________________
द्वादशारनयचक्रम्
[विध्युभयारे द्यवस्थाऽभेदात् वृक्षादि दृष्टान्तः, वृक्ष इति पुरुषव्यतिरिक्तवृक्षाद्यवस्थाभेदाभावे साध्यसाधनोभयधर्मधर्म्यसिद्ध्या दृष्टान्तदोषाः, आदिग्रहणाद्यथासम्भवं कल्पनां कृत्वा वैधर्म्यदृष्टान्तदोषा योज्याः, एवं तावत् पुरुषमयत्वं सर्वस्यायुक्तमित्युक्तम् ।
__ अधुनाऽतिदेशेन नियत्यादिष्वपि दोषांस्तानेवाह5 यथा च पुरुष तथेतरद्रव्यार्थेष्वपि प्रतिस्वं योज्यम् , तद्यथा-विनिद्रावस्थास्थाने पुरुषस्य सामान्यलक्षणं विशेषलक्षणञ्च यथा व्याख्यातं तथा नियत्यादावभेदैकत्वं सामान्यलक्षणमतीतानागतवर्तमानबाल्यकौमारयौवनक्रमयोगपद्यादयो निद्रादिवद्विशेषलक्षणमिति व्याख्याय विकल्पद्वयप्रतिषेधस्तथैव कर्त्तव्यः।
यथा च पुरुषे तथेतरद्रव्यार्थेष्वपीति, नियतिकालस्वभावभावेष्वपि, स्वं स्वं प्रति प्रति10 खं प्रत्येकं योज्यम् , तमतिदेशोपायमाचष्टे-तद्यथा विनिद्रावस्थास्थानेऽभेदैकत्वं विनिद्रावस्थासामान्यल
क्षणं पुरुषस्य पुरुषवादे सुप्ताद्यवस्थाव्यापित्वात् सुप्ताद्यवस्था अपि विशेषाः, तस्य तदात्मत्वादिति यथा व्याख्यातं तथा नियत्यादावभेदैकत्वं नियत्यादेः सामान्यलक्षणम् , अतीतानागतवर्तमानबाल्यकौमारयौवनक्रमयोगपद्यादयो निद्रादिवद्विशेषलक्षणमिति व्याख्याय विकल्पद्वयप्रतिषेधस्तथैव कर्त्तव्यः
अथ किं या एता अवस्थास्ता एव नियत्यादिः, उत नियत्यादिरेवावस्थाः ? यदि ता एव नियत्यादिः 15 समुदयवादः क्षणिकवादो विज्ञानमात्रवादः शून्यवाद इत्यादि, अथ नियत्यादय एवावस्थास्तदाऽभेदैकत्वावस्थालक्षणत्वादिः स एव प्रपञ्चो योज्य इति ।
अतस्तत्त्वे तावत्संवदति यदयं भवति सोऽस्य भाव इति सर्वगतत्वनित्यत्वदेशकालाभेदात् । इदं पुनर्न तावदिच्छामो यस्तु भवति स कत्तैवेति, सम्प्रधार्यत्वात् , अकर्तुराकाशादेरपि भवनात्, अभवनव्यावृत्तिमात्रसत्तार्थत्वाद्भवनस्य, कारणपर्यायत्वात् करोतेरकारण20 मपि भवत्येव, भवतेः स न्निध्यापत्तिभवनद्वयार्थत्वात् , अस्तिभवतिविद्यतिपद्यतिवर्त्ततीनां सन्निपातषष्ठानां सत्तार्थत्वात् ।
wwwm
इत्याह-वृक्ष इतीति । एवं पुरुषवादे दोषानुदीर्य नियत्यादिवादेष्वपि तानेव दोषानविदिशति-यथा चेति । अतिदेशोपायमादर्शयति-तद्यथेति । नियत्यादेः सामान्यलक्षणं विशेषलक्षणञ्च दर्शयति-तथा नियत्यादाविति । अत्रापि विकल्पं प्रदर्शयति-अथ किमिति । संक्षेपतो विकल्पद्वये दोषं दर्शयति-यदि ता इति । अथ पुरुषादिवादिभिः खण्डनकर्तुः 25 सांख्यस्य यावत्यंशेऽविसंवादस्तं प्रदर्श्य विसंवादस्थानं प्रदर्शयति-अत इति । मुख्यतत्त्वविषये सर्वगतत्वं नित्यत्वं देशका
लाभ्यां भेदाभावश्च सर्वैरिष्टः, अतो भवतीति भावः येन भूयते यो भवति स एव भाव इत्यंशो नास्माकं विरुद्ध इति भावः । स्वतंत्रः कर्ता ज्ञ एवेति यदुच्यते पुरुषादिवादिभिस्तत्तु विचार्यमित्याह-इदं पुनरिति उक्तं हि पुरुषवादारम्भे स भवतीति भावः को भवति यः कर्ता, कः कर्ता यः खतंत्रः कः स्वतंत्रः यो ज्ञ इति, तदेतद्विचार्यमिति भावः। जायतेऽस्ति विपरिणमतेऽपक्षीयते वर्धते विनश्यतीत्येवं षट्सु भावविकारेषु द्वितीयो विकारोऽस्तीति योऽस्ति भवति विद्यते सन्निपततीत्यादिशब्दा30 भिधेयो भावः सः सत्तामात्ररूपः नासौ विपरिणाममाचष्टे, अपूर्णत्वात् , न त प्रतिषेधति, उपस्थितत्वात् , किन्तु अभवनव्यावृत्ति
मात्ररूपसत्तार्थत्वमाहायं भवनशब्दः, ईदृशश्च भवनमाकाशेऽप्यस्ति, यदि यो भवति स कतैवेत्युच्यते तर्हि कारणकार्यव्यतिरिक्त निये भवनं न स्यादित्याशयेनाह-अकर्तुरिति । भावो द्विविधः कारणात्मा कार्यात्मा चेति यत्संनिधिभवनमापत्तिभवनमुच्यत इति तद्दर्शयति-भवतेरिति । भवनं हि क्वचिदेव देशे न सर्वत्रेति देशपरिच्छेदाभावात् सर्वगतत्वादभिन्नम् , सर्वत्रेदानीमेव
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org