________________
३२३
अचेतनत्वाद्यापत्तिः] न्यायागमानुसारिणीव्याख्यासमेतम् पुरुषस्वात्मत्वादवस्थावदिति प्राप्तः, यथा विनिद्राद्यवस्थाः पुरुषस्वात्मान एव नावस्थान्तरात्मिका इति कृत्वा पुरुषेणाभिव्याप्तास्तथा पुरुषोऽपि पुरुषस्वात्मत्वात्तदविनाभावात् पुरुषान्तरेणाभिव्याप्तः स्यात्तथा तदपि पुरुषान्तरं पुरुषस्वात्मत्वात्तद्वदेवेति पुरुषानेकत्वं स्यात्तस्यापि तथैवेत्यनवस्था च, ततश्च पुरुषेणाभिव्याप्तत्वादनवस्थितैकत्वप्रतिष्ठः पुरुष इति प्राप्तम्-अनवस्थिता एकत्वेन एकत्वे वा प्रतिष्ठाऽस्य सोऽयमनवस्थितैकत्वप्रतिष्ठः पुरुषः स्यात् पुरुषस्वात्मत्वात् , अवस्थावत् , यथाऽवस्थाः पुरुषस्वात्मत्वादनवस्थितैकत्व- 5 प्रतिष्ठास्तथा पुरुषोऽपि स्यादिति । तथाऽनवस्थिततत्त्वप्रतिष्ठः- तस्य भावस्तत्त्वमात्मस्वरूपम्, अनवस्थिता तत्त्वेन तत्त्वे वा प्रतिष्ठाऽस्य सोऽयमनवस्थिततत्त्वप्रतिष्ठः न स्वरूपे प्रतिष्ठितः स्यात् पुरुषः पुरुषस्वात्मत्वादवस्थावत्, यथाऽवस्थाः पुरुषस्वात्मानोऽनवस्थितात्मस्वरूपव्यवस्थाप्रतिष्ठाः पुरुषखरूपव्यवस्था एवेष्यन्ते तत्रैव तासां प्रतिष्ठा, न स्वात्मसु, तथा पुरुषोऽपि स्यात् । पुरुषान्तरातिदेश्यश्च पुरुषः स्यात् पुरुषस्वात्मत्वादवस्थावत्, यथेमाः सुप्ताद्यवस्थाः पुरुषस्वात्मत्वात् पुरुष एवेदं 10 सर्वमित्यति दिश्यन्ते तथा पुरुषः पुरुषस्वात्मत्वात् पुरुषान्तरमेवायमित्यतिदेश्यः स्यात् ।
स्यान्मतमेतद्दोषभयादिदंशब्दवाच्यप्रत्यक्षादर्थान्तरं पुरुषमभ्युपगम्यता एवावस्थाः पुरुष इति प्रत्यक्षार्थेदंविषयतया पुरुष एवेदं सर्वमिति दृश्येऽदृश्यस्यातिदेशः स्यात् , यथाऽयं देवदत्त एवेत्ययंशब्दवाच्यो हि देवदत्तः प्रत्यक्षत्वाप्रत्यक्षत्वयोः स एव तथा पुरुष एवेदमिति, एतच्चायुक्तम् यस्मात्
अस्यां प्रत्यक्षार्थेदंविषयतायां वाऽचेतनव्यक्तमूर्त्तानित्यादिरूपार्थपुरुषपरमार्थता प्राप्नोति। 15
(अस्यामिति) अस्यां प्रत्यक्षार्थेदंविषयतायां सत्यामचेतनव्यक्तमूर्त्तानित्यादिरूपार्थपुरुषपरमार्थता प्राप्नोति । आदिग्रहणादसर्वात्मकासर्वगतकार्यानेकत्वादिरूपार्थपुरुषपरमार्थतापि, न चेतनाव्यक्तामूर्तनित्यसर्वात्मकसर्वगतकारणैकरूपार्थपुरुषपरमार्थता स्यादिति प्रसङ्गतोऽयं दोष आपादितः, एवं तावदन्य[त्वा]नेकत्वः पुरुष इति पुरुषस्वात्मापरित्यागेनावस्थाभेदैद्वारेणोक्त्वोक्तः ।
