । कारणस्यैव सन्निधिभवनस्य कार्यात्म
सि. क. भवतीतिपरः। २ सि.क. भवती। ३ सि.क. तदित्यथैः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org