________________
www
३२२ द्वादशारमयचक्रम्
[ विध्युभयारे ख्यातः पुरुष एवेदं सर्वमिति, किमर्थमसावतिदेशः ? अद्वैतैकान्तार्थः-अद्वैतमेकपुरुषमयमित्येतत्प्रतिपादनार्थस्तस्यैवासिद्धिः-अद्वैतैकान्तस्य, किं कारणं ? यस्मादेकपुरुषाभ्युपगमोऽयमेकपुरुषासिद्धिमेव ते करोति, तत्कथमिति चेत् ? योऽसावेक एव त्वया पुरुषः सम्भाव्यते तस्याप्यनेकतैवमापद्यते, एवमिति त्वदभिहितेनैव पुरुषस्वात्मातिदेशाद्वैतेन । 5 का पुनर्भावना ? उच्यते
यत्स्वरूपाव्यतिरिक्तलक्षणा अवस्थास्त्वया विना भेदेनोच्यन्ते पुरुष एवावस्था इति, नावस्था एव पुरुष इति तत एव तस्य ताभ्यो नानात्वं तासाश्च त्वद्वचनादेव सिस्पति, यथोद्धग्रीवादिलक्षणो घटो घट एवो ग्रीवादय इति, न त्वभेदेऽवधारणभेदोऽस्ति, यथा घट स्वात्मैव घटो घट एव घटस्वात्मेति, स पुरुषोऽप्येवश्च सति पुरुषान्तरेणाभिव्याप्तः, ततश्चान10 वस्थितैकत्वतत्त्वप्रतिष्ठः पुरुषान्तरातिदेश्यश्च, पुरुषस्वात्मत्वादवस्थावत् ।।
यत्वरूपेत्यादि यावदवस्थावदिति, यस्य स्वरूपं यत्स्वरूपं यस्य स्वरूपं पुरुषस्य, किं स्वरूपं ? नित्यसर्वगतसर्वात्मकत्वकारणत्वादीनि, तदव्यतिरिक्तं लक्षणमासां ता अवस्थास्तव्यतिरिक्तलक्षणाः तत्स्वरूपपुरुषाव्यतिरिक्तलक्षणास्त्वया विना भेदेनोच्यन्ते-तस्मात् पुरुषादभिन्ना एवोच्यन्त
इत्यर्थः, तद्यथा पुरुष एवावस्था [इति], नावस्था एव पुरुष इत्यवधारणभेदादेव भेदोपदर्शनेन च भेदोऽ15 भ्युपगम्यते तत एव तस्य ताभ्यो नानात्वं तासाञ्च त्वद्वचनादेव सिद्ध्यति यथोर्द्धग्रीवादिलक्षणो घटो घट एवोर्द्धग्रीवादयः, न पटो न पटचातुरख्यादय इति तस्य तासु तासाश्च तस्मिन्नवधारणानवधारणाभ्यां भेद एव सिद्ध्यति, न त्वभेदेऽवधारणभेदोऽस्ति यथा घटस्वात्मैव घटो न [ घट एव] घटस्वात्मेति, तस्मादवस्थानां विनिद्रादीनामवस्थावतश्च पुरुषस्य भेदस्त्वद्वचनादेवेति । किञ्च स
पुरुषोऽपीत्यादि, एवञ्च सति-एकपुरुषमयत्वातिदेशात्यागे सोऽपि पुरुषः पुरुषान्तरेणाभिव्याप्तः 20 तावन्तः पुरुषाः स्युन तु त्वदिष्टैकान्ताद्वैतसिद्धिरिति भावः। एतदेव स्फुटीकर्तुमाह-यत्स्वरूपेति पुरुष एवावस्था इति सामानाधिकरण्यनिर्देशात् पुरुषवरूपाव्यतिरिकखरूपताऽवस्थानां प्रदर्शिता । तथा नावस्था एव पुरुष इति सामानाधिकरण्यनिर्देशेन प्रतीयमानाभेदस्य ना निषेधादवस्थाभ्यः पुरुषस्य भेदो गम्यते तथाऽवस्थानामपि परस्परं भेदस्त्वया खीकृत एवेति भावः । तत्र दृष्टान्तं दर्शयति-यथेति, ऊर्द्धग्रीवादिलक्षणो घटो न पटः, घट एवोर्द्धग्रीवादयो म पटचातुरख्यादय इति वचनेन
घटामेद ऊर्ध्वग्रीवादेः प्रतीयत इति भावः । ततश्चानवस्थितेति, एकत्वेन तत्त्वेन च यद्वैकत्वे तत्त्वे चानवस्थिता प्रतिष्ठा 25 यस्य पुरुषस्येति विग्रहः, पुरुषस्यानेकत्वापादनात्तस्यानवस्थितैकत्वप्रतिष्ठत्वम् , पुरुषपरम्परानवस्थापादनाचात्मरूपासिद्ध्याऽ
नवस्थिततत्त्वप्रतिष्ठत्वं बोध्यम् । पुरुष एवावस्था इति निर्देशेनामेदप्रतिपादनेऽपि अवस्था एव पुरुष इत्यनुक्त्वा नावस्था एव पुरुष इत्यवधारणमेदाङ्गीकारेण पुरुषावस्थयोर्भेद एव स्यात्. न हि सर्वथाऽभिन्नेऽवधारणभेदः कापि दृष्ट इत्याह-अवधारणानवधारणाभ्यामिति । तस्य-पुरुषस्य तासु-अवस्थासु अभेदावधारणेन, तासां-अवस्थानां तस्मिन्-पुरुषेऽभेदानवधा. रणेन । अमेदेऽवधारणभेदासम्भवे निदर्शनमाह-यथेति । अयं पुरुषः पुरुषान्तरेणाभिव्याप्तः पुरुषस्वात्मत्वात्, यो यत्स्वात्मा 30 स तेनाभिव्याप्तो यथा विनिद्राद्यवस्थाः, ता हि पुरुषवात्मिका एव, नान्यः कश्चित्तासामात्मा. तस्मादेव तास्तेनाभिव्याप्ताः, सतु व्यापकः, एवमेव पुरुषोऽपि पुरुषखात्मेति येन केनाप्यन्येन पुरुषेणाभिव्याप्तः स्यात्, न तु तेनैव पुरुषेण, व्याख्या पुरुषान्तराभिव्याप्तत्वासिद्धावपि खस्य खेनाभिव्याप्तत्वासम्भवात् पुरुषान्तराभिव्याप्तत्वं फलति, तदपि पुरुषान्तरं पुरुषखात्मत्वादेवापरपुरुषान्तराभिव्याप्तं भवेदित्येवमुत्तरोत्तरपुरुषान्तराभिव्याप्तत्वं पूर्वपूर्वपुरुषादेर्भाव्यम्, तथाचानेके पुरुषा भवेयुरनवस्था चेत्साह-एकपुरुषमयत्वेति एवञ्च पुरुष एकत्वे एकत्वेन वा न व्यवस्थितः, तथा खात्मस्वरूपे खात्मस्वरूपेण वेत्साह
mmmmmmmmmmwwww
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org