________________
mmmananwr
अवाच्यतापक्षे दोषः] न्यायागमानुसारिणीव्याख्यासमेतम् युक्तम् , स त्वसन्नेव हि स्यात् , विनिद्रावस्थया सहैकत्वान्यत्वे प्रत्यवचनीयत्वात् खपुष्पवत्, न तदेकं नान्यद्वा वाच्यम् , निरुपाख्यत्वात् , यत्तु सत्तद्विनिद्रावस्थया सहैकत्वान्यत्वे प्रतिवचनीयम् यथा विनिद्रावस्थायाः स्वात्मनो जायदाद्यवस्थास्वात्मनश्चान्यानन्यत्वे प्रत्यवचनीयत्वात् ।
अथात इत्यादि, यावदस्यावाच्यतैवेति, अथाचक्षीथाः अत इति पुरुषतः, इतश्चेत्यवस्थातः, 6 अन्यतरस्य-पुरुषस्यावस्थानां वा परित्यागैकान्तो न युक्तः, अवस्थात्यागे लक्षणाभावात् पुरुषाभावप्रसङ्गात्, अवस्थावतः पुरुषस्य वा त्यागेऽवस्थानामभावप्रसङ्गात् । न चैकतरस्योपादानं युक्तम् , उपादीयमानस्येतराभावेऽभावप्रसङ्गादेवावस्थावद्वर्णननिर्विकल्पत्वसर्वगतत्वाभावप्रसङ्गात् प्रतिज्ञाव्याघाताच्च तस्मादन्यतरोपादानपरित्यागायुक्तत्वादस्य पुरुषस्यावस्थालक्षणत्वमवस्थात्वं वा न शक्यं वक्तुम् , किं तर्हि ? तल्लक्षणतत्त्वाभ्यामवाच्यः स पुरुष इत्येतदयुक्तम् , यस्मात् स त्वसन्नेव स्यात्-एतस्यामपि कल्पनायां स पुरुषोऽस-10 नेव, कस्मात् ? विनिद्रावस्थया सहैकत्वान्यत्वे प्रत्यवचनीयत्वात् खपुष्पवतू-विनिद्रालक्षणः पुरुषो न विनिद्रालक्षणो वेत्येते द्वे अन्यत्वानन्यत्वे प्रत्यवचनीयत्वादसन पुरुषः । न तदेकं नान्यद्वा वाच्यं खपुष्पं विनिद्रावस्थया सह, किं कारणमेकमिति तावदवाच्यम् ? असत्त्वात्, अन्यदित्यायवाच्यम् ? अविनिद्रावस्थात्वे सत्यप्यसत्त्वे निरुपाख्यत्वात्-वाग्बुद्धिगोचरातिक्रान्तत्वादिति खपुष्पे दृष्टान्ते हेतोः साध्येनाविनाभावित्वप्रदर्शनम् । यत्तु सत् तद्विनिद्रावस्थयेयादिवैधम्यदृष्टान्तः साध्याभावे हेत्व-16 भावप्रदर्शनम् । मा मंस्था अस्मदिष्टसमुदय्यवस्थास्वात्मनि सत्यवचनीयताया दर्शनादनैकान्तिकतेति विनिद्रावस्थास्वात्मनो जाग्रदाद्यवस्थास्वात्मनश्च निदर्शयति-अन्यानन्यत्वे प्रतिवचनीयत्वात् , यथा विनिद्रावस्थास्वात्मनो विनिद्रावस्थाऽनन्या जाग्दवस्था दिखात्मभ्योऽन्या, तथा ता अपि तस्या अन्याः, खात्मभ्योऽनन्याः सत्याश्च, न तथा पुरुषः, तस्मादसमिति ।
mmawwwmwww
पुरुषमात्रोपादाने प्रोक्तदोषमेव दर्शयति-अवस्थात्याग इति । अवस्थामात्रोपादाने दोषं मारयति-अवस्थावत इति । 20 तल्लक्षणतत्त्वाभ्यामिति, अवस्थालक्षणत्वेनावस्थात्वेन वा विचारासहत्वमेवावाच्यत्वमित्यर्थः। ननु वस्तुसद्भावसमर्थकं हि लक्षणं स्वरूपञ्च, आभ्यामनिर्वचनीयत्वे च वस्तुनोऽसिद्धिरेव तथा च पुरुषोऽसन् विनिद्रावस्थया सहैकत्वान्यत्वे प्रत्यव. चनीयत्वात् खपुष्पवदित्याह-यस्मादिति । हेत्वर्थ व्यावर्णयति-विनिद्रालक्षण इति विनिद्रावस्थाप्रतियोगिकभेदामेदविषयकवाग्बुद्धिगोचरत्वाभाववत्त्वादित्यर्थः। दृष्टान्ते खपुष्पे व्याप्तिं प्राहयति-न तदेकमिति खपुष्पं हि विनिद्रावस्थया सहैकमिति न वक्तुं शक्यमसत्त्वात् न वाऽन्यदिति, निरुपाख्यत्वादिति भावः। व्यतिरेकदृष्टान्ते विनिद्रावस्थाखात्मनि विनिद्रावस्थया 28 सहैकमिति वाच्ये व्यतिरेकव्याप्तिं प्रदर्शयति-यत्तु सदिति यत्तु सत् तद्विनिद्रावस्थया सहैकत्वान्यत्वे प्रति वचनीयम् , यथा विनिद्रावस्थाखात्मा विनिद्रावस्थया सहैकमिति,ननु विनिद्रावस्थावात्मनो विनिद्रावस्थया सहकत्वेऽपि तया सहान्यत्वाभावेन तया सहैकत्वान्यत्वे प्रत्यवचनीयत्वहेतोस्वत्र सत्त्वेन साध्यस्याचाभावेन व्यभिचार इत्याशङ्कते-मा मंस्था इति । विनिद्रावस्थाखात्मनो विनिद्रावस्थया सहैकत्वेन जाग्रदाद्यवस्थाखात्मनोऽन्यत्वेन च वचनीयत्वमेवेति तत्र हेतोरभावान व्यभिचार इति भावः। पुरुषस्तु निखिलावस्थावात्मभ्योऽन्यत्वानन्यत्वे प्रत्यवचनीय एवेत्यसन्नित्युपनयनिगमने दर्शयति-न तथेति । अथावस्थान्यत्वावस्थान-30
१ सि० क० पुरुष इ० । २ सि० क० अवस्थासत्वं । ३ सि० ० स्वास्मानं ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org