________________
३२८ द्वादशारनयचक्रम्
[विध्युभयारे प्रतिषेधपक्षे न घटते नमः क्रियापदसम्बन्धिनोऽसमर्थत्वात् , तस्माद्भेदादन्य इति पर्युदासः स्यात् , स च बहुव्रीहितुल्य एवार्थत इति भेदत्वेनाभूतत्वात् परिणामित्वेनाभूतत्वादिति सुखग्रहणार्थं शङ्कापोहार्थञ्चेत्युक्तम् ।
भिन्नानां हि भावानामव्यभिचरितैकत्वापत्तीनां सर्वत्वं भवति न त्वदिष्टस्यैकस्याभिन्नस्येति 5 तद्व्याचष्टे
अव्यभिचरितानेकत्वापत्तिीनेकेन विना न भवति यथा शुक्रशोणितादेरनेकस्यैकत्वापन्नस्याध्यात्मिकस्य, स हि भेदभावः सर्वत्वं तस्मान्नाभिन्नस्यैकस्य सर्वत्वमिति सर्वत्वाभावात् पुरुष एवेदं सर्वमित्ययुक्तमुच्यते ।
अव्यभिचरितेत्यादि, यावद्भेदभावः सर्वत्वम् , अव्यभिचरितमनेकत्वं यस्य तदिदमव्य10 भिचरितानेकत्वमेकं तस्य गतिपरिणामस्तदापत्तिः, सैकत्वापत्तिरनेकेन विना न भवतीति, यथा शुक्र
शोणितादेरनेकस्यैकत्वापन्नस्याध्यात्मिकस्य । यथोक्तम् 'माउ ओयं पिउ सुकं तं तदुभयसंसिटुं कलुसं किब्बिसं तप्पढमयाए आहारमाहरेत्ता जीवो गब्भत्ताए वक्कमति ( १ सू०)। (२ सू०) सत्ताहं कललं होति सत्ताहं होइ अब्बुदं । अब्बुदा जायए पेसी पेसीतो जायते घणं' (२००गा०१७) इत्यादि, भिन्नानां वैषम्येण परिणतानां शुक्रशोणितसंसृष्टाहारादीनामैक्यापत्त्या हि सर्वत्वं शरीरेन्द्रियादेः, तथा 15 चात्रापि सर्वत्वं भूम्यम्ब्वादिव्रीहितोयदेशकालादिभिन्नार्थानां वैषम्येण विपरिणाममापन्नानामैक्यापत्त्या
सर्वत्वं दृश्यते नान्यथेति । हिशब्दो यस्मादर्थे, यस्मादित्थं भिन्नार्थाव्यभिचरितैकगतिः सर्वत्वम् , स हि भेदभावः सर्वत्वम् , तस्मान्नाभिन्नस्यैकस्य सर्वत्वं कस्यचित् , तस्मात् सर्वत्वाभावादयुक्तमुच्यते पुरुष एवेदं सर्वमिति ।
किञ्चान्यत्20 त्वदुक्तैकसर्वतायान्तु प्रत्यक्षत एव भिन्नानेकैकसर्वताया दर्शनात् प्रत्यक्षविरोधो ग्रहण
wwwwwwwww
इति वार्तिकेन समासः, अयं समासः पुरुषवादे न सम्भवति, अन्यस्याभावात्तथा तत्समानार्थकपर्युदासबोधकतत्पुरुषोऽपि न भवति, अन्यस्याभावात् , अतोऽभेदत्वादपरिणामित्वादित्यनुक्त्वा भेदत्वेनाभूतत्वात् परिणामित्वेनाभूतत्वादित्युक्तम् । अनेक
त्वाव्यभिचार्यकत्वापत्तिलक्षणसर्वत्वस्य त्वन्मतेऽसम्भवादेकस्य सर्वत्वासम्भवाच्च सर्वस्य पुरुषमयत्वाभिधानमसङ्गतार्थत्वा. दयुक्तमित्याह-अव्यभिचरितेति विभिन्नानां शुक्लादिरूपाणां यावतां समुदायलक्षणैकत्वापत्तिश्चित्ररूपात्मिका सर्वमुच्यते 25 न तु सर्वथैकः सर्वपदवाच्य इति सर्वत्वमनेकापेक्षमतोऽनेकेषां वस्तूनामभावे कुतः सर्वत्वमिति भावः। सर्वत्वे दृष्टान्तमाह
यथेति, पुराणे रजसि गते नवे चावस्थिते शुद्धस्नातया स्त्रियाऽव्यापन्नयोनिशोणितगर्भाशयया ऋतुमत्या यदा पुमानव्यापन्नबीजो मिश्रीभावं गच्छति तदा तस्य हर्षोदीरितः परः शरीरधात्वात्मा शुक्रभूतः सम्भवति, स चोचितेन पथा गर्भाशयमनुप्रविश्यातवेनाभिसंसर्गमेति, तत्र शुक्रशोणितजीवसंयोगे तु खलु कुक्षिगते गर्भसंज्ञा भवति, गर्भस्तु खल्वन्तरिक्षवायुवह्नितोयभूविकारश्चेतनाधिष्ठानभूतः, एवमनया युक्त्या पञ्चमहाभूतविकारसमुदायात्मको गर्भश्चेतनाधिष्टानभूतः, तथा च यावन्तो 30 लोके मूर्तिमन्तो भावविशेषास्तावन्तः पुरुषे यावन्तः पुरुषे तावन्तो लोक इति, तत्र भिन्नानां भावान
कत्वापत्तीनां सर्वत्वं भवति न त्वेकान्तेनैकस्य सर्वत्वामेति भावः । सत्ताहमिति ऋतुकाले सम्प्रयोगाच्छुकशोणिते सप्तरात्रोषिते सदसद्भूताहावयवं कललं भवति, ततः सप्तरात्रोषितं अर्बुदं भवति, अर्बुदं वर्नुलोन्नतम् , अर्बुदात् पेशी जायते, दीर्घा मांसपेश्याकारा पेशी, पेशीतो घनं जायते घनः कठिनः । त्वदुक्तेति त्वदुक्ता या एकस्य सर्वता तस्यामित्यर्थः, इदञ्च
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org