________________
प्रत्यक्षविरोधादि] न्यायागमानुसारिणीव्याख्यासमेतम्
३२९ भेदादनुमानविरोधः, त्वदुक्तास्मदुक्तैकार्थ्याभावे भेदाभ्युपगमात् स्ववचनाभ्युपगमविरोधी लोके घटपटादिभेदप्रतीतेलॊकविरोधः, अविकल्पशब्दार्थाद्विकल्पव्यवहाराङ्गीकरणादभ्युपगमविरोधः, असिद्धादिहेतुता च, न घटाद्यवस्थाऽभेदाबृक्षादिदृष्टान्तः।।
त्वदुक्तैकसर्वतायां त्वित्यादि, एकमेव सर्वमित्येतस्यामेकसर्वतायाम् , सर्वैकतायामिति वा पाठात् सर्वैकपुरुषमयतायां प्रत्यक्षत एव भिन्नानेकैकसर्वताया दर्शनात् प्रत्यक्षविरोधः, ग्रहणभेदा- 5 दनुमानविरोधः, ग्रहणभेदे हि न्याय्यो ग्राह्यभेद इति, भेदत्वपरिणामित्वादिभावाभावे सर्वत्वापत्तिभवनाभावाद्वाऽनुमानविरोधः त्वदुक्तास्मदुक्तैकार्थ्याभावे भेदाभ्युपगमात् स्ववचनाभ्युपगमविरोधः, लोके घटपटादिभेदप्रतीतेलॊकविरोधः । अविकल्पशब्दार्थत्वादित्यादि, अविकल्पः शब्दार्थ इत्यभ्युपगम्य विकल्पव्यवहाराङ्गीकरणाचाभ्युपगमविरोधः, सर्वमेकमिति विकल्पधर्मत्वेन धर्मित्वेन च तदुभयविशेषत्वाभ्याञ्चेष्टस्य तेनैवाभ्युपगमेन निराकरणादविकल्पशब्दार्थस्य, अभ्युपगतधर्मधर्मिस्वरूपविशेषोभयवि-10 रोधाः असिद्धादिहेतुताच, हेतोरनतिरिक्तपरापराणीयोज्यायोरूपात्मकत्वादित्यादेः प्रतिज्ञातैकपुरुषाभेदात् , त्वयाऽस्माभिश्वोक्तेन न्यायेन पुरुषाभावाद्धर्म्यसिद्धेराश्रयासिद्धिः, त्वन्मतेनार्थान्तराभावेऽसाधारणता, अस्मन्मतेन विपक्ष एव भावाद्विरुद्धता साधारणानैकान्तिकता वा, सपक्षमभ्युपगच्छतो वा । न घटा
पुरुष एवेदं सर्वमिति वाक्यस्य पुरुषे एतत्सर्वातिदेशपरत्वे बोध्यम् । अत्र भिन्नानामनेकेषामेकत्वापत्तिलक्षणसर्वत्वस्य प्रत्यक्षतो दर्शनात् प्रत्यक्षविरोधः। यदा त्वेतत्सर्वमुद्दिश्य पुरुषत्वबोधनं तस्यार्थस्तदाऽप्याह-सर्वेकतायामितीति । 15 सर्वत्र पुरुषोऽयमिति ज्ञानाभावात् पुरुष एव पुरुषत्वग्रहात्, पृथिव्यादौ च पृथिव्यादीत्येव ग्रहात् प्रहणमेदः, यद्वा पुरुषस्याहंत्वेनैव जगत इदंत्वेनैव च ग्रहणाद्रहणभेदः, न हि सर्वस्यैकत्वे ग्रहणमेदः सम्भवति, अन्यथा घटपटादिग्रहणमेदेऽपि घटो वा पटो वा एक एव ग्राह्यः सर्वस्य स्यादित्यनुमानेन ग्राह्यभेदस्यैव सिद्धे पुरुषमयत्वातिदेशोऽनुमानविरुद्ध इत्याह-ग्रहणमेदादिति । सर्वस्य