________________
भवनद्वैतम्] न्यायागमानुसारिणीव्याख्यासमेतम्
३२७ त्वाचालक्षणत्वं त्वयोक्तं प्राक्, अतो न तूक्तवत् त्वयैव स्फुटीकृतमसत्त्वं प्रतिपादयितुमिष्टं त्वद्वचनेनैव सर्वस्यापि, न केवलं पुरुषस्यैव, अवस्थानामवस्थावतः पुरुषस्य चेति ।।
वयमपि बमोऽसदेव सर्व त्वदिष्टमिति, त्वन्मते सर्वस्याभावात् , भवनं हि द्विविधं सन्निधिभवनमापत्तिभवनञ्च, सन्निधिभवनमापत्तिभवनाभावे न भवितुमर्हति, इदमपि कुतोऽस्य ? भेदत्वेन परिणामित्वेन वाऽभूतत्वात् , वन्ध्यापुत्रवत् ।
(वयमपीति) वयमपि ब्रूमः-न केवलं त्वद्वचनादेवासत्त्वं पुरुषस्य, त्वद्वचनसमर्थनाय वयमप्यसदेव सर्व त्वदिष्टमिति ब्रूमः कुतः ? त्वन्मते सर्वस्याभावात् , भवनं हि द्विविधं मया वक्ष्यमाणमितरेतरापेक्षद्वैतवृत्ति सन्निधिभवनमापत्तिभवनञ्च सन्निधिभवनमापत्तिभवनाभावे न भवितुमर्हति, तिष्ठतु सन्निधिभवनम्, इदमपि कुतोऽस्य ? आपत्तिभवनं पुरुषस्य, कथं नास्ति ? भेदत्वेनाभूतत्वात् परिणामित्वेनाभूतत्वात् , वन्ध्यापुत्रवत्, यथा वन्ध्यापुत्रो भेदत्वेन परिणामित्वेन वाऽभूतत्वान्नास्ति 10 तथा त्वदिष्टं सर्वमापत्तिं नानुभवतीव्यसत् , किमर्थं विशेष्यते भेदत्वेन परिणामित्वेन वाऽभूतत्वादिति ? न पुनरभेदत्वादपरिणामित्वादित्युच्यते ? उच्यते भेदो न भवति [अभेदो] भेदादन्यो वा स्यात् एवमपरिणामीति, अभेदत्वादपरिणामित्वादिति, नास्य भेदोऽस्तीत्यभेदो नास्य परिणामित्वमित्यपरिणामित्वमपरिणामि त्वादभेदत्वादिति बहुव्रीहिसमासो वा स्यात् , बहुव्रीहिस्तावन्न घटत एव, अन्यपदार्थत्वादन्यस्यार्थस्याभावात् , अतः समन्वयाभावः समन्वयाभावात्तदभावः, तत्पुरुषोऽपि प्रसज्य-16
wwwwww
wwnwar
स्थाभ्युपगमासम्भवादित्याशयेनाह-सर्वस्यापीति । केवलं त्वद्वचनादेवासत्त्वं पुरुषस्य नास्मद्वचनादिति मा शकिष्ठाः वयमप्यसत्त्वं समर्थयाम इत्याह-वयमपीति, त्वदिष्टं सर्वमसत् त्वन्मते सर्वस्याभावात् , सर्वत्वासम्भवात् , असम्भवमेव तावद्वक्तुमुपक्रमते-भवनं हीति पुरुषस्य सन्निधिभवनापत्तिभवनान्यतरानात्मकत्वात्तदुभयव्यतिरिक्तभवनाप्रसिद्धेश्च न भवनधर्मत्वमतो वन्ध्यापुत्रवन्नास्ति स इति भावः। सन्निधिभवनापत्तिभवनयोः परस्परापेक्षत्वाद्वस्तुद्वयसद्भाव एव तयोः सम्भवेनैकान्तेन पुरुषैकत्वे तयोरसम्भव एवेत्याशयेनाह-इतरेतरापेक्षेति । तत्रादावापत्तिभवनमधिकृत्याह-तिष्ठस्विति। 20 भोक्ता पुरुषः सन्निधिभवनरूपः, अथ वा भोक्तुः पुरुषस्य व्यापकत्वेन देशातीतत्वादेकप्रत्ययगतत्वं सन्निधिभवनम्. यथा ज्ञाता
ति प्रत्यये ज्ञातज्ञेययोरेकदैव या सङ्कीर्णेपलब्धिस्तदेव सन्निधिभवनम् , आपत्तिभवनन्तु प्रकृतेः पुरुषोपभोगार्थ महदादिरूपापत्तिः तदुभयविधं भवनं परस्परापेक्षद्वैतवृत्ति भोक्तृभोग्यद्वैताभावे न सम्भवति, तत्रापत्तिभवनं यद्भेदमापद्यते परिणाम वा तस्यैव भवेत् , अविद्यादिभिः कारणैः सत्त्वादयो गुणाः कार्योन्मुखा भवन्ति परिणामेऽवतिष्ठन्ते, अव्यक्तमहदहकारपरम्परया मेद उज्जम्भते, न च निर्मलस्य पुरुषस्य मलोपाधिकाः परिणामादयो भवन्तीति नापत्तिभवनं पुरुषस्यत्याशयेनाह-मेदत्वे-25 नेति । अभिन्नत्वादपरिणामित्वादित्यनुक्त्वा भेदत्वेनेत्याधुक्तेः कारणमाह-उच्यत इति अभेदत्वादपरिणामित्वादित्यस्य तत्पुरुषो वा बहुव्रीहिर्वा समासः स्यात् , तत्पुरुषपक्षे च नः प्रसज्यप्रतिषेधः पर्युदासो वाऽर्थो भवेत्, विधाय निवृत्तिकरणं प्रसज्यप्रतिषेधः, प्रसज्य क्रियागुणौ ततः पश्चात् निवृत्तिं नञ् करोति, एष पूर्वपदार्थप्रधानः, उक्तश्च 'प्रतिषेधः स विज्ञेयो यत्र पूर्वपदेन नत्र' इति । यथाऽनुपलब्धिरविवाद इत्यादि। परे तु 'प्रतिषेधः स विज्ञेयः क्रियया सह यत्र ना' इति वचनात् यत्र नञ् क्रियया धात्वर्थेनान्वेति तत्र स प्रतिषेधं बोधयति तत्र सामर्थ्याभावान समास इति वदन्ति । अयमेव 30 पक्षोऽत्रातः भेदो न भवतीति, न भेदोऽभेद इत्यत्र 'न' इति सूत्रेण समासोऽयमुत्तरपदार्थप्रधानः, यथाऽब्राह्मणशब्दादारोपितो ब्राह्मण इति बोधेऽर्थाद्राह्मणभिन्न इत्यर्थः पर्यवस्यति तथाऽभेद इत्यत्राऽऽरोपितो भेद इति बोधेऽर्थाद्भेदभिन्न इत्यर्थः पर्यवस्यति, एतत्पक्षाश्रयेण भेदादन्यो वेत्युक्तम् । अयं पर्युदासः, उक्तञ्च 'प्राधान्यन्तु विधेर्यत्र प्रतिषेधेऽप्रधानता। पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥' इति । अन्यपदार्थप्रधानो यथा-नास्य भेदोऽस्तीत्यभेद इति, 'नमोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोप'
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org