________________
३२४
द्वादशारनयचक्रम्
[विध्युभयारे इदानीमवस्थान्य[व]द्वारेणैव पुरुषानेकत्वं त्वदुक्तवद्रूमः
अवस्थास्त्वन्यत्वानेकत्व एव पुरुषः, अवस्थास्वात्मत्वात् पुरुषस्य, ततस्तासामन्यत्वेनानेका, त्वदुक्तेरेवावश्यमन्यास्ताः पुरुषात्ताभ्यश्च सोऽन्यस्तद्रूपापत्त्यनिष्टत्वात् अवस्थान्तरवत् ।
(अवस्थास्त्विति) अवस्थास्त्वन्यत्वानेकत्व एव पुरुष इत्येतत्प्रत्यभेदोपन्यासवाक्यम् तद्वचनस्मारणेन विचारार्थोपन्यासा[य] इत्यर्थः अवस्थास्तु पुरुषोऽन्यत्वानेकत्वे सत्येव, यतोऽवस्थास्वात्मत्वं पुरुषस्येष्यते ततस्तासामन्यत्वेनानेकः अन्योऽनेकश्चेति वा, तत्कथमिति चेत् त्वदुक्तेरेवावश्यमन्यास्ताः पुरुषादस्माद्विनिद्रा[य]वस्थाः ताभ्यश्च सोऽन्य इति परस्परावधिकमन्यत्वं साध्यते तद्रूपापत्यनिष्टत्वादिति हेतुः, तयोश्चावस्थावस्थावतोस्तद्रूपापत्त्यनिष्टत्वं सिद्धम् , अन्यथाऽवस्थानां विशेषितानामन्यत्वे साध्ये पुरुषपृथक्त्वेन तदसिद्धेराश्रयासिद्धिः, तद्रूपापत्त्यनिष्टत्वं वाऽसिद्धमाशङ्केत । अथवा 10 पुरुषोऽवस्था इति चाविशेष्य पराभिमतवस्तूभयमपि परस्परतोऽन्यदिति सामान्येन साध्यते, इतरस्येतररूपापत्त्याऽनिष्टत्वादित्यर्थः । अवधारणभेदाचेतररूपापत्त्यनिष्टत्वमापादितम् , किमिव ? अवस्थान्तरवत् , यथा विनिद्रावस्था सुप्तावस्थारूपापत्त्या नेष्टा तथा स्वतोऽन्यतश्चेति ।
तद्रूपापत्त्यनिष्टत्वासिद्धिरिति मा मंस्था इत्यत आह
यतोऽवस्थास्वात्मत्वमस्य नेष्यते, पुरुषातिदेशात्त पुनरन्यत्वं न सम्भवत्येव, स्वपरविष15 यकृतभेदद्वारान्यत्वासम्भवात् , कस्यचित्कथञ्चित्ततोऽन्यस्यानुपपत्तावपि चतस्रोऽवस्थाः त्वदुक्तिवदेव येन केनचिदुपपत्तिप्रकारेण सम्भावनापादितान्यत्वाः पृथक् पृथक् स्युः पुरुषश्च ।
। (यत इति) यतोऽवस्थास्वात्मत्वमस्य नेष्यते पुरुषस्य, एतदवस्थारूपापत्त्या पुरुषानिष्टत्वादवस्थाद्वारेण पुरुषस्यावस्थानाञ्चान्यत्वानेकत्वं त्वदुक्तौ चैवमुपपादितम् । पुरुषातिदेशात्तु पुनरित्यादि,
खात्मत्वात् पुरुषस्यान्यत्वानेकत्वमुक्तमित्याह-एवं तावदिति । अथावस्था प्रधानीकृत्य तद्भेदद्वारेणैव पुरुषस्यान्यत्वाने 20 कत्वमाह-अवस्था इति। पुरुषोऽवस्थाऽमिन्नस्तदा भवेद्यदा सोऽन्यत्वादनेकोऽन्यत्वे सत्यनेको वा स्यादिति तद्वाक्यस्यार्थः, इदं वाक्यं यत्स्वरूपाव्यतिरिक्तलक्षणास्ता इति पूर्ववचनं स्मारयति तथा चावस्थास्वरूपाव्यतिरिक्तलक्षणत्वात् पुरुषस्याभेदे चावधारणमेदासम्भवाद्भिन्नत्वं तेन चानेकत्वं भवतीत्याशयेनाह-प्रत्यमेदोपन्यासवाक्यमिति । पुरुषाभेदप्रतिपादकवाक्यविपरीतार्थबोधकवाक्यमित्यर्थः, कथमन्यत्वमित्यत्राह-त्वदुक्तरेवेति नावस्था एव पुरुष इत्युक्तेरेव, एवञ्च पुरुषेऽवस्था
भेदोऽवस्थासु पुरुषभेदो वा तद्रूपापत्त्यनिष्टत्वादिति हेतुना साध्य इत्साह-परस्परेति अवस्थावस्थावन्तौ परस्परं भिन्ना विति 25 प्रतिज्ञातव्यं पुरुषस्यावस्थापत्तेरनिष्टत्वस्य त्वदिष्टत्वान्नासिद्धत्वं हेतोः, पुरुषोऽवस्थाभिन्नस्तद्रूपापत्त्यनिष्टत्वादित्युक्तौ तु सिद्धसाधनं दोषः, अवस्थाः पुरुषभिन्नाः तद्रूपापत्त्यनिष्टत्वादित्युक्तौ चाश्रयासिद्धिः पुरुषभिन्नावस्थाऽसिद्धरित्याह-अन्यथेति । पुरुषोऽवस्था इति नामग्राहमकृत्वा सामान्यतः पराभिमतं वस्तूभयं परस्परतोऽभिन्नं, इतरेतररूपापत्त्यनिष्टत्वादिति साध्यमित्याह-अथवेति । यथा चतसृषु विनिद्राद्यवस्थासु एकस्या अपररूपताया अनिष्टता तथाऽवस्थावस्थावतोः परस्पररूपत्वेऽनिष्टत्वम्, न
चासिद्धता हेतोः, अवधारणभेदाङ्गीकारेणेतरस्येतररूपतापत्त्याऽनिष्टतायाः सिद्धत्वादिति भावः । उक्तानुमाने निदर्शनमाह30 अवस्थान्तरवदिति । इदमेवाह-यत इति नावस्था एव पुरुष इत्यवधारणाङ्गीकारेण पुरुषस्यावस्थास्वात्मत्वाभावात्तयो
स्त्वदीयाभिप्रायेणावस्थापेक्षयाऽन्यत्वमनेकत्वञ्च सिद्धमित्यभिप्रायः। पुरुष एवेदमिति वचनादवस्थाः पुरुष एवेत्यवधारणाङ्गीकारे
सि. त्वदुत्तौ चैवमिति नास्ति ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org