________________
अवस्थैकत्वम्] न्यायागमानुसारिणीव्याख्यासमेतम् त्मकसर्वगतत्वभावनैकैकावस्थाभेदाभेदापत्त्यविकल्परूपाभ्युपगमात् ततोऽन्यस्य खपुष्पस्थानीयत्वात् , प्रागवस्थानामेव सत्त्वमभ्युपगम्यानवस्थात्वेऽचतुरात्मकत्वादित्युक्तम् , अधुना तु पुरुषमेवाभ्युपगम्यानवस्थात्मक परपरिकल्पितमेष दोष उक्त इति व्याख्ययोर्भेद इति । असन् पुरुषोऽनवस्थत्वात् खपुष्पवत् अनवस्थस्य तस्याभ्युपगमेऽपि तु पुरुषस्यावस्थानां चतसृणामप्यैक्यं स्यात् कुतः ? पुरुषस्वात्मत्वात् पुरुषवत् , यथा हि पुरुषस्वात्मत्वात् पुरुष एक एव तथा ता अप्यवस्थास्तत्स्वात्मत्वादेकमिति 5 चतुष्काभावाञ्चतस्रोऽवस्था इति बहुवचनानुपपत्तिस्ततश्चैकत्वात् सर्वत्वेन सर्वत्र सम्भाव्यो न भवति पुरुषः, सृ गताविति सर्वत्वस्यानेकाश्रयत्वात् पुरुष एव सर्वमिति यदाश्रयादुच्यते तत्सर्वं किमाश्रयं ? यदुक्त्वा सर्व पुरुषस्य सर्वव्यापिता वर्ण्यते, तत आह-सर्वत्र सम्भाव्याभावात् सर्वाव्यापिता पुरुषस्य प्राप्ता व्याचिख्यासितसर्वव्यापित्वविरोधिनी ।
ततः पुनरेकत्वं विनिद्रावस्थास्वात्मत्वात्तासाम्, पुरुषस्वात्मत्वात् परस्परात्मकत्वञ्च 10 सिद्धम् , विनिद्रावस्थैव हि जाग्रदवस्था विनिद्रावस्थास्वात्मत्वाद्विनिद्रावस्थावत् , एवमितरे अपि तथा जाग्रदवस्थैव विनिद्रावस्था जाग्रदवस्थास्वात्मत्वात् जाग्रदवस्थावत् तथा सुप्तावस्थैव । विनिद्रावस्था सुप्तावस्थास्वात्मत्वात्सुप्तावस्थावत् तथा सुषुप्तावस्थैव विनिद्रावस्था सुषुप्तावस्थास्वात्मत्वात् सुषुप्तावस्थावत् यैवान्यावस्था सैवान्यापि, एकस्वात्मत्वात् , सेवेति पुरुष एवेदं सर्वमित्यतिदेशाभावो भेदाभावात् ।
(तत इति) ततः पुनरेकत्वं विनिद्रावस्थास्वात्मत्वात्तासाम् , पुरुषस्वात्मत्वात् परस्परात्मकस्वञ्च सिद्धम् , तदिदानी भाव्यते विनिद्रावस्थैव हि जाग्रदवस्था, विनिद्रावस्थास्वात्मत्वात् , विनिद्रावस्थाघत् , यथा विनिद्रावस्था विनिद्रावस्थास्वात्मत्वाद्विनिद्रावस्थैव तथा जाग्रदवस्थापि विनिद्रावस्थास्वात्मत्वाद्विनिद्रावस्यैवेतीत्थं विनिद्रावस्थया सहैक्यं जाग्रदवस्थायाः, विनिद्रावस्थास्वात्मत्वञ्च सर्वावस्थानां पुरुषस्वात्मत्वात्त्वयैवाभ्युपगतम् , एवमितरे अपीति, विनिद्रावस्थैव सुप्तावस्था विनिद्रावस्थास्वात्मत्वाद्वि- 20
15
अभ्यपगतैवेति भावः । अनवस्थत्वादित्यसकृदुक्तहेतोः पुनरुक्तताशङ्काव्यवच्छेदायाह-प्रागवस्थानामेवेति. अस्माभिरवस्था नाभ्युपगम्यन्ते तास्त्वयाऽभ्युपगम्यापि पुरुषात्मत्वेन चेदभ्युपगम्यन्ते तर्हि पुरुषोऽनवस्थत्वादसन्नेवेत्याशयेनाह-असन्निति । तादृशस्यापि तस्याङ्गीकारे पुरुषस्वात्मत्वात् पुरुषस्यैकत्ववदवस्थानामपि तत एवैकत्वप्रसङ्गेन तासां चतस्र इति विशेषणमवस्थाशब्दाबहुवचनोपादानच निष्फलमित्याह-अनवस्थस्येति । अवस्थैकत्वाभ्युपगमेऽपि न ते सौख्यमित्याह-ततश्चैकत्वादिति, पुरुषव्यतिरिक्तस्य कस्याप्यभावेन किं वस्तु सर्वपदेनोद्दिश्य पुरुषाभेदः पुरुष एवेदं सर्वमित्यनेन विधीयते, आश्रयाभावेनैव नासौ 25 सर्वत्राभेदेन सम्भाव्यः अत एवासौ न सर्वव्यापीति भावः। अवस्थानां पुरुषखात्मत्वे एकत्वमेव स्फुटं भाव्यते-ततः पनरिति । एकत्वञ्चात्रामेदः, विनिद्रावस्था विनिद्रावस्थावात्मत्वाद्यथा विनिद्रावस्थेत्युच्यते तथा सुप्तावस्था सुषुप्तावस्था जाग्रदवस्थाऽपि विनिद्रावस्थावात्मत्वाद्विनिद्रावस्थैव भवेत् ,न तु ततो विलक्षणा स्यात्. ननु सुप्ताद्यवस्थाया विनिद्रावस्थावात्मत्वं कथमिति चेदुच्यते,अवस्थात्मकत्वं पुरुषस्य त्वयोच्यते, तथा सति पुरुषविनिद्रावस्थयोरेकस्वरूपत्वात् सुप्ताद्यवस्थानामपि पुरुषात्मकत्वात् विनिद्रावस्थाखात्मत्वं सिद्धं तथैव विनिद्राद्यवस्थानामपि सुप्तावस्थावात्मत्वं सुषुप्तावस्थास्वात्मत्वं जाग्रदवस्थास्वात्मत्वञ्च सिद्धं 30 विनिद्रावस्थाखात्मभूतपुरुषखात्मकत्वात्सुप्ताद्यवस्थादेर्विनिद्रावस्थात्मकत्वम् , तदभिन्नाभिन्नस्य तदभिन्नत्वनियमादिति भावः । एवं सुप्तसुषुप्तावस्थयोविनिद्रावस्थात्वमतिदिशति-एवमितरे अपीति,सुप्तावस्थासुषुप्तावस्थे अपि विनिद्रावस्थात्मिके भाव्ये इत्यर्थः
.सि. क. एवमितरेपि।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org