________________
द्वादशारनयचक्रम्
[ विध्युभयारे
पुरुषात्मनोऽपुरुषत्वमित्यापादनीयमिति पुरुषाभाव एव - इत्थं पुरुषस्याभाव एव प्रसक्तः कुतोऽस्य सर्वगतता ? विद्यमानस्य हि सर्वत्वमसर्वत्वं सर्वगतत्वम सर्वगतत्वश्चेति विचार्य स्यात् ।
www
5
३२६
अथवा त्वदभिप्रेतमेवैतदेवम्, तदात्मत्वाभिमतनिरसनात्, यथोष्णो न भवत्यग्निरिति ब्रुवन्नौष्ण्यात्मानमग्निमेव निरस्येत् तथेहापि ।
wwwwwwwww
( अथवेति ) अथवा त्वदभिप्रतमेवैतत् - अभावप्रतिपादनं नास्मदभिप्रायः, एवमिति, एतेन विधिना, कुतः ? तदात्मत्वाभिमतनिरसनात्, यो यदात्मत्वेनाभिमतोऽर्थस्तं निरस्यन् तदात्मानमेवार्थं निरस्यन् दृष्टः, यथोष्णो न भवत्यग्निरिति ब्रुवन्नौष्ण्येनाविनाभाविनमौष्ण्यात्मानमग्निमेवार्थं निरस्येत्, तथेहापि विनिद्राद्यवस्थालक्षणं पुरुषमुक्त्वा पुरुष [ स्वात्मान एव ताः ] पुरुषान्न भिन्नाः सन्तीति ता निराकुर्वस्तदात्मानं पुरुषमेव त्वं निराकरोषीति त्वदभिप्राय एवायं पुरुषाभावः । एवं तावत् प्रवृत्त्योपल10 क्षितस्त्वदीयोऽभिप्रायो व्याख्यातः ।
wwwwwwww
नाभिप्रायमात्रादेवाभावः किं तर्हि ? स्फुटमेव त्वयोक्तं नास्ति पुरुष इति तद्यथा
यत्तु यत्नेन[अवस्थालक्षणः पुरुषः पुरुषलक्षणा अवस्था इत्यतिदिश्यते तेनैकत्वान्यत्वादिविकल्पप्रसङ्गेनाविकल्पपरमार्थतयेष्टस्य तस्यासत्त्वमेवोक्तमतो न तूक्तवत् ]
15
यत्तु यत्नेनेत्यादि, सामान्येनायं न्यायोऽवतार्यते भावना त्वस्य विशेष्य वक्तव्या, यथाऽवस्था'लक्षणः पुरुषः पुरुषलक्षणा अवस्था इति वातिदिश्यमानानां परस्परमेकत्वमन्यत्वमवक्तव्यत्वमसत्त्वचेति विकल्पाः स्युः, सविकल्पत्वेन पुनरेते सन्ति कल्पनाविषयत्वात्, विकल्पातीत निर्विकल्पपरमार्थ
शङ्किते प्रतिवादिना तद्वदेव पुरुषोऽपि न पुरुष इत्यापादनीय इति भावः । एवञ्च सति को दोष इत्यत्राह - इत्थमिति । योऽयं पुरुषस्याभावो मया प्रतिपादितः स नास्मदभिप्रायेण, किन्तु त्वदभिप्रायानुसारेणैव, अग्निर्नास्तीत्यनुक्तावपि नाग्निरुष्णो भवतीति तदात्मत्वेनाभिमतौष्ण्यनिरसनेऽग्नेर्निरसनमपि गम्यते तथा पुरुषो विनिद्राद्यवस्थालक्षण इत्युक्त्वा ताः पुरुषभिन्नाः 20 न सन्तीति विनिद्रादीनां निरसनात्तदात्मा पुरुषोऽपि निराकृत एव स्यादित्याह - अथ वेति । तदात्मत्वेति स आत्मा यस्य, तदात्मनो भावः, तदात्मत्वेनाभिमतं तस्य निरसनात्, औष्ण्यस्य ह्यग्निरेवात्मा अतस्तदात्मत्वमौष्ण्यस्य तन्निरसनादग्निरपि निरस्त एव, तथैवावस्थानामात्मा पुरुषः तदात्मत्वमवस्थानां, पुरुषान्न भिन्ना अवस्थाः सन्तीति तासां निरसनात् पुरुषोऽपि निरस्त एवेति भावः । एवं तावदिति इत्थमवधारणमेदाद्युपवर्णनलक्षणप्रवृत्त्याऽनुमितः पुरुषाभावाभिप्राय इत्यर्थः । कण्ठतोsपि पुरुषाभाव उक्त एवेत्याह- नाभिप्रायेति । यत्त्विति अत्र मूलं टीकातो नोपलब्धं केवलं भावनानुसारेणानुमितमेव । 25 विनिद्रालक्षणः पुरुषः अवस्थाखात्मा पुरुष इत्येवं यत्नेन पुरुषस्यावस्थात्मत्वमतिदिष्टम्, पुरुष एवेदं सर्वं पुरुषस्वात्मैव ता इत्येवमवस्थानां पुरुषमयत्वातिदेशः कृतः, एतेन परस्परं तयोरेकत्वं वाऽन्यत्वं वा ताभ्यामनिर्वाच्यत्वं वा अवाच्यत्वेनासत्त्वं वा प्रसज्यते, तस्मात् पुरुषाभाव उक्त एव, अत एवोक्तवद्व्यवस्थानुमतावित्याद्यभिधानमचार्वित्यनुमितस्य मूलस्य सामान्येनाभिप्रायः, एनमेवाभिप्रायं विशिष्य दर्शयति-भावना त्वस्येति । एकत्वान्यत्वादीनां विकल्पानां कल्पनाविषयत्वेन सविकल्पत्वात् परमार्थतो विकल्पविनिर्मुक्तस्यैव पुरुषस्य त्वयाऽलक्षणत्वाभ्युपगमात् पृथक् पृथक् पुरुषस्यावस्थानाश्चाभ्युपगमो न सम्भवति, 30 एवञ्चालक्षणत्वादभिमततत्त्वस्यावस्तुत्वमेव त्वया स्फुटीकृतमिति भावः । पुरुषाभावादेव सर्वस्याप्यभावः, अवस्थावतोऽभावेऽव
१ सि. क. पुरुषस्वास्मैताः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org