________________
३१८ द्वादशारनयचक्रम्
[विध्युभयारे किञ्चान्यत्
अत एव च तदुभययुक्तत्ववाच्यत्वाभ्युपगम एव, पितृपुत्रवत् , तदन्यतरत्यागोपादानायुक्तत्वस्य तदविनाभावात् , अवस्थानामभावेऽनेकदोषप्रसङ्गात् ।
अत एव चेति अत एव-त्वदभिहितात् कारणा[ दन्यतर ]त्यागोपादानायुक्तत्वादपि 5 च तदुभययुक्तत्ववाच्यत्वाभ्युपगम एव, पितृपुत्रवत् , यथैकः पिता पुत्रश्चावश्यमसौ खपितुः
पुत्रत्वमन्तरेण [ न ] स्वपुत्र प्रति पितृत्वमनुभवतीति न पुत्रत्वं त्यजति, नापि पुत्रत्वमेवोपादत्ते नापि पितृत्वमेव, ततोऽसौ पिता पुत्रश्चेति वक्तव्यः, तहयधर्मयुक्तश्च दृष्टः, तथा स पुरुषो विनिद्रालक्षणालक्षणान्यतरत्यागोपादानायुक्तत्वादेव तल्लक्षणातल्लक्षणधर्मद्वययुक्तस्तद्धर्मद्वयवाच्यश्चावश्यं भवितुमर्हति, तदन्यतरत्यागोपादानायुक्तत्वस्य तदविनाभावात् , एवं तावत् पुरुष एवावस्था इत्येतदयुक्तम् , अवस्थाना10 मभावेऽनेकदोषप्रसङ्गात् ।
अभ्युपेत्यापि पुरुषस्वात्मत्वमवस्थानां चतसृणां पुरुषासत्त्वदोषं ब्रूमः
यद्यपि च पुरुषस्वात्मैव चतस्रोऽप्यवस्थास्तथापिन तर्हि नामेदानीं पुरुषोऽस्ति, अनवस्थत्वात् खपुष्पवत् , अनवस्थस्य तस्याभ्युपगमेऽपि तु पुरुषस्यावस्थानां चतसृणामप्यैक्यं स्यात्,
पुरुषस्वात्मत्वात् , पुरुषवत् , ततश्च सर्वत्वेन सर्वत्र सम्भाव्याभावात् सर्वाव्यापिता पुरुषस्य । 15 यद्यपि चेत्यादि, यद्यपि च पुरुषस्वात्मैव चतस्रोऽप्यवस्थास्तथापि न तर्हि नामेदानी पुरुषोऽस्ति, अनवस्थत्वात्-नास्यावस्थाः सन्तीत्यनवस्थस्तद्भावोऽनवस्थत्वं तस्मादनवस्थत्वादवस्थास्वरूप व्यतिरिक्तत्वात्तच्छून्यत्वात् , खपुष्पवत्, अथवा नावस्थाऽनवस्था, पुरुषोऽवस्था न भवति, योऽवस्था न भवति स नास्ति यथा खपुष्पम्, अवस्थाश्च त्वयाऽभ्युपगताश्चतुरवस्थावर्णनानेका
न्यत्वयोरन्यतरपरित्यागोपादानायुक्तत्वाद्भिन्नत्वेनाभिन्नत्वेन चावचनीयत्वमस्तु पुरुषस्य, सर्वथाऽवचनीयत्वं तस्य कथं भवेत् , 20 तद्भिन्नत्वाभिन्नत्वोभययुक्ततया वाच्यत्वसम्भवात्,तदन्यतरत्यागोपादानायुक्तत्वस्य तदुभययुक्तत्ववाच्यत्वाभ्युपगमाविनाभावित्वा
दित्याह-अत एव चेति, यत्र यदन्यतरत्यागोपादानायुक्तत्वं तत्र विनिगमनाविरहात्तदुभययुक्तत्ववाच्यत्वाभ्युपगम इति व्याप्तेदृष्टान्तमाह-पितृपुत्रवदिति तथा च पुरुषः अवस्थान्यत्वानन्यत्वोभययुक्तत्वविशिष्टवाच्यतावान् , अवस्थान्यत्वानन्यत्वान्यतरत्यागोपादानायुक्तत्वात् , पितृत्वपुत्रत्वान्यतरत्यागोपादानायुक्तत्वात्तदुभययुक्तपुरुषवदिति भावः । एवञ्च पुरुषस्यैवावस्थास्वाभ्युपगमो न युक्तोऽवस्थानामभावप्रसङ्गात्तत्र चानेकदोषापत्तरित्याह-एवं तावदिति, प्रोक्तरीत्या पुरुषस्यावस्थान्यत्वानन्यत्वोभयवत्ववाच्यत्वसिद्धौ तावदित्यर्थः। ननु भवद्भिः पुरुषस्य सर्वव्यापित्वमभ्युपगम्यते, यदाच चतसृणामवस्थानां पुरुषस्वात्मत्वेऽनवस्थत्वात् खपुष्पस्येव पुरुषस्यैवाभावः तदा कथं स सर्वव्यापी, अनवस्थस्यापि तस्याभ्युपगमे पुरुषवदवस्थानां पुरुषखात्मतयैकत्वेन सर्वाभावाच्च कथं स सर्वव्यापी स्यादित्याह-यधपि चेति । अनवस्थत्वादिति, न अवस्था अस्येति बहुव्रीहिः, तथा चावस्थापुरुषयोर्भेदाद्भेदे च तस्यैवेयमिति नियामकाभावात् सम्बन्धाभावेनावस्थाखरूपत्वाभावेनावस्थाशून्यत्वा
दनवस्थः पुरुष इति खपुष्पवत्तस्याभाव इति भावः । नावस्था अनवस्थेति तत्पुरुषे पुरुषस्यावस्थाऽमेदानङ्गीकारात् योऽवस्था 30 न भवति स खपुष्पवन्नास्तीति तत्रापि पुरुषाभाव एवेत्याह-अथवेति । अत्र तत्पुरुषेऽनवस्थाया भावोऽनवस्थत्वं त्वे च'
(पा० अ०६पा० ३ सू०६४) इत्यनेन ह्रखो बोध्यः, अवस्था न सन्तीति तु त्वया न वाच्यम् , त्वयैव चतसृणामवस्थानां वर्णनादित्याह-अवस्थाश्चेति चतस्रोऽवस्था अनेकाशेषगतत्वभावनं भिन्नानामेकैकावस्थानामेकत्वापत्त्यात्मकनिर्विकल्परूपता च त्वया
१ सि० क. कारणादस्यम त्या०। २ सि० क० न० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org