पुरुषमयत्वातिदेष्टणां सर्वत्र पुरुषत्वग्रहात् ग्राह्याभेदेऽपि आविद्यकग्रहणमेदत्वान्न ग्रहणभेदे वस्तुतो ग्राह्यमेद इति व्याप्यसिद्धनानुमानविरोध इत्याशझ्याह-भेदत्वेति, एकान्तत एकतत्त्वात्मकत्वे जगतः कस्य सर्वत्वापत्तिः यदुद्दिश्य 20 पुरुषमयत्वं विधीयेत, विधीयते च त्वया, तस्मात् सन्ति मेदत्वपरिणामित्वादिभावाः, एवञ्चैकपुरुषमयत्वमेतदनुमानविरुद्धमिति भावः । त्वदुक्तेति सर्वमेकमिति त्वदुक्तस्य सर्व नैकमिति मदुक्तस्य चैक एवार्थों भवन्मतेनाभ्युपगन्तव्यः, अन्यथा विभिन्नार्थत्वे कथमेकपुरुषमयत्वाभ्युपगमो भिन्नाथाभ्युपगमात्, एकार्थत्वं तु न युक्तं परस्परविरुद्धत्वादिति भावः। लोकविरोधमाह-लोक इति । सर्व एव शब्दास्तत्तदवयवबोधनद्वारेण तत्तदवयवाभिन्नस्य गोरिव विषाण्यादिशब्दाः पुरुषस्यैव वाचका इति विकल्पविनिर्मुक्तस्यैव वाचकत्वमभ्युपेत्य प्रधानतया घटपटादीनां विकल्पानां व्यवहारविषयताङ्गीकारादप्य-25 भ्युपगमविरोध दर्शयति-अविकल्पेति व्यवहारः शब्दप्रयोगः । अथ सर्वमेकम् , अनतिरिक्तपरापराणीयोज्यायोरूपात्मकत्वात् वृक्षवदिति पुरुषवाद्युक्तानुमाननिराकरणार्थ प्रथम प्रतिज्ञादोषमाह-सर्वमिति धर्मधर्मिणोः खरूपबाधो विशेषबाधः उभयखरूपबाध उभयविशेषबाधश्चेति प्रतिज्ञादोषाः पूर्वोक्ताः प्रत्यक्षादिविरोधा अपि । अथ हेतुदोषमादर्शयति-असि शादीति । हेत्वसिद्धिं दर्शयति-हेतोरिति, साध्यामेदेन हेतुरपि साध्यसमत्वादसिद्ध इति भावः । आश्रयासिद्धिमाहत्वयेति, आवयोरुभयाभिप्रायेण पुरुषाभावस्य पूर्वमुक्तत्वादिति भावः । पुरुषभिन्नस्याभावात्सर्वसपक्षविपक्षव्यावृत्तत्वा-30 दुक्तहेतोस्त्वन्मतेनासाधारणानैकान्तिकत्वमित्याह-त्वन्मतेनेति । अस्मन्मतेन पुरुषाभावाद्विपक्ष एव हेतोः सत्त्वेन साध्याभावव्याप्तत्वाद्विरुद्धत्वमित्याह-अस्मन्मतेनेति । सपक्षाभ्युपगमे चास्मन्मतेन साधारणानैकान्तिकत्वमित्याहसाधारणेति । घटपटाद्यवस्थानां पुरुषाद्भेदाभावान वृक्षादेदृष्टान्ततेत्याह-नेति, दृष्टान्तपदेनाप्रेतनेनास्यान्वयः । अत एव च साध्यसाधनादेः पुरुष इव तदभिन्ने तस्मिन्नसिद्धेदृष्टान्तदोषः, साध्यसाधनादेरभावाप्रसिद्ध्या वैधHदृष्टान्तदोषा भाव्या
द्वा० न० ४ (४२)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org