________________
३१२
mmmwww
द्वादशारनयचक्रम्
[विध्युभयारे अत्रोच्यते
न, उक्तवदवधारणभेदस्यान्याय्यत्वात् , प्रतिज्ञातव्याघातात् , घटरूपादित्ववत् , विनिट्रैकावस्थालक्षणपुरुषव्यतिरिक्तार्थाभावात् कोऽवधारणार्थः ? पुरुषत्वं प्रागुक्तमवस्थानाम् ,
अधुना तु पृथक्स्वात्मनस्ता उच्यन्तेऽवस्था इति तत्त्वं पुरुषस्य, न पुरुषत्वं तासां रूपादिघ5 टत्ववत् , यथा रूपादय एव घट इत्येतस्मिन् पक्षे न घटो नाम कश्चित् तथा यद्यवस्था एव पुरुषो युज्येतावधारणम्, तत्तु न युज्यते चैतन्यात्मकैकपुरुषमयत्वप्रतिज्ञाव्याघातात् ।
न, उक्तवदित्यादि, नैतदुपपन्नम् , उक्तवदवधारणभेदस्यान्याय्यत्वात् , उक्तेन तुल्यमुक्तवत्-तेनैव प्रागुक्तप्रकारेण तेनैव न्यायेनावधारणभेदस्यावसर एव नास्ति, न्यायादनपेतं न्याय्यं न न्याय्य
मन्याय्यम् , कुतः ? प्रतिज्ञातव्याघातात् , यद्यवधारणं भिन्नार्थविषयमाश्रीयते चैतन्यात्मकैकपुरुष10 मयमिदं सर्वमिति प्रतिज्ञा हीयते, अथैकपुरुषमयत्वप्रतिज्ञा परिपाल्यते भिन्नार्थविषयाधारावधारणोपपत्तिर्विशीर्यते, कथं ? घटरूपादित्ववत्-यथा घट एव रूपादय इत्येतस्मिन् पक्षे न रूपादयो नाम केचित् सन्ति घटादर्थान्तरभूताः, तत्र रूपस्वात्मनो रूपावस्थैव लक्षणं नरसाद्यवस्थाऽपि घटात्मनस्तु रूपावस्थालक्षणमेव, इतरासामत्यागादिति कोऽर्थः स्यात् ? रूपा[द्यतिरिक्तरसाद्यभावात् , तथेहापि विनि,कावस्थालक्षणपुरुषव्यतिरिक्तार्थाभावादितरासां सुप्ताद्यवस्थानामभावादेव कोऽवधारणार्था15 वकाशः ? इत्यवधारणाभावः प्रतिज्ञातव्याघातो वेत्येतदुभयं प्रदर्शयति-पुरुषत्वं प्रागुक्तमवस्थानाम् ,
अधुना तु पृथक् स्वात्मनस्ता उच्यन्तेऽवस्था इति प्रागुक्तवदवधारणभेदस्यान्याय्यत्वं प्रतिज्ञाव्याघातश्चेति । इति तत्त्वमिति,-अस्माद्धेतोः प्रतिज्ञाव्याघातादवधारणभेदान्याय्यत्वाञ्चोभयथाऽपीष्टविपरीतं तत्त्वं-अवस्थात्वं पुरुषस्य, अवस्था एव पुरुषः, न पुरुष एवावस्था इत्येतत् प्राप्तम् , रूपादिघटत्ववत्-यथा रूपादय एव घट इत्येतस्मिन् पक्षे न घटो नाम कश्चिदिति-अयमर्थः-तत्र रूपमेव न 20 रस इत्याद्यवधारणमुपपद्यते मिन्नार्थविषयत्वात् तथा यद्यवस्था एव पुरुष इत्युच्येत युज्येतावधार
जीकरणं नोचितम्, प्रतिज्ञातस्यैकपुरुषमयत्वस्य व्याघातप्रसङ्गादित्युत्तरयति-उक्तवदिति, उक्तरीत्याऽवधारणभेदो योऽङ्गीकृतःस न्यायादपेत इत्यर्थः। विनिद्रावस्था चैतन्यमेव, पुरुषश्च चैतन्यं नातिवृत्य वर्तते पुरुषश्च सर्व मिति पूर्वमुक्तं स्वरूपलक्षणाभिप्रायेण, सम्प्रति तटस्थलक्षणमुच्यते पुरुषविनिद्रावस्थयोर्भेदाभ्युपगमेनेति व्याघात इति भावः । मिन्नार्थविषयेति, पुरुषा
वस्थयोर्भेदमभ्युपगम्य तटस्थलक्षणाश्रयेणावधारणप्रकल्पनादुपपत्तिसमारचनमित्यर्थः । घटरूपादित्ववदिति यथा घटस्यैव 25 रूपादित्वं तद्वदित्यर्थः, घट एव रूपादय इति धुक्तौ रूपादौ घटत्वं प्राप्यते, रूपादित्वं निराक्रियते तथाच रूपाद्यभाव एव, रूपादिस्वरूपाभावात् तथा च सति रूपावस्थैव रूपखात्मनो लक्षणं घटस्य तु रूपावस्था लक्षणमेवेति भिन्नार्थत्वप्रयुक्तावधारणवैचित्र्य निरर्थकं रूपादीनामेवाभावात्तथा पुरुषस्यैवावस्थात्वे भिन्नार्थविषयावधारणं निरर्थिकम् , विनिद्रावस्थापुरुषयोरैक्येन तस्यतिरिक्तार्थाभावात् रूपाभिन्नघटव्यतिरिक्तरसाद्यभाववदित्यभिप्रायः । पुरुषव्यतिरिक्कार्थाभावादेव सर्वपदग्राह्याभावात् पुरुष एव सर्वमिति
प्रतिज्ञाहानिश्चेत्याह-प्रतिज्ञातेति। पुरुषत्वमिति, अचिन्त्यमेवेदं चिन्त्यत इत्यादिग्रन्थेनावस्थानां पुरुषत्वमुक्तं तत्र च विनि30 द्रावस्थापुरुषाभावदोषे प्रसक्त तत्परिहारार्थमधुनाऽवधारणमेदाश्रयेण ताः पृथगित्युच्यन्त इति भावः । उक्तपक्षस्योक्तदोषत्वात्
पुरुषत्वं नावस्थानां युक्तं किन्तु पुरुषस्यैवावस्थात्वं प्राप्यते तत्र चावस्थानां चतुर्विधत्वादेकखात्मनोऽपरावस्थापत्तिव्यावृत्तयेऽवधारण. भेदो युज्यत इत्याह-तत्त्वमिति । अवधारणोपपत्तौ दृष्टान्तमाह-रूपादिघटत्ववदिति यथा रूपादेरेव घटत्वं तद्वदित्यर्थः, रूपादय एव घट इविद्युक्तो घटे रूपादित्वं प्राप्यते घटस्य घटत्वखरूपत्वविरहादेवाभावः। तथाच रूपरसादीनामेव वस्तुत्वाद्रस
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org