mmmwwwmumm
ततश्चेति खस्य खाव्याप्तत्वलक्षणबाधसहकारेण यो यत्स्वात्मा स तेनाभिव्याप्त इति सामान्यव्यायापि पुरुषान्तराभिव्याप्तत्वलक्ष-20 णविशेषासिद्धेः पुरुषोऽनवस्थितैकत्वतत्त्वप्रतिष्ठः पुरुषखात्मत्वादवस्थावदिति भावः। अनवस्थितैकत्वतत्त्वप्रतिष्ठ इति पदं खण्डशो व्याकरोति-अनवस्थितेति । यथेति अवस्थानां चतुर्विधत्वेनैकत्वे एकत्वेन वाऽनवस्थितत्वं बोध्यम् । अवस्थानां पुरुषात्मकतया पुरुषवरूप एव व्यवस्थितत्वं नात्मखरूपेऽतोऽनवस्थिततत्त्वप्रतिष्ठास्तथा पुरुषोऽपीत्याह-तथेति । एवमवस्थाः यथा पुरुषमयत्वेनातिदिश्यन्ते तथा पुरुषोऽपि पुरुषान्तरमयत्वेन पुरुषान्तरमेवायमित्यतिदेश्यः स्यादित्याह-पुरुषान्तरेति, नन्विदं सर्वे पुरुष एवेति पुरुषप्राधान्येन न पुरुषमयत्वातिदेशः क्रियते येनोक्तदोषाः स्युः, यतोऽत्रोपादेयस्य पुरुषमयत्वस्योद्देश्येन एतत्सर्वेणा- 25 मेरिव धूमेनाध्याप्तेरेतत्सर्वातिरिक्त पुरुषेऽपि पुरुषमयत्वप्राप्तेः किन्तु एता अवस्था एव पुरुष इति प्रत्यक्षार्थेदंविषयावस्था एवोद्दिश्य पुरुषमयत्वं विधीयते, तथाच पुरुषमयत्वस्यावस्थात्वव्याप्यतया न पुरुषः पुरुषान्तरातिदेश्य इति शङ्कते-स्यान्मतमिति। एवं सति पुरुषमयत्वावस्थात्वयोः समव्याप्ततयाऽवस्थापुरुषयोः प्रत्यक्षत्वाप्रत्यक्षत्वयोरभेदेन पुरुषस्यापि प्रत्यक्षार्थेदं विषयतायां सत्यां प्रत्यक्षार्थस्याचेतनत्वव्यक्तत्वमूर्त्तत्वानित्यत्वासर्वात्मकत्वकार्यत्वादिधर्मवत्तया पुरुषोऽपि तथैव भवेन तु चेतनत्वाध्यकत्वामूतत्वनित्यत्वादिधर्मवान् स्यादित्युत्तरयति-अस्यामिति । अयं दोषः पुरुषस्यावस्थाखात्मत्व एव सम्भवति न 30 तु पुरुषखात्मत्व इति पुरुषखात्मत्वप्रयुक्तदोषोपवर्णनावसरे तत्प्रदर्शनमनुचितमिति शङ्कां मनसिकृत्योरुभयोरमेदप्रसङ्गतोऽयमपि दोषः प्रसज्यत इति प्रदर्शित इत्याह-प्रसङ्गतोऽयमिति । एवं पुरुषं प्रधानतया परिगृह्य अवस्थामेदद्वारेण पुरुष
१ सि.क. इझ्यस्पृश्याचतिविश्यात् । २ सि.क. तापि । ३ सि.क. भेदं तद्वा० ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org