________________
लक्षणमेदः]
न्यायागमानुसारिणीव्याख्यासमेतम् अलक्षणत्वाचेत्यादि, लक्षणं विशेष्यस्यार्थान्तरादवच्छिद्य स्वरूपेऽवस्थापकं नीलोत्पलवत् , तत्पुनः स्वात्मन्यस्थितत्वान्नास्ति लक्षणम् , प्रत्यवस्थं सर्वात्मसु वृत्तत्वात् , ततोऽलक्षणत्वाच्च विनिद्रावस्थाया अभावः स्यात् स्वात्मन्यस्थितत्वात् खपुष्पवत् , ततश्च तत्तत्त्वं तासां तत्त्वं चतसृणामवस्थानामेव तत्तत्त्वं चतुरवस्थाभावः, ता एव च सर्वं तदभावात् सर्वाभावः, सर्वाभावात्तदात्मकस्य-सीत्मकस्य पुरुषस्याप्यभाव इत्यत आह-ततश्च तत्तत्त्वचतुरवस्थसर्वात्मकपुरुषाभावः, चैतन्यमेव हि । पुरुषस्यावस्थानाञ्च लक्षणं तदभावे-पुरुषस्यावस्थानाञ्चाभावे किमवशिष्यते ?
अथ विनिद्रावस्थालक्षणविपरीतोऽपि पुरुषस्तु पुरुष एव, अवधारणभेदात् , विनिद्रावस्थायाः स्वात्मन्यवधार्यमाणविनिद्रावस्थैव लक्षणम् , पुरुषस्य तु लक्षणमेवेति, पुरुषो लक्ष्यत्वेनानियतोऽन्यासामप्यत्यागात् , स ह्यनेकरूपो मेचकवदिति ।
अथ विनिद्रालक्षणेत्यादि, अथ मतं भवतो विनिद्रावस्थापुरुषाभावदोषयोः परिहारे 10 सर्वदोषपरिहारः स चावधारणपरीत्येनेति तद्यथा-पुरुषस्तु पुरुष एव (विनिद्रावस्थालक्षणविपरीतोऽपि, किं कारणं ? अवधारणभेदात् , कथमवधारणभेदः ? उच्यते, विनिद्रावस्था[याः]-खात्मन्यवधार्यमाण) विनिद्रावस्थैव लक्षणम् , नान्या काचिदवस्थेति, स्वात्मनो लक्षणत्वमवस्थाया नियतम् , सा वन्यथावस्थात्मनोऽपि लक्षणत्वान्नानियतेति न विनिद्रावस्थायास्तावदभावोऽस्ति, पुरुषस्याप्यभावो नास्ति, पुरुषस्य तु लक्षणमेवेत्यवधारणात्-विनिद्रावस्था लक्षणमेव पुरुषस्य, नालक्षणमिति, पुरुषो लक्ष्यत्वेनानि- 15 यतोऽन्याभिरप्यवस्थाभिलक्ष्यत्वादन्यासामप्यत्यागाल्लक्षणत्वेन, पुरुषस्येति भेदेनावधारणं यस्मात् , स ह्यनेकरूपो मेचकवत् पुरुषः, वर्णसङ्करो हि मेचकः, स नीलोऽपि पीतोऽपि शेषवर्णोऽपि तथा पुरुषो विनिद्रावस्थालक्षणोऽपि सुप्ताद्यन्यतमावस्थालक्षणोऽपीति । लक्षणमिति लक्षणं हि सकलेतरव्यावृत्तलक्ष्यबोधनसमर्थं भवति, तस्य च व्यावृत्तिव्यवहारानुमानयोर्हेतूभवतः पक्षनिष्ठत्वं भवेत्. विनिद्रावस्था तु विनिद्रावस्थास्वात्मनो न लक्षणं स्वात्मन्येवास्थितत्वात् सर्वावस्थासु वृत्तेः, अतो लक्षणाभावान्न 20 तावद्विनिद्रावस्था वर्तते खपुष्पवदिति भावः, ततश्चेति, विनिद्रावस्था हि चैतन्यं तस्यालक्षणत्वादभावः, तथा च चतसृणामप्यवस्थानामभावः प्राप्तः, चतुरवस्थाभावाच्चतुरवस्थात्मकसर्वाभावः, तदभावात् सर्वात्मकपुरुषाभावप्रसङ्ग इति भावः। अथ विनिद्रावस्थायास्तटस्थलक्षणत्वमभिप्रेत्याशङ्कते-अथेति तदा हि तदतद्भवति यदा तत्र स्वरूपलक्षणत्वेनाभिमतं न स्यात्, विनिद्रावस्था च तटस्थं लक्षणम् , यथा शाखाग्रे चन्द्र इति लक्षणं दिगन्तरावस्थिततारकादिभ्य एव व्यावर्तकं न तु शाखोर्ध्वदेशगतचन्द्रसमीपवर्तितारकादिभ्यः, एवं पुरुषो विनिद्रावस्थाविपरीतोऽपि स पुरुष एव नापुरुष इति भावः । एतादृशार्थोऽवधारणमेदालभ्यत इत्याह-अवधारणमेदादिति, अवस्थानां चतुर्विधत्वाद्विनिद्रावस्थास्वात्मैव विनिद्रावस्था न सुप्ताद्यवस्थावात्मा, एवञ्च विनिद्रावस्थात्वं न विनिद्रावस्थावात्मनिरूपितलक्षणत्वसमानाधिकरणाभावप्रतियोगि, यदि विनिद्रावस्थाखात्मनिरूपितलक्षणत्वमन्यावस्थासु भवेत्तर्हि विनिद्रावस्थाया विनिद्रावस्थावात्मनिष्ठाभावप्रतियोगित्वेनाऽव्याप्ततया स्वरूपलक्षणाभावेन विनिद्रावस्थाया अभावः स्यान्न चैवम्, पुरुषस्तु चतुरवस्थात्मकः, अत एव विनिद्रावस्था न तस्य स्वरूपलक्षणं येन तदभावे पुरुषाभावः स्यात् किन्तु तटस्थं लक्षणम्, पुरुषत्वव्यापकाभावाप्रतियोगित्वरूपम्, अव्याप्तेस्तु तत्समानाधिकरणधर्मवत्त्वविवक्षयापि वारणसम्भवातू.30 अत एव पुरुषोन विनिद्रावस्थानिरूपितलक्ष्यत्वव्याप्यः.इतरावस्थानिरूपितलक्ष्यत्वाश्रयत्वादिति भावः। पुरुषस्य विनिद्रावस्था कथं तटस्थं लक्षणमित्यत्राह-पुरुषस्येतीति। तदेव दृष्टान्तेन समर्थयति-स हीति। ननु विनिद्रावस्थावात्मनो विनिद्रावस्थैव लक्षणं नान्या काचिदवस्था लक्षणं भवति, पुरुषस्य तु सा लक्षणमेव, नालक्षणमिति विनिद्रावस्थापुरुषाभावदोषपरिहारार्थमवधारणमेदा
सि-क-मतलक्षणस्वाद्वा । २ सि. नास्त्रीदं पदम् । ३ सि. क. ( ) एतदन्तर्गतः पागे न दृश्यते।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org