________________
अत्यन्तभिन्नार्थता ]
न्यायागमानुसारिणीव्याख्यासमेतम्
३१३
www
णम्, पुरुषाभावेऽवस्थानामेव भिन्नानामितरावस्थानिवृत्त्यर्थमे कावस्थावधारणम्, तत्तु न युज्यते चैतन्यात्मकैकपुरुषमयत्वप्रतिज्ञाव्याधातादिति ।
किञ्चान्यत्
यदा च तासामेव तत्त्वं पुरुषे तु सा लक्षणमेव, तथा तथा तासामितरेतरात्मस्वभावादवधारणभेदादत्यन्तभिन्नार्थत्वात् सामान्याभावः ततो विविक्तानेकभेदावस्थामात्रत्वात् सर्वम- 8 सर्वगतमिति ननु तदेव दर्शनमेतदप्यापन्नं लोकवदेव तत्त्वापत्तिरिति ।
"
"
यदा च तासामेव तत्त्वमित्यादि, यावल्लोकवदेव तत्त्वापत्तिरिति यदा च तासां भाव एव तत्त्वं भाव एव ताः, ताभिरेव भूयते [ 5 ]भेदेनावधार्यमाणत्वात् विनिद्रावस्थैव विनिद्रावस्थास्वात्मेति लक्षणं पुरुषे तु सा लक्षणमेव, न तु सैव लक्षणं पुरुषस्य, अन्यासामप्यवस्थानां तल्लक्षणत्वात्यागात्, तथा तथा तासामितरेतरात्मस्वभावः, अवधारणभेदात्, तथा तथेति वचनादुत्तरोत्तरभेदाना - 10 मपीतरेतरात्मसु नास्ति भावः तद्यथा - रूपावस्थास्वात्मनि रूपावस्थैव लक्षणम्, घटस्वात्मनि तु रूपावस्था लक्षणमेव, रसाद्यवस्थानामपि तल्लक्षणत्वात्यागात्, तथा पृथिवीलोष्टादीनामितरेतरात्मस्वभावाल्लोष्टावस्थास्वात्मावधारणे लोष्टावस्थैव लोष्टावस्थाखात्मा, पृथिवीस्वात्मावधारणे तु सा लक्षणमेव, न तु सैव च ज्ञानादीनामप्यत्यागादिति सर्वत्रास्त्ववधारणभेदः, ततोऽवधारणभेदात्त्वदुक्तादेव तथातथेतरेतरात्मस्वभावादवधारणभेदादित्यत्यन्तभिन्नार्थत्वम्, अतो भिन्नभिन्नार्थत्वात् सामान्याभाव:, 15 सामान्याभावाद्विविक्तानेकभेदावस्थामात्रत्वात् सर्वमसर्वगतं घटो घट एव, रूपं रूपमेव, रसो रस
"
For Private & Personal Use Only
4
26
स्वात्मनो रूपताव्यावृत्त्यर्थं रूपमेव न रस इत्यवधार्यते, तथाऽवस्था एव पुरुष इत्युक्ताववस्थानामेव वस्तुत्वात् पुरुषस्य चावस्तुत्वादेकावस्थास्वात्मनोऽपरावस्थापत्तिवारणायावधारणाश्रयणं युज्येतेति भावः । युज्येतेति सम्भावनयोक्तस्य फलितमाह - तत्तु नेति तदेवावधारणं न युज्यते, अवस्थानां चतसृणां परस्परं भिन्नतया ताखनुवर्त्तनशीलस्यैकस्य कस्याप्यभावात् पुरुष एवेदं सर्वमिति - सर्वस्यैकपुरुषमयत्वप्रतिज्ञा भङ्गप्रसङ्ग इति भावः । अवधारणभेदाङ्गीकारे दोषान्तरमादर्शयति यदा चेति विनिद्रावस्थास्वात्मनो विनि 20 द्रावस्थैवाभिन्नं खरूपलक्षणं तत्त्वं तथा विनिद्रावस्थारूपेणैव भवनात्, पुरुषस्य तु सा लक्षणमेव न तु तत्त्वं पुरुषस्येति मेदषष्ट्याऽवधारणात्तद्रूपेण तस्याभवनात् न तु तस्य विनिद्रावस्थाखरूपलक्षणमन्यावस्थानामपि तल्लक्षणत्वात् एवञ्च विनिद्रावस्थास्वात्मनि न सुप्तावस्थायाभावः, तस्या विनिद्रावस्था स्वरूपपुरुषस्वरूपत्वाभावात्, न वा सुप्ताद्यवस्थास्वात्मनि विनिद्रावस्थाया भावोऽत एवेति विनिद्राद्यवस्थानां पृथक् पृथग्रूपता, न तावत्वनुवर्त्तमानः पुरुषादिः कश्चन वर्त्तते, अतत्स्वरूपत्वात् पुरुषादेः, तथा चानुवर्तमानस्य सामान्यस्याभावेन परस्परात्यन्तभिन्नभेदात्मकावस्थानामेव सद्भावान्न सर्वगतः कश्चिदस्ति, किन्तु यथा लोके दृश्यते घटो घट एव, रूपं रूपमेव, रसो रस एवेति यथा लोकग्राहं वस्तु न तु ततो विलक्षणं किञ्चित्, यद्विवेचनार्थं शास्त्रारम्भो भवेत् तस्मादनर्थको विवेकयनः शास्त्रेष्विति पूर्वोपदर्शितदर्शनवदेवेदमपि दर्शनमापन्नमिति भावः । यच्च यस्यासाधारणं स्वरूपं तदेव तस्य तत्त्वं तच्च तयोरभेद एव भवति विनिद्रावस्था स्वात्मनो विनिद्रावस्थैवासाधारणं तत्त्वं सर्वदा तस्य तद्रूपेणैव भावात् पुरुषस्य तु विनिद्रावस्था न तादृशी भिन्नत्वादित्याह भाव एवेति । तथा तथेति यथा चतसृणामवस्थानामेकावस्थाया अपरावस्थास्वात्मन्यभावस्तथा रूपरसाद्यवस्थानामपीतरात्मसु नास्ति भावोऽवधारणभेदादेवेति भावः । ज्ञानादीनामपीति पृथिव्याद्यचेतनानां सुषुप्साद्यवस्थात्मकतया पुरुषत्वात् ज्ञानादीनामपि पृथिवीलक्षणत्वसम्भव इति प्रतिभाति । अन्ययोगात्यन्तायोगव्यावृत्तिलक्षणावधारण भेदादेवावस्थावस्थावतोऽत्यन्तभेदेनावस्थावतोऽवस्थाभिः सह सम्बन्धाभावादनुवृत्त्यनात्मकत्वात् सामान्यात्मकत्वं न पुरुषादेरिति सामान्याभाव इत्याशयेनाह - अत्यन्त भिन्नार्थत्वमिति परस्परसम्बद्धार्थाभावादत्यन्तभिन्नार्थत्वमित्यर्थः । सर्वमसर्वगतमिति एकैकस्यानेकात्मकतायां हि निखिलं वस्तु प्रत्येकं सर्वात्मकं भवेत् यदा तु वस्तूनामत्यन्तभिन्नत्वं तदा कथमेकं सर्वात्मकम् द्वा० न० २ (४०)
Jain Education International 2010_04
30
www.jainelibrary.org