________________
[ विध्युभयारे
स्यान्मतं रूपाद्यवस्थानात्मकस्य घटस्यावस्थावतोऽस्तित्ववत् सुप्ताद्यवस्थानात्मकस्य सुप्ता - दिचतुरवस्थावतः पुरुषस्यास्तित्वमित्येतच्चायुक्तम् -
अनवस्थात्वेऽचतुरात्मकत्वात् खपुष्पवत्, अथवा किमनेन प्रयासेन, ननु त्वदुक्तेरेव च न स लक्ष्यः, अलक्षणत्वात्, अलक्ष्यत्वमिष्टत्वादसाध्यमिति चेत् ? लक्ष्यत्वनिराकृतेरर्थ - 5 निराकरणार्थत्वान्नार्थः, निर्विकल्पत्वादेवार्थोऽपि नैवेति चेन्निर्विकल्पज्ञानवदवस्त्वेव त्वदिष्टं तत्त्वम् ।
www.www.
( अनवस्थात्व इति) अनवस्थात्वे सत्यचतुरात्मकत्वात् अवस्थाचतुष्टयाभावादेवानवस्थात्मनस्तञ्चातुरात्म्याभावः सिद्धः, तस्मादनैकान्तिकाशङ्कानिवृत्त्यर्थमाह- अनवस्थात्वेऽचतुरात्मकत्वादिति पुष्पवदिति दृष्टान्तो गतार्थः । अथवा किमनेन प्रयासेन उपपत्त्यन्तरैस्तदसत्त्वप्रतिपादनेन ? 10 ननु त्वदुक्तेरेव च न स लक्ष्यः, -त्वत्परिकल्पितः पुरुषो नासौ लक्ष्यः, अलक्षणत्वात, अलक्ष्यत्वमिष्टत्वादसाध्यमिति चेत् ? लक्ष्यत्वनिराकृतेरर्थनिराकरणार्थत्वान्नार्थ इति ब्रूमः । अर्थोऽप्यत इत्यलक्षणत्वाच्छन्दाभिधेयो ज्ञानज्ञेयो वा [ नेति ] विनिद्रावस्थाऽविनिद्रावस्था वा स्यात्, न स पुरुषस्तलक्षणस्तदुभयाभावात् । निर्विकल्पत्वादेवार्थोऽपि नैवेति चेत् निर्विकल्पज्ञानवद्वस्तुत्वमपि न भवतीत्येतत्प्रतिपादनार्थत्वादिदमेव गृहाण - अवस्त्वेव त्वदिष्टं तत्त्वमलक्षणत्वात्, खपुष्पवत् ।
अथात इतश्चान्यतरोपादानपरित्यागायुक्तत्वादस्य तलक्षणतत्त्वाभ्यामवाच्यतैवेत्यतद
15
३१६
25
वान् वा सोऽसन्नेव यथा वन्ध्यापुत्र इति । अत्र हेतोरनैकान्तिकत्वमाशङ्कते - स्यान्मतमिति धर्मधर्मिणोर्भेदाद्वटो रूपाद्यवस्थाभित एवावस्थात्वाभाववानपि सन्नेवेति व्यभिचार इति भावः । अथावस्थानां पृथक् सिद्ध्यभावेनासत्त्वात् पुरुषस्य चतुरवस्थात्मता न सम्भवत्येव, रूपादीनामपि घटाद्यनात्मकत्वेऽसत्त्वमेवेति नास्ति व्यभिचार इत्यभिप्रायेणाह - अनवस्थात्व इति अवस्थाव्यतिरेकेण पुरुषादेरभाव एव, गुणसमुदायस्य द्रव्यत्वात् यदा चावस्थानामेवाभावस्तदा कथं तत्समुदायात्मक20 पुरुषस्य सद्भाव इति भावः । इत्थमनेकाभिर्युक्तिभिः पुरुषस्या सत्त्वप्रतिपादनं तावत्तिष्ठतु, वचनादपि त्वदीयात्तदसत्त्वं सिद्ध्यतीत्याह- अथवेति । विवादाध्यासितः पुरुषो न लक्ष्यः, अलक्षणत्वात्, खपुष्पवदिति प्रयोगः, अलक्षणत्वं पुरुषस्य सिद्धमवस्थानां लक्षणत्वासम्भवात् तस्य निर्धर्मकत्वाच्चेति भावः । ननु तस्याज्ञाततत्त्वत्वादलक्ष्यत्वमिष्टमेव त्वया साध्यत इति सिद्धसाधनतेत्याशङ्कते - अलक्ष्यत्वमिति । यदि पुरुषो न लक्ष्यस्तर्ह्यर्थो न भवेत्, शब्देन ज्ञानेन वाऽर्थ्यमानो गम्यमानो ह्यर्थो भवति, पुरुषस्तु निर्विकल्पत्वान्न शब्देन ज्ञानेन वा गम्यत इत्यसन्नेवेत्याह-लक्ष्यत्वेति । अवस्थायाः पुरुषस्य चाभावादेव न तयोर्लक्ष्यलक्षणभाव इत्याह-विनिद्रेति । अर्थत्वमपि तस्य नेष्यते शब्दावाच्यत्वात् विकल्पगोचरातिक्रान्तत्वात् स हि ज्ञानस्वरूपो ज्ञातृज्ञेयखरूपरहित इत्याशयेनाह - निर्विकल्पत्वादेवेति ननु किं निर्विकल्पकं सर्वविशेषशून्य विषयं किंवा जातिगुणद्रव्यादीनामन्योन्यसम्बन्धं विना पृथक् पृथगुपलम्भरूपं वा ? नाद्यः, योग्यानुपलम्भ निरस्तत्वात्, यत्किञ्चिदपि हि वस्तु कतिपयव्यावृत्तं प्रतीयते न तु सर्वस्मात्, येन च प्रतीयते तेनाकारेण सविशेषत्वात् । न द्वितीयः, एतस्यापि योग्यानुपलम्भ निरस्तत्वात् दण्डदेवदत्तादिषु विशेषणविशेष्ययोः पृथगुपलम्भपूर्वक सहोपलम्भदर्शनात् तत्कल्प्यत इति चेन्न जातिव्यक्त्यादीनामसम्बन्धप्रयुक्तपृथग्ग्रहणस्यैवासिद्धेः, धर्मसामान्याविषयव्यक्तिमात्रविषयक ज्ञानस्यापीदं किञ्चिदित्येवंरूपस्य निर्विकल्पस्य भवदभिमतस्यापीदमिति देशकाल - सम्बद्धतद्वस्त्वाकारोल्लेखेन धर्मिग्राहकसामग्रीव्यतिरिक्तस्य तद्गतसंस्थानादिग्राहकतया सम्पादनीयस्य कस्यचिदभावेन च यथा तम निर्विकल्पकं तथा भवदभिमतो निर्विकल्पः पुरुषोऽपि न निर्विकल्पः, तस्मादवस्त्वेवालक्षणत्वादित्याशयेनाह - निर्विकल्पज्ञानवदिति । नन्ववस्थैव पुरुषः पुरुष एवावस्थति पक्षद्वयेऽपि प्रोक्तदोषानुगतेरन्यतररूपतामा वक्तुमशक्यतया पुरुषावस्थयोर्भेदस्यापि वक्तुमशक्यतया चावस्थालक्षणत्वेनावस्थात्वेन च पुरुषोऽनिर्वचनीय एवेत्याशङ्कते - अथात इति ।
30
द्वादशारनयचक्रम्
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org