SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ३१४ द्वादशारनयचक्रम् [ विध्युभयारे एव, पटः पट एवेत्यादि प्राप्तम्, ततो ननु तदेव दर्शनमेतदध्यापन्नं यदुक्तं यथा लोकग्राहमेव वस्तु शास्त्रेष्वनर्थको विवेकयत्न इत्यादि, स्वपरविषयसामान्य विशेष निराकरणेन लौकिकमेव, यथा द्रव्यक्षेत्र कालभावभवनमेव च वस्त्विति तदेव तत्त्वमिति लोकवदेव तत्त्वापत्तिरिति । अथ विकल्पशब्दार्थत्वादलक्षण एव तस्याज्ञाततत्त्वत्वात् कुतो वा लक्षणम् ? कुतोऽ5 वस्था? इति, तदयुक्तम्, तर्हि चतुरवस्थावर्णनं कथमुपपद्यते ? अनेकात्मक सर्वगतत्वभावनञ्च ? ( अथेति ) अथ विकल्पशब्दार्थत्वादलक्षण एव तस्याज्ञाततत्त्वत्वात् तस्य निर्विकल्पस्याविभागस्य संसर्गभेदपरिणामशून्यस्य मेघस्तनितादिकल्पशब्दगोचरातीतस्य मयूरविरुतवत् सङ्केताद्व्यवहारानुपातिभिर्वा शब्दैरनुपलक्ष्यस्य गोर्विषाणादिवत् स्वांशकल्पनामात्रभिन्नशब्दार्थाभिमानविकेलस्य ननु लौकिक वदज्ञातसामान्यविशेषव्यवस्था विचाररूपस्य तत्त्वस्य कुतो वा लक्षणम् ? कुतोऽवस्थाः ? 10 इत्येतश्चायुक्तम्, चतुरवस्थावर्णनात्, यदि ताश्चतस्रोऽप्यवस्था असत्या एव तद्वर्णनं खपुष्पसौरभवर्णनवत् कथमुपपद्यते ? इति । किञ्चान्यत् - सर्वगतत्व भावनाभावप्रसङ्गात् तद्दर्शयन्नाह - अनेकात्मक - सर्वगतत्वभावनञ्च, कथमिति वर्तते, सर्वं गतं सर्वगतं 'सृ गतौ' सर्वगतं, अयमेव सर्वशब्दो गम wwwwwwwwww तस्माद्रूपं रूपमेव घटो घट एवेत्येवं स्यादिति भावः । सामान्य विशेषयोः परस्परापेक्षसत्ताकत्वेन सामान्याभावे विशेषस्याप्यभावात् पुरुषादिवस्तु सामान्य विशेषानात्मकंविध्य रोदितलौकिक भावमात्र तत्त्वतुल्यमेवापन्नमित्याह - स्वपरविषयेति, अथ 15 विकल्पेति, त्वया हि निर्धर्मकः पुरुषोऽभ्युपेयते, तत्र ह्यर्थभेदतत्संसर्गविशेषबोधनकृत पदवाक्यखरूपतालब्धप्रमाणभावस्य शब्दस्य सामर्थ्याभाव एव, प्रकृतिप्रत्ययार्थभेदबोधन कृतं हि पदत्वमनेकपदार्थ संसर्गविशेषबोधनकृतं च वाक्यत्वं, प्रकृत्यादयश्व शब्दाः शक्त्या लक्षणया वा किञ्चिद्धर्मावच्छिन्नस्यैव बोधकाः, नातः पुरुषः शब्दार्थः, किन्तु कल्पितघटपटाद्यवस्थाविषयविकल्प एव शब्दजन्यः, यतो वाचो निवर्तन्त इति श्रुतेः यस्मान्निर्विकल्पादद्वयादानन्दात् पुरुषाद्वाचोऽभिधानानि द्रव्यादिसविकल्पवस्तुविषयाणि वस्तुसामान्यान्निर्विकल्पेऽद्वयेऽपि पुरुषेऽनभिज्ञैः प्रयोक्तृभिः प्रकाशनाय प्रयुज्यमानानि तमप्रकाश्यैव निवर्तन्त 20 इति तदर्थत्वात् । अवाच्यत्वादेवालक्ष्यः सः, शक्यसम्बद्धस्यैव लक्ष्यत्वात् एतदभिप्रायेणैवात्रालक्ष्यत्वादलक्षणत्वमुक्तम् । अज्ञा ततत्त्वत्त्वादिति, सामान्यधर्मेण विशेषधर्मेण वाऽपरिज्ञातं पुरुषतत्त्वमिति भावः । संसर्गेति, परमाणूनां संसर्गेण स्कन्धदिपरिणामाः स्कन्धाद्भेदेन च परमाण्वादिलक्षणपरिणामाः भवन्ति, आभ्यामेव वस्तुनो विभागो भवति पुरुषे तयोर्न सम्भव इति भावः । मयूरविरुतादेः सङ्केताद्व्यवहारानुपातित्ववत् पुरुषोऽपि तथा स्यादित्याशं कायामाह - मयूरेति, मेघस्तनितादिशब्दा अन्य शब्दा एव न कस्यचिदर्थस्य वाचका मयूरविरुतन्तु अव्यक्तमपि पुरुषकृत संकेतादर्थबोधकं एतदुभयविधशब्देभ्योऽप्यसौ न बोध्य इति भावः । विधिविधिनयारप्रान्तभागे प्रथमं विकल्प एव शब्दार्थः न तु शब्दो वाचक इत्युक्तमनन्तरच सर्वे शब्दाः पुरुषनियत्याद्यन्यतमस्यैकस्यैव लक्षणार्थाः, यथा विषाण्यादिशब्दा गोरेकदेशवाचित्वात्तदुपलक्षणार्थाः प्रसिद्धसंकेतवशाद्गोरेव वाचकाः तदवयवानां तस्मादभिन्नत्वादेवं सर्वशब्दा एकदेशप्रतिपादनद्वारेण पुरुषादेरेव वाचका इति शब्दानां वाचकत्वमप्युक्तं तथात्र पुरुषो ज्ञायतामित्याशंकायामाह - गोर्विषाणादिवदिति यथा गोर्विषाणादयोऽवयवाः सन्ति न तथात्र कश्चिदेकदेशः पुरुष• स्यास्ति येन शब्दास्तदमेदेन पुरुषं गमयेयुः, पुरुषस्येति निर्देशेनावस्थानामपि ततो भिन्नत्वादिति भावः । कुतो वेति कुतो वा 30 लक्षणमिति सामान्यरूपतायाः कुतो वाऽवस्था इत्यनेन विशेषरूपतायाश्चाभावः प्रतिपाद्यत इति बोध्यम् । सामान्यविशेषविनिर्मुक्तनिर्धर्मकपुरुषादिवस्त्वभ्युपगमे जाग्रदादिचतुरवस्थावर्णनं निर्मूलमेवेत्युत्तरयति - चतुरिति । पुरुष एवेदं सर्वमिति पुरुषस्य सर्वत्ववर्णनमप्ययुक्तं सविकल्पताप्रसङ्गात् अज्ञाततत्त्वत्वाच्चेत्याशयेनाह - किञ्चान्यदिति । सर्वगतमिति, सृ गताविति धातोर्हि सर्वशब्दनिष्पत्तिः, गतिश्च देशान्तरप्राप्तिलक्षणा किया, देशान्तरत्वञ्च विभिन्नानेकार्थघटितम्, 25 १ सि० क० अनिकरूप । २ सि. बिकल्पस्य । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002585
Book TitleDvadasharnaychakram Part 2
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1951
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy