SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ सर्वगतत्वानुपपत्तिः ] न्यायागमानुसारिणीव्याख्यासमेतम् " पुरुष एवेदं सर्वमिति पुरुषत्वेनावस्थानामतिदेशेऽन्यत्वं न सम्भवत्येव कथं ? स्वपरविषयकृतभेदद्वारान्यत्वासम्भवात्-स्वविषयकृतो घटस्य रूपादीनां प्रधानस्य सत्त्वादीनाञ्चैकवस्तुगतानामेव धर्माणां भेदः परविषयकृतस्तु तयोरेव वस्त्वन्तरात् पटादेः पुरुषाच्च भेदः, तदुभयभेदद्वाराऽन्यत्वं सम्भाव्येत, तत्त्वनभ्युपगतान्यत्वद्वारद्वयं भेदद्वयासम्भवात् ततोऽन्यत्वानुपपत्तिः कस्यचिदिति वस्तुनः, वि रूपादिसत्त्वादिप्रकारेण तद्दारानभ्युपगमादेव, ततः - पुरुषादन्यस्यानुपपत्तौ सत्यां ता अपि चतस्रोऽ- 5 वस्थाः [अन्यत्वोपपत्तिवत् ] पृथक् पृथक् पुरुष [च] - चत्वारः प्रभेदाः स्युः पुरुषाः, इदमपि त्वदुक्तिवदेव, तत्कथमिति तदुच्यते यथा केनचिदुपपत्तिप्रकारेणासम्भाव्यमप्यन्यत्वमुच्यते तथा ता अप्यवस्थाः सम्भावनापादितान्यत्वाः पृथक् पृथक् स्युः ततश्च ताः पुरुषस्वात्मत्वात् परस्परतोऽन्यत्वाच्च पुरुषाः पृथक् पृथक्, विनिद्रावस्था प्रत्येकं पुरुषः, एवं शेषा अपि प्रत्येकं पुरुषाः, केन पुनरुपपत्तिप्रकारेणान्यत्वं ? अवधारणभेदादेव, एवं पुरुषातिदेशात् पुरुषबहुत्वं विनिद्राद्यवस्थानां पुरुषस्वात्मत्वा- 10 दिति । wwwww अथ पुरुषलक्षणापि विनिद्रावस्था न पुरुषः पुरुषोऽपि न तर्हि पुरुषोऽस्तु, पुरुषलक्षणत्वाद्विनिद्रावस्थावदेवं शेषा अपीति पुरुषाभाव एव, कुतोऽस्य सर्वगतता ? ३२५० 15 अथेत्यादि, अथ पुरुषलक्षणापि विनिद्रावस्था न पुरुषः- यदि प्रत्येकं पुरुषत्वं तद्बहुत्वञ्च दोषौ दृष्ट्वा पुरुषलक्षणापि विनिद्रावस्था पुरुषो नेष्यते ततः पुरुषोऽपि न तर्हि पुरुषोऽस्तु पुरुषलक्षण -: त्वाद्विनिद्रावस्थावत्, एवं शेषा अपीति - यथा विनिद्रावस्था पृथकू पुरुष इत्यापाद्य तत्परिहारार्थं पुरुषलक्षणत्वे स्वत्यप्यपुरुषत्वमाशक्य पुरुषस्यापुरुषत्वं तद्वदित्यापादितं तथा प्रत्येकं सुप्ताद्यवस्था अपि [पृथक् ] पुरुष इत्यापाद्य तत्परिहारार्थं पुरुषलक्षणत्वे सत्यप्यपुरुषत्वमाशङ्कय सुप्ताद्यवस्थानां तद्वत् पुरुषस्यापि च तयोर्नान्यत्वं सम्भवतीत्याह - पुरुषेति । अन्यत्वप्रयोजकमादर्शयति स्वपरेति । वस्तुनोऽन्यत्वे हि स्वविषयकृतभेदः परविषयकृतभेदश्च प्रयोजकः, यथा घटनिष्ठानां रूपरसादीनां प्रधानगतानां सत्त्वरजः प्रभृतीनां परस्परं भेदात्, यथा वा तस्य 20 घटस्य परविषयात् पटादेः प्रधानस्य च पुरुषाद्भेदादन्यत्वम् एवंविधान्यत्वप्रयोजकः प्रकृते नास्ति सर्वस्य पुरुषात्मकत्वेन परभेदाभावात् कस्यचित् कथञ्चिदिति भावः । त्वदुक्त्या तु तस्यानेकत्वं सम्भवतीत्याह-तत इति विनिद्राद्याश्चतस्रोऽवस्थाः परस्परमन्याः पुरुषातिदेशाच्च पुरुषस्वात्मान इति पुरुषस्यापि चतुर्विधत्वं प्रत्यवस्थं पुरुषत्वपर्याप्तेरिति भावः । अवस्थानां पुरुषात्मकत्वे पुरुषवदनन्यत्वमेव न्याय्यं तदभिन्नाभिन्नत्वस्य तदभिन्नत्वव्याप्तत्वात्, अन्यत्वन्तु तासामन्याय्यमेव परन्तु स्वयाऽवधारणमेदलक्षणोपपत्तिबलाच्चातुर्विध्यमुच्यतेऽतः पुरुषबहुत्वमित्याह-यथेति । तत्र हेतुमाह - ततश्चेति । प्रत्यवस्थं 25 पुरुषत्वपर्याप्तं दर्शयति - विनिद्रावस्थेति । विनिद्रावस्था पुरुषः पुरुषस्वात्मत्वात् पुरुषवदित्यनुमानं फलितम् । अथ पुरुष - स्वात्मत्वेऽपि विनिद्राद्यवस्थाया न पुरुषत्वमितीष्यते तर्हि पुरुषखात्मत्वाविशेषात् पुरुषस्यापि पुरुषत्वाभावप्रसङ्गेन कस्य सर्वंगतता भवेत् पुरुषाभावात्, विद्यमानस्यैव हि सर्वगतत्वं नाविद्यमानस्येत्याह- अथेति । शेषास्ववस्थास्खपि विनिद्रावस्था - श्रितग्रन्थसङ्गमनं विदधाति यथेति । पुरुषातिदेशात्सर्वस्य पुरुषखात्मत्वाद्विनिद्रावस्थायाः पुरुषत्वेऽपादिते वादिना च तत्परिहारार्थं पुरुषस्वात्मत्वेऽपि नासौ पुरुष इत्युक्ते प्रतिवादिना पुरुषखात्मत्वाद्विनिद्रावस्थावन्न पुरुष इति यथोपवर्णितं तथैव 30सुप्ताद्यवस्था अपि पुरुषस्वात्मत्वात् प्रत्येकं पुरुष इति प्रतिवादिनोक्ते वादिना च पुरुषखात्मत्वेऽपि पुरुषत्वानभ्युपगमे १ सि. क. sवस्थान्यथापत्तिवत् । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002585
Book TitleDvadasharnaychakram Part 2
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1951
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy