________________
विनिद्रावस्थात्मता ]
न्यायागमानुसारिणीव्याख्यासमेतम्
www
www
wwwww
विशेषेणैकावस्थामात्रस्वतत्त्व :- तुरीयावस्थातत्त्व इत्यर्थः । तत्कुत इति चेत् चैतन्यानतिवृत्तिवर्त्तनात्, सर्वत्र ज्ञानमयोऽसौ पुरुष इति प्रतिज्ञाय तद्व्याप्तिप्रदर्शनार्थं चैतन्यमेव वृक्ष [ तृणशकुन्तकुड्य ] पुरुपादि सुप्तत्वात् सुषुप्तत्वाज्जागरितत्वात् सुप्तादिपुरुषवदिति वर्णितं चैतन्यमेव, तच्च विनिद्रावस्थातोऽनन्यत्-तच्च चैतन्यं विनिद्रावस्थातोऽनन्यत् - तच्चैतन्यं विनिद्रावस्थैव । यथोक्तम् 'पुरुषस्य न केवलोदयः पशवश्चाप्यनिवृत्तकेवलाः । न च सत्यपि केवले प्रभुस्तव चिन्त्येयमचिन्त्यवद्गतिः ॥' (सिद्धसे ०द्वा० ० ४ श्लो० २२ ) इति, इतिशब्दों हेत्वर्थे, अस्माद्धेतोर्विनिद्रावस्थालक्षण एव पुरुषः, एतदेवास्य लक्षणं ‘उपयोगो लक्षणम्' ( तत्त्वार्थ० २ - ८ ) इति वचनात् एतत् प्रतिज्ञामात्रम् । अत्र हेतुरुच्यतेआत्यन्तिकनिद्राविगमरूपनिरूप्यत्वात् - सर्वत्र सर्वदा वाऽन्तमतीतोऽत्यन्तः, तत्र भव आत्यन्तिकः निद्राविगमः स एव रूपं तत्त्वं तेन तत्त्वेन निरूप्यत्वात्, यथा निरूपितं पुरुषवादिनैव सर्व सर्वत्र सदा सर्वथा चेतनात्मकमेवेति सिद्धो हेतुः, को दृष्टान्तः ? विनिद्रावस्थास्वात्मवत्, यथा विनिद्रावस्था 10 चतुर्थी शुद्धचैतन्यात्मानं नातिवर्तते प्रोक्तरूपेण निरूप्यत्वात् पुरुषः, तथा शेषावस्थास्वपि तद्धर्मतामतिवृत्त्यैवेति एवमेषा विनिद्रावस्थैव सर्वत्रापादिता ।
सातिरात्मिका, स्त्रवृत्तित्यागापत्तेः सा तन्मात्रैव, तन्मात्रत्वे तु पुरुषस्यापि तदवस्थामात्रत्वम्, तस्माज्जाग्रदाद्यवस्थानात्मकत्वादसर्व गतत्वमिति ।
३०९
( न हीति ) न ह्यसावितरात्मिका यथा सुप्ताद्यवस्था तुरीयावस्थैव न तथा सा तदात्मिका, 15 कस्मात् ? स्ववृत्तित्यागापत्तेः- यदि सा विनिद्रावस्था सुप्ताद्यवस्थापि स्यात्ततस्तया विशुद्धा स्ववृत्तिस्त्यक्ता
तादर्शनाद्विनिद्रावस्थालक्षणं चैतन्यमेव प्रधानं लक्षणमित्याशयेनाह - चैतन्येति । वृक्षतृणशकुन्तानि ज्ञानमेव सुप्तत्वात् सुप्तपुरुषवत्, कुड्यादिज्ञानमेव सुषुप्तत्वात् सुषुप्तपुरुषवत् पुरुषश्चैतन्यमेव जागरितत्वादित्याद्यनुमानान्यादर्शयति- वृक्ष तृणेति । तदपि चैतन्यं विनिद्रावस्थास्वरूपमेव किञ्चिद्विशिष्टमित्याह - तच्चेति । सर्वत्र विनिद्रावस्थापरपर्यायकेवलज्ञानसत्त्वे प्रमाणमाह यथोक्तमिति । हे प्रभो ! केवलज्ञानस्य सत्तया जीवमात्रसाधारण्येन तव तत्प्राप्तिरचिन्त्यवन्न चिन्त्येति निश्चयनयतः स्तुतिरियम् | 20 उपयोग इति, उपयोगो लक्षणं जीवस्य, उपयोगो ज्ञानदर्शनयोः स्वविषयसीमानुल्लंघनेन धारणम्, अथवा ज्ञानदर्शनयोः विषयावधानाभिमुखता योगः, समीपवर्ती योग उपयोगः, तेन हि लक्ष्यते जीवः, सामान्यविशेषावबोधदर्शनाद्धि निश्चीयतेऽत्रात्माऽस्तीति, न चास्ति कश्चित् तादृशो जीवो यस्य साकारानाकारोपयोगौ न भवतोऽतोऽनपायीदं लक्षणं जन्तोरिति वचनाभिप्रायः । एतदिति, विनिद्रावस्थालक्षण एव पुरुषः, एतदेवास्य लक्षणमित्येतदित्यर्थः, लक्षणं हि द्विविधं स्वरूपलक्षणं तटस्थलक्षणचेति स्वरूपमेव लक्षणं स्वरूपलक्षणम्, स्वस्य स्ववृत्तित्त्वाभावेऽपि स्वस्यैव स्वापेक्षया धर्मधर्मिभावकल्पनया लक्षणत्वसम्भवात्, तथा 25 विधं लक्षणं पुरुषस्य विनिद्रावस्थात्मकं चैतन्यम्, तटस्थलक्षणं तु यावलक्ष्य कालमनवस्थितत्वे सति व्यावर्तकम्, यथा गन्धवत्त्वं पृथिवीलक्षणमुत्पत्तिकाले घटादिषु गन्धाभावात् पुरुषस्य तथाविधं लक्षणन्त्वमे वक्ष्यते इति बोध्यम् । तस्य स्वरूपलक्षणत्वे हेतुमाह - आत्यन्तिकेति, सर्वदेशकालावच्छेदेन नाशरहितेन निद्राविगमेन निरूप्यत्वादित्यर्थः । निर्विशेषचिद्रूपतायाः सर्वा - स्ववस्थासु सदाऽभ्युपगमान्नासिद्धत्वं हेतोरित्याह-यथेति । दृष्टान्तं संघटयति-यथा विनिद्रावस्थेति, यथा विनिद्रावस्था नाविवर्तते खात्मानं प्रोक्तहेतोस्तथैव पुरुषोऽपि विनिद्रावस्थास्वात्मानं नातिवर्त्तते शेषास्वप्यवस्थावित्यर्थः । सा यदि स्वात्मा - 30 नमवित्रर्तेत तर्हि तस्याः सुप्ताद्यवस्थाखात्मकतया विशुद्धता न भवेदित्याह-न ह्यसाविति । स्ववृत्तेः परित्यागे दोषमाह -
१ सि. क. वृक्षमृश कुद्व्य ० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org