________________
निर्विकल्पकत्वाभावः] न्यायागमानुसारिणीव्याख्यासमेतम्
३१५ नार्थदेशान्तरप्राप्तिलक्षणां क्रियां भिन्नविकल्पार्थविषयामाह-यदन्यच्चान्यञ्च तदशेषं सर्वमिति, ततश्च तत्तदशेषं गतं सर्वगतं तद्भावः सर्वगतत्वं, अर्थानेकात्मकत्वाविनाभावि, अनेकात्मकं हि सर्व भिन्नानेकविकल्पकृत्स्नार्थगतं सर्वगतमित्येषा भावना निर्विकल्पैकात्मकत्वे न युज्यत इति ।
किश्चान्यत् निर्विकल्पकत्वाभावप्रसङ्गात्
यद्यस्यैकैका प्रत्येकं सुप्ताद्यवस्था न भवति ततश्च तासामसत्त्वात् कुतोऽस्य भिन्नाना-5 मेकत्वापत्त्यात्मिकाऽविकल्पता ? पृथक् पृथगवृत्तसितासितादिवर्णैक्यापत्त्यात्मकमेचकवर्णाभाववत्, न हि पृथगवृत्ते रूपे द्वे अपि मेचकात्मके भवतः, असन्नेव त्वसावेवम् , अनवस्थात्वात् , वन्ध्यापुत्रवत् ।
यद्यस्यैकैकेत्यादि यावन्मेचकात्मके भवतः, यद्यस्य-पुरुषस्य एकैका-पृथक् पृथक्, एकामेकां प्रति प्रत्येकं समाप्ता सुप्ताद्यवस्था न भवति, ततश्चैकैकस्या अभावात्ता न सन्त्येवेति कृत्वा तासाम- 10 सत्त्वात् कुतोऽस्य पुरुषतत्त्वस्य तासामेव भिन्नानामेकत्वापत्त्यात्मिका-तत्पुरुषतत्त्वमेकमविकल्पमित्येवमविकल्पता स्यात् ? भिन्नविकल्पैक्यात्मकत्वादविकल्परूपतायाः, सा चाविकल्परूपता कुतः ? नास्त्येवेत्यर्थः, को दृष्टान्तः ? पृथक् पृथगवृत्तसितासितादिवणक्यापत्त्यात्मकमेचकवर्णाभाववत् पृथक् सिद्धवर्णाभावे मेचकवर्णाभावात् , तदर्शयति न हि पृथगवृत्ते रूपे द्वे अपि सितासिते स्वेन रूपेण मेचके भवतः, भेदात्मलाभाविनाभाव्यैक्यापत्त्यभावात्, एवमवस्था अपि पृथक् स्वरूपेणासिद्धा निर्विकल्पैकरूपा न 15 भवितुमर्हन्तीति । एवं तावदवस्थानामभावे चतुरवस्थावर्णनानेकात्मकसर्वगतत्वभावननिर्विकल्परूपत्वाभावदोषाः । किंवा पार्श्वशरप्रक्षेपेण भयजननानुवृत्त्या, तमेव पुरुषं निराकुर्महे तद्यथाऽसन्नेव त्वसावेव-अवस्थानामसत्त्वे, कुतः ? अनवस्थात्वात्-अवस्थातोऽन्यत्वादनवस्थात्मकत्वादवस्थात्वाभावात् पुरुषो वन्ध्यापुत्रवत् ।
अनेकेषामशेषता सर्वता, इदमेतदपरमन्यदित्येतान्यशेषाणि सर्वमुच्यते, एवञ्च विविधविकल्पाभावे सर्वतैव कथमिति 20 सर्वत्वभावना पुरुषस्य न स्यादिति भावः । भिन्नानेकेति, भिन्ना येऽनेके विकल्पा मेदास्तेषां कृत्स्नार्थोऽशेषार्थस्तं गतः सर्वपदवाच्य इत्यर्थः । पुरुषस्य त्वदभ्युपगता निर्विकल्पताऽपि न सम्भवतीत्याह-किश्चान्यदिति । ननु यदि सुप्तसुषुप्ताद्यवस्थाः प्रत्येकं स्वतः पृथकू सिद्धाः स्युनीलपीतादिरूपवत्तदा चित्ररूपवत्तासामैक्यापत्त्यात्मिका निर्विकल्पकता भवेत् , न त्वेवमस्ति पृथकू सिद्धत्वमवस्थानामिति निर्विकल्पकत्वाभाव इत्याह-यद्यस्येति । पृथक् पृथगिति यदि सितासितादिवर्णाः प्रत्येकं परस्परपरिहारेण सिद्धस्वरूपा न स्युन स्यादेव तेषामेकत्वापत्त्यात्मकमेचकारूपता, मेचको 25 हि वर्णो न सितो वक्तुं शक्यतेऽसितस्यापि दर्शनात् , न वाऽसित इति, सितस्यापि दर्शनात् , तस्माद्विकल्पविनिर्मुक्तत्वादसौ निर्विकल्पक उच्यते सितादीनां पृथक् खरूपासिद्धौ कथं मेचको वर्णो मेचकतां प्राप्नुयात्, मेचकतायाः सितादीनां पृथगात्मलाभाविनाभाव्येकरूपत्वात्, तथैव चतसृणामवस्थानां पृथगात्मलामे सति चतुरवस्थात्मकपुरुषस्य तदैक्यापच्यात्मिका निर्विकल्परूपता भवेत् , न चैवमस्ति, अवस्थानामेव स्वरूपस्यासिद्धेरिति भावः। ननु पुरुषलक्षणमृगस्यावस्था लक्षणे पार्श्वे दोषखरूपशरप्रक्षेपेण पुनः पुनरस्थिरत्वापादनलक्षणभयजननानुवृत्त्या किं प्रयोजनम् पुरुषमृग एव दोषशरप्रक्षेपं कुर्म 30 इत्याशयेनाह-किंवेति पुरुषोऽसन् , अनवस्थात्वाद्वन्ध्यापुत्रवत्, अत्रानवस्थात्वपदेनावस्थाभिन्नत्वमवस्थात्मकत्वाभावो वा विवक्षितोऽग्रे तथैव व्याख्येयत्वात् , अनवस्थात्मकत्वादित्यस्यैव व्यावर्णनमवस्थात्वाभावादिति, योऽवस्थाभिन्नोऽवस्थात्वाभाक
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org