________________
mwwwwwwww
पुरुषानेकता] न्यायागमानुसारिणीव्याख्यासमेतम्
३२१ श्वलनात् , शिरःकण्डूयनाच्चेति, नोर्द्धत्वादिति, उपवर्णनेन भिन्नानि रूपाण्यासां विनिद्राजापत्सुप्तसुषुतत्वादिविशेषवर्णनेन तैश्चतूरूपैभिन्नैर्व्यतिकरः सङ्करश्च तासां प्राप्तः, इत्थमुक्तैकत्वात् । व्यतिकरो विनिद्रावस्थास्वात्मत्वं जाग्रदवस्थास्वात्मनः, जाग्रदवस्थास्वात्मत्वं विनिद्रावस्थास्वात्मनः, एवमितरयोरवस्थयोरपीतरेतरस्वात्मत्वप्राप्तिः, एतयोश्च तत्स्वात्म[व]प्राप्तिस्तयोरेतत्स्वात्म[त्व] प्राप्तिः । ततश्च दानशीलतपोविशेषैर्नरकावाप्तिहिंसादिभिः स्वर्गावाप्तिः, स्वर्गे दुःखानुभवनं नरके सुखानुभवनं पुरुषतत्त्वाज्ञाना- 5 न्मुक्तिरिति, सङ्करस्तु क्षीरोदकसंयोगवदविवेचनीयविनिद्रावस्थास्वात्मत्वमित्येतौ व्यतिकरसङ्करौ प्राप्तौ, ताभ्याञ्च-व्यतिकरसङ्कराभ्यां हेतुभ्यामतथात्वं-विनिद्रावस्थाया अविनिद्रावस्थात्वम् , एवं शेषाणामप्ययथावस्वरूपत्वमासामवस्थानां तत्स्वात्मत्वात् , पुरुषस्वात्मत्वात् , पुरुषखात्माभिन्नविनिद्राद्यवस्थास्वात्मत्वादिति यावत् , तदेवैकत्वम् , कारणमाह-तत्तत्स्वात्मत्वात् तत्स्वात्मव] दिति, तासामतथात्वमित्थमुक्तम् , अस्य चेति, पुरुषस्याप्यतथात्वमेव-अपुरुषत्वमेव, तत्स्वात्मत्वात्तत्स्वात्मवदिति, एतमर्थ- 10 मुपसंहरति-इति पुरुषावस्थाव्यवस्था[ऽभावः]-इत्थं पुरुषस्यावस्थानाञ्च ब्यवस्था-विशेष्यासाधारण्येन लक्षणेन च वृत्त्याख्या व्यवस्था तस्या अभावः स्वरूपसिद्धेरभावात् ।।
मा भूदेष दोषः पुरुषस्यावस्थानाञ्च व्यवस्थाया अभाव इति यदि पूर्वोक्तवद्व्यवस्थां पृथक् पृथक् मन्यसे पुरुषस्यापि सर्वावस्थाव्यापिनोऽवस्थानाञ्च चैतन्यसमवस्थानाविर्भावतिरोभावोत्कर्षापकर्षभेदभिन्नानां प्राग्व्याख्यातसृष्टिवत् ततश्च
15 उक्तवद्वा व्यवस्थानुमतौ सत्यां पुरुषातिदेशस्त्याज्यः, तदत्यागे यदर्थमयमतिदेशोऽद्वैतैकान्तार्थस्तस्यैवासिद्धिः, एकपुरुषाभ्युपगमो ह्ययमेकपुरुषासिद्धिमेव ते करोति, योऽसावेक एव सम्भाव्यते पुरुषस्तस्याप्यनेकतैवमापद्यते ।
(उक्तवद्वेति) उक्तवद्वा व्यवस्थानुमतौ सत्यां पुरुषातिदेशस्त्याज्यः पुरुष एवेदं सर्वमिति, एकपुरुषमयत्वातिसर्गस्यक्तव्यो जायते पृथक् पृथक् पुरुषस्यावस्थानाञ्च स्वरूपव्यवस्थाभ्युपगमे पुरुषै- 20 ककारणमयत्वविरोधादिति । एष दोषो मा भूदिति तदत्यागे यदर्थमयमतिदेशः-अतिसर्गः प्राग्व्या
वमपरिच्छिन्नबोधं प्रत्येव समर्थत्वादिति भावः। एकस्यापरखात्मत्वप्राप्तिलक्षणं व्यतिकरमादर्शयति-व्यतिकर इति । तत्र दोषमाह-ततश्चेति । अविवेचनीयस्वभावत्वलक्षणं सङ्करं निदर्शयति-सङ्करस्त्विति । यद्वस्तु यथा विद्यते तत्तथा न स्यात् संकराव्यतिकराच्चेत्याह-ताभ्याश्चेति । जाग्रदाद्यवस्थायाः विनिद्राद्यवस्थावात्मत्वं साक्षान्नास्तीत्यतस्तदर्थमाह-पुरुषखात्मत्वादिति। जाग्रदाद्यवस्थायाः पुरुषस्वात्मत्वे पुरुषत्वमेव स्यात्, न तु विनिद्राद्यवस्थात्वमिति कथं व्यतिकरसङ्करावित्य- 26 त्राह-पुरुषखात्मेति । इत्थमेव पुरुषस्याप्यपुरुषत्वं विनिद्राद्यवस्थावात्मत्वेन विनिद्राद्यवस्थारूपत्वादित्याह-पुरुषस्यापीति । तथा च पुरुषावस्थयोः सङ्करव्यतिकराभ्यां वरूपस्यवासिङ्या कथं तयोर्व्यवस्था भवेदित्याह-इत्थमिति । पृथक पृथगिति चतस्रोऽवस्थाः परस्परं भिन्नाः सर्वत्रानुवर्तनशीलः पुरुषोऽवस्थाभ्योऽन्य इति व्यवस्था मन्यस इत्यर्थः। तथाविधव्यवस्थाभ्युपगमे सर्व पुरुषमयमिति कथमतिदिश्यतेऽभेदे हि स सम्भवति नान्यथेत्याह-उक्तवद्वेति । तथापि तदतिदेशाग्रहे तेन पुरुषमयत्वातिदेशेनैकान्तेनाद्वैतसिद्धिस्तेऽभिमता न सेत्स्यति प्रत्युतानेके पुरुषाः सम्पद्यन्तेऽवस्थाभिन्नत्वात् पुरुषस्ये-30 याह-यदर्थमयमिति ।'विनिद्राद्यवस्थानां देवमनुजादीनां घटपटादीनाञ्च परस्परं भिन्नतया निखिलानामेषां पुरुषमयत्वे
द्वा० न० ३ (४१) Jain Education International 2010_04 For Private & Personal Use Only
www.jainelibrary.org