________________
wwwwwwwwwwwwwwwwww
३२० द्वादशारनयचक्रम्
[विध्युभयारे निद्रावस्थावत् , विनिद्रावस्थैव सुषुप्तावस्था विनिद्रावस्थास्वात्मत्वाद्विनिद्रावस्थावत् , तथा जाग्रदवस्थैव विनिद्रावस्था जाप्रदवस्थास्वात्मत्वा जाग्रदवस्थावत् , अस्यापि पूर्ववव्याख्या, एवं जाग्रदवस्थया सहैक्यं विनिद्रावस्थाया व्याख्येयम् , एवमितरे अपीत्यतिदेशः, जाग्रदवस्थैव सुप्तावस्था जाग्रदवस्थास्वात्मत्वाज्जायदवस्थावत् , जानदवस्थैव सुषुप्तावस्था जाग्रदवस्थास्वात्मत्वाजाग्रदवस्थावत् । तथा सुप्तावस्थैव । विनिद्रावस्था सुप्तावस्थास्वात्मत्वात्सुप्तावस्थावत् , एवमितरे अपीत्यतिदेशः, सुषुप्तावस्थैव जाग्रत्सुप्ता
वस्थे सुषुप्तावस्थास्वात्मत्वात् , सुषुप्तावस्थावत् । एवमेवावस्थानां प्रत्येकं विशेष्य परस्परत ऐक्यं भावितम् , सामान्येनापि सर्वोपसंहारेणोच्यते-यैवान्यावस्था सैवान्यापि, एकस्वात्मत्वात् सेवेति । अथवाऽवस्थानामपि प्रत्येकभेदेषु परस्परात्मत्वापादनेन मनुष्यतिर्यगमरादिषु घटपटतृणादिषु चैक्यमुन्नेयम्-इतरात्मकमितरत् इतरात्मत्वात् , तत्स्वात्मवदिति, इति पुरुष एवेत्यादि यावद्भेदाभावादिति, 10 इति-अस्मात् कारणादेकत्वाद्यत् प्रोक्तं सर्वत्र सम्भाव्याभावात् सर्वाव्यापिता पुरुषस्येति तदुपनयति
पुरुष एवेदं सर्वमित्यतिदेशाभावो भेदाभावादिति, अतिदेशोऽतिसर्जनम्-पुरुषात्मकत्वव्याख्या तदभाव इत्यर्थः, पुरुषेण वाऽस्याप्रत्यक्षेणेदंशब्दवाच्यस्य प्रत्यक्षस्यातिदेशः, अनेन वा तस्याप्रत्यक्षस्यातिदेशः सर्वमेव तन्मयमिति ।
किश्चान्यत्18 उपवर्णनभिन्नरूपाणामासां व्यतिकरः सङ्करश्च प्राप्तः, व्यतिकरो विनिद्रावस्थास्वात्मत्वं
जाग्रदवस्थास्वात्मनः, जाग्रदवस्थास्वात्मत्वं विनिद्रावस्थास्वात्मनः, एवमितरयोरवस्थयोरपीतरेतरस्वात्मत्वप्राप्तिः । सङ्करस्तु क्षीरोदकसंयोगवदविवेचनीयविनिद्रावस्थास्वात्मत्वमिति, ताभ्याश्चातथात्वं तत्तत्स्वात्मत्वात् तत्स्वात्मवत् , अस्य चातथात्वमेव तत्स्वात्मत्वात् तत्स्वात्मवदिति पुरुषावस्थाव्यवस्थाऽभाव एव । 20 उपवर्णनेत्यादि, यावद्व्यवस्थाभाव एवेति, उप सामीप्ये, सामीप्येन वर्णनमुपवर्णनं विशेष
धर्मेण न सामान्यधर्मेण, सामान्यधर्मस्य दूरत्वात् , यथा पुरुषोऽयं समुत्थायोपविष्टत्वात् पाण्यादिसविनिद्राथवस्थानां जाग्रदवस्थात्वमाह-तथा जाग्रदिति। विनिद्राद्यवस्थानां सुप्तावस्थात्वमाह-तथा सुप्तेति। तासां सुषुप्तावस्थात्वमाह-सुषुप्तेति । एवं नारकतिर्यनरामराणां घटपटादीनामप्येवमेव परस्परं स्वस्खावान्तरभेदानाञ्च तत्तदवस्थावात्मत्वं हेतूकृत्यै
क्यं भाव्यमित्याह-अथवेति। तत्प्रकारमेव दिशोपदर्शयति-इतरेति । अतिसर्जनस्य दानार्थत्वात्प्रकृतोपयोग्यर्थमाह-पुरुषा28 कत्मत्वेति. उपवर्णनेति उपवर्णनं हि वस्तूनां परिच्छिन्नतया बोधनम् , तच्च विशेषधर्मेणैव भवेत् , घटत्वादिरूपेण हि परिज्ञातस्यैव द्रव्यस्य जलाहरणाद्यर्थक्रियाकरणसमर्थत्वात् तेन रूपेण तस्य वर्णने पदार्थान्तरव्यावृत्त्या परिच्छिन्नबोधो भवति, न तु सामान्यधर्मेण वर्णने, तस्याव्यावर्तकधर्मत्वेन परिच्छिन्नबोधाजननवभावत्वात् , द्रव्यत्वादिना ज्ञाते किमयं घटो वा पटो वाऽन्यो वेत्यपरिच्छिन्नबोधस्यैव जननात् अर्थक्रियाद्यनुदयेन सामान्यधर्मो विनिश्चितबोधं प्रति दूरभूतो विशेषधर्मस्तु झटिति व्यवहारसम्पादकत्वेन तथाविधषोधं प्रति सन्निकृष्टः, एवञ्चावस्था आत्यन्तिकनिद्राविगमत्वादिविशेषधर्मेणोपवर्णिताश्चातुर्विध्येन, ततश्च. 30 तुर्विधानां तासां तत्तत्वात्मत्वात् परस्परमेकत्वात् वैपरीत्य सङ्करश्च प्राप्त इति भावः । सामान्यविशेषधर्मयोर्दूरत्वसन्निहितत्वे दृष्टान्तमाह-यथेति समुत्थायोपविष्टत्वादयो विशेषधर्मा पुरुषत्वपरिच्छेदाय सन्निहिताः, नोर्दत्वादयस्तेषां पुरुषो वा स्थाणुवेत्ये
सि.क. विनिद्रावस्थया सहैक्यमित्यधिकः पाठः । २-३ सि. क. एवमितरेऽपी ।
wwwwwwwwww
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org