________________
सन्निधिभवनम्] न्यायागमानुसारिणीव्याख्यासमेतम्
३३१ (अत इति) अतोऽस्मात्तत्त्वे तावत् संवदति शेषं न संवदति सर्वं त्वदुक्तम् , कतमत् संवदतीति चेत् ? यदयं भवति सोऽस्य भाव इत्येतत् संवदति तस्य भावस्तत्त्वम् , येन भूयते यो भवति स एव भावः, कर्तृलक्षणां षष्ठी कृत्वा तस्य भावः स भाव इतीदमस्य दर्शनेन सह संवदति, किं कारणं ? सर्वगतत्वनित्यत्वदेशकालाभेदात्-सर्वगतत्वेन नित्यत्वेन यथासंख्यं देशकालाभ्यामभेदात् , तद्धि भवनं देशतः कचिन्न भवतीति सर्वगतत्वादभिन्नम् , कालतः सततं भवति न कदाचिद्भवतीति नित्यत्वादभिन्नं । तस्मादभेदादिष्यत एतत् , इदं पुनर्न तावदिच्छामः सम्प्रधार्यत्वात् , यस्तु भवति स कत्तैवेति सम्प्रधार्यम् , न हि कर्तरि विहिततिप्प्रत्ययान्तभवतिशब्दश्रवणादेव कर्तृत्वम् , अकर्तुराकाशादेरपि भवनात्, अभवनव्यावृत्तिमात्रसत्तार्थत्वाद्भवनस्य, कारणपर्यायत्वात् करोतेरकारणकार्यमपि भवत्येव, भवते: सन्निध्यापत्तिभवनद्वयार्थत्वात् , अस्तिभवतिविद्यतिपद्यतिवर्त्ततीनां सन्निपातषष्ठानां सत्तार्थत्वादित्येतदस्वतंत्रस्याव्यावृत्तस्यापि भवने कारणमाह, भवतेः सन्निध्यापत्तिभवनार्थत्वं अस्तिविद्यतिसन्निपातानां 10 सन्निधिमात्रभवनार्थत्वम् , पद्यतिवर्त्तत्योरापत्तिभवनार्थत्वमिति भागः सव्यापारत्वान्निापारत्वाच्च त्रयाणां [द्वयोश्च], भवतेः सामान्यभवनवाचित्वादिति, अपरिणामित्वादकर्तृत्वात् [परिणामित्वात्] कर्तृत्वाच्च विशेषः।
असतो भवनाभावादस्त्यादिभवनं सन्निधिमात्रवृत्त्येव तदापत्तिभवनपृथग्भूतम् ।
(असत इति) असतो भवनाभावादस्त्यादिभवनं सन्निधिमात्रवृत्त्येव सन्निधिमात्रा वृत्तिर- 15 स्येति सन्निधिमात्रवृत्ति, तदस्तिभवनमापत्तिभवनपृथग्भूतं ततोऽन्यदीषद्भिन्नमव्यावृत्तमित्यर्थः ।
स्यान्मतम्
सर्वतंत्रसिद्धान्तेन विरुद्धमस्वतंत्रभवनम् , भवतेः कर्तृविहिततिप्रत्ययान्तत्वादित्येतच्चायुक्तम् , तत्रैवानुज्ञातत्वात् , यदुपादायैतदभिधीयते यत्राप्यन्यत् क्रियापदं न श्रूयते तत्रापि 'अस्तिर्भवन्तीपरः प्रथमपुरुषेऽप्रयुज्यमानोऽप्यस्तीति गम्यतेऽर्थसद्भावात् , यथा वृक्ष इति, 20 अस्तीति गम्यते,' (महाभाष्य० अ. २ पा. ३ सू. १) अस्ति भवति सन्निहितमित्यर्थः।
नान्यदेति कालपरिच्छेदाभावान्नित्यत्वाच्चाभिन्नमित्याह-सर्वगतत्वेनेति । ननु 'ल: कर्मणि च भावे चाकर्मकेभ्य' इति सूत्रेण तिपः कर्तरि विधानाद्भवतीत्यस्य भवनकत्तवार्थः, तत्कथं सम्प्रधार्यमित्यत्राह-न हीति । भवनस्य द्वैविध्ये प्रमाणमादर्शयतिअस्तिभवतीति। सन्निधिभवनमपरस्य सद्भाव एव भवेदित्यवतंत्रमापत्तिभवनादीषद्भिन्नत्वेनाव्यावृत्तश्चेत्याह-अखतंत्रस्येति । सन्निधिभवनमव्यापारमपरिणाम्यकर्तृच, आपत्तिभवनं सव्यापारंपरिणामि कर्तृ चेत्याह-सव्यापारत्वादिति। आप-25 त्तिभवनमपि सन्निधिभवनाभावे वस्तुनोऽसत्त्वात् काऽऽपत्तिभवनमतस्तदावश्यकमित्याशयेनाह-असत इति । सन्निधिभवनं तयकर्तृत्वादखतंत्रभवनमेव जातं तच व्याकरणविरुद्धमित्याशङ्कते-सर्वतंत्रति, सर्वशास्त्राविरुद्धः वश सर्वतंत्रसिद्धान्तः, सोऽत्र व्याकरणं, तेनाखतंत्रभवनं विरुद्धं भवनमात्रे प्रधानतया कर्तुरपेक्षाया उक्तत्वादिति भावः । व्याकरणे खतंत्रः कर्त्तत्युक्तम् , भवतीत्यत्र तिबर्थः कर्ता, कर्तरि तद्विधानात् तेन खतंत्रभवनमेव तत्सिद्धान्तेन भवेन्नास्वतंत्रभवन मित्याशयेनाह-भवतेरिति । सन्निधिभवनमपि तत्रानुज्ञातमेव, क्रियापदान्तराश्रवणे सन्निधिभवनवाचिनः प्रथमपुरुषान्तास्धातोरप्रयुज्य- 30
१ क. देशे। २ सि. कर्तृत्वाचेति नास्ति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org