________________
द्वादशारनयचक्रम्
[विध्युभयारे स्यात्, न त्वस्ति स्ववृत्तित्यागोऽवस्थासङ्करस्वरूपनिर्णयाभावादिदोषात् , अतः सा तन्मात्रैव, तस्याश्च तन्मात्रत्वे तु पुरुषस्यापि तदवस्थामात्रत्वम् , अतो विनिद्रावस्थामात्रत्वाजायदाद्यवस्थानात्मकत्वम् , तस्माज्जायदाद्यवस्थानात्मकत्वाद्विनिद्रावस्थामात्रत्वात् सुप्तादि[ दृष्टा ]वस्थास्ववृत्तेरसर्वगतत्वमिति चाव्यापित्वदोषः पुरुषकार[ण ] वादस्य । 5 अथ विनिद्रावस्थालक्षणोऽपि पुरुषः सर्वत्वात् न विनिद्रावस्थामात्र एव ततो विनिद्रावस्थापि न विनिद्रावस्थामात्रैव स्यात् , विनिद्रावस्थालक्षणत्वात् पुरुषस्वात्मवत् ।
अथ विनिद्रेत्यादि, मा भूत् पुरुषासर्वगतत्वदोष इति विनिद्रावस्थालक्षणोऽपि सन् पुरुषश्च सर्वत्वान्न विनिद्रावस्थामात्र एव, किं तर्हि ? सुप्तादिवृत्तिरपीतीप्यते ततो विनिद्रावस्थापि विनिद्रावस्थात्मिका सती सर्वत्वादेव न विनिद्रावस्थामात्रैव स्यात्-सुप्ताद्यवस्थापि स्यादित्यर्थः, हेतुर्विनिद्रावस्थालक्षण10 त्वात् , पुरुषस्वात्मवत् , यथा पुरुषोऽपि विनिद्रावस्थालक्षणत्वात् सर्वगत इतीष्यते तथा विनिद्रावस्थाऽऽत्मस्थैव सर्वगता स्यात् विनिद्रावस्थालक्षणा हि सापीति ।
ततश्च प्रत्यवस्थं विनिद्रावस्थावृत्तिः तस्या एवाविशेषेण सर्वगतत्वात् सुषुप्तावस्थापि तृणादि सर्वगतमिति किं पुरुषैकत्वप्रकल्पनया ?
ततश्चेत्यादि, एवञ्च सत्यन्योऽपि दोषः अवस्थामवस्थां प्रति प्रत्यवस्थं विनिद्रावस्थावृत्तिः सुप्त15 सुषुप्तजाग्रदवस्थास्वपि, तस्या एव-विनिद्रावस्थाया एवाविशेषेण सर्वगतत्वात् सुषुप्तावस्थापि तृणादि
सर्वगतं स्यात् , सर्वात्मकत्वाद्विनिद्रावस्थावत् सर्वात्मकत्वं विनिद्रावस्थालक्षणत्वात् पुरुषवदित्युक्तम् , तस्मात्तृणाद्यपि सर्वगतमिति किं पुरुषैकत्वप्रकल्पनया ? कः पुरुषवादविशेषाभिमानः ? तृणमेवेदं सर्वम् यद्भूतं यच्च भाव्यम् , यस्मात् परं नापरमस्ति किञ्चिदित्यादि, तेनेदं पूर्ण तृणेन सर्वमिति च कस्मान्न पठ्यते ? इति। 20 किञ्चान्यत्
अलक्षणत्वाच्च विनिद्रावस्थाया अभावः स्यात् , स्वात्मन्यस्थितत्वात् खपुष्पवत्, ततश्च तत्तत्त्वचतुरवस्थसर्वात्मकपुरुषाभावः, तदभावे किमवशिष्यते, ? अवस्थेति, यदि विनिद्रावस्था शेषावस्थात्मिकापि भवेत्तर्हि सैव शेषावस्था इति कृत्वा सङ्कीर्णा स्यात् , अत एव च विनिद्रावस्थायाः वरूपनिर्णयोऽपि न भवेत् विशुद्धताया अभावादिति भावः। एवञ्च विनिद्रावस्थायाः खस्वरूपमात्र एवावस्थाने पुरुषोऽपि विनिद्रावस्थामात्र एव, तस्य तत्खरूपलक्षणत्वादित्याशयेनाह-अतः सेति । एतेन किं स्यादित्यत्राह-अत इति पुरुषः सर्वगतो न स्यात् विनिद्रावस्थामात्रखरूपत्वात् विनिद्रायाश्चतरात्मकत्वाभावात्ततो न पुरुषो जाग्रदाद्यवस्थात्मक इत्यव्यापीति भावः। यदि पुरुषस्य विनिद्रावस्थात्मकत्वे सत्यपीतरावस्थात्मकत्वमपीष्यते तर्हि तत्खरूपभूतविनिद्रावस्थापि विनिद्रावस्थामात्र एव न भवेत् किन्तु सर्वगता भवेदित्याह-अथेति। हेतुरिति । विनिद्रावस्था न विनिद्रावस्थामात्रैव, विनिद्रावस्थालक्षणत्वात् पुरुषखात्मवदिति मानमिति भावः । दोषान्तराभिधानायाह-ततश्चेति विनिद्रावस्था खात्मस्था सती सुप्तावस्थात्मिकापि 30 सुषुप्तावस्थात्मिकाऽपि जाग्रदवस्थात्मिकाऽपि, एवञ्च सुषुप्तावस्थापि तृणादिरूपा विनिद्रावस्थात्मकत्वात् सर्वात्मकतया सर्वगता
भवेत्, ततश्च तृणाद्येवेदं सर्वमित्यतिदेश्यं स्यात्, तथा च पुरुषस्यैवैकस्य सर्वगततया प्रकल्पनमनर्थकं निष्प्रयोजनत्वादिति भावः । सुषुप्तावस्थापीति । दृढतरदोषप्रदर्शनाय पुरुषमात्रविशेषावस्थारूपयोर्जाग्रत्सुप्तावस्थयोः परित्यागः कृतः।
सि. क. दृष्टमेवा० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org