________________
awwwwwwww
wwwwwwwwwwww
३०८ द्वादशारनयचक्रम्
[विध्युभयारे विज्ञानवद्वेत्येतदापन्नम् , अतः कल्पनाज्ञानमात्र सत्यमिति विज्ञानव्यतिरिक्तार्थशून्यवादः, [न] विज्ञानमात्रं वा, अस्यापि ग्राह्यग्राहकविकल्पातीतनिर्विकल्पत्वाश्रयस्य शून्यत्वापत्तेः ।
पुरुषवाद्याह
अचिन्त्यमेवेदं चिन्त्यते मया हि पुरुष एवेदमित्यवधार्योक्तं नोक्तमिदमेव पुरुष इति, 5 ऊर्द्धमधस्तिर्यक् क्वचित्तत्त्वैकः पुरुषः, अनतिरिक्तपरापराणीयोज्यायोरूपात्मकत्वात् , वृक्षवदिति।
अचिन्त्यमेवेदं चिन्त्यत इत्यादि, मद्वचनापरिज्ञानादसम्बद्धं दूषणम् , मया हि पुरुष एवेदमित्यवधार्योक्तम् , नोक्तमिदमेव पुरुष इति, प्रत्यक्षाः सुप्ताद्यवस्था उद्दिश्येति । अत्र प्रयोगः ऊर्ध्वमधस्तिर्यक् कचित्तत्त्वैकः-एक एव व्यवस्थितः पुरुष इति प्रतिज्ञा, अनतिरिक्तपरापराणीयो10 ज्यायोरूपात्मकत्वात् वृक्षवत् , यथोक्तम् 'यस्मात् परं नापरमस्ति किश्चिद्यस्मान्नाणीयो न ज्यायोऽस्ति किश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ॥' (श्वेता० उ० अ०३ श्लोक ९) इति, यस्मादन्यत् परं नास्त्यनन्यत् , अद्वैतमेवेत्यर्थः, अथवा यस्मात् परं प्रधानं प्रकृष्टमपरं प्रकृष्टमन्यद्वा नास्ति, ऊधिस्तिर्यपरापरविभागाभावादविभागात्मना तस्यैव व्यवस्थानात् , नाणीयो न ज्यायोऽस्ति किञ्चिदिति सूक्ष्मस्थूलविभागाभावात् ताद्रूप्येणाविभक्तस्यापि तस्यैवावस्थाना15 दिति शेषं गतार्थम् ।
अत्रोच्यते
नन्वयमनेकावस्थामात्रस्वतत्त्व एव व्यवस्थापितः, चैतन्यानतिवृत्तिवर्तनात् , तच्च विनिद्रावस्थातोऽनन्यदिति विनिद्रावस्थालक्षण एव पुरुषः, आत्यन्तिकनिद्राविगमरूपनिरूप्यत्वात् , विनिद्रावस्थास्वात्मवत् । 20 नन्वयमित्यादि, ननु त्वयाऽयं पुरुषोऽवस्थात्मकत्वमनतिक्रामन्ननेकावस्थामात्रस्वतत्त्व एव व्यवस्थापितः-चतुरवस्थास्वरूपोपवर्णनद्वारेणैव तन्निरूपणादवस्थास्वात्मक एवासाविति, तत्रापि च
न्यतया शून्यवाद एवायमित्याह-न विज्ञानमात्रं वेति । ननु त्वया मन्मते ये दोषा प्रदर्शितास्त सर्वे मद्वचनापरिज्ञानविजम्भिता एव, न हि मयाऽवस्था एव पुरुष इत्युच्यते येनेमे दोषाः प्रसजेरन् , किन्तु पुरुष एवेदं सर्वमित्यवधार्यत
इत्याह-अचिन्त्यमेवेदमिति । पुरुषोद्देशेन हि मया सर्वत्वमतिदिष्टं न तु प्रत्यक्षप्रसिद्धसुप्ताद्यवस्थोद्देशेन पुरुषातिदेशः 25 क्रियत इत्याह-मया हीति । पुरुषस्य सर्वात्मकतासाधकमनुमानप्रयोग वक्ति-अत्र प्रयोग इति । पुरुषं पक्षीकृत्य परिदृश्यमानविभागाभिन्नतत्त्वात्मकता साध्यते, तत्त्वेकः तत्त्वश्चासावेकश्च तत्त्वेकः, अभिन्नतत्त्वात्मक इत्यर्थः, ऊर्ध्वमधस्तियग् वा सर्वत्राभिन्नतया व्यवस्थितः पुरुष इति भावः । साधनमाह-अनतिरिक्तेति यथाऽनेकात्मको वृक्षः शाखा स्कन्धो मूलञ्च तथैवानतिरिक्तानि परापराणीयोज्यायोरूपाणि तदात्मकः पुरुष एवेत्यर्थः, यदात्मको यः स स एवेति व्याप्तेः । अत्रार्थे उपनि
षदं प्रमाणयत्यप्रयोजकतानिवारणाय-यदुक्तमिति । अथ पुरुष एव सर्वमित्यवधारणं नोपपद्यते, अवस्थाद्वारेणैव तत्स्वरूपा30 परित्यागेन पुरुषस्य निरूपणादवस्थैव तस्य खात्मेत्युत्तरयति-नन्वयमिति। सुप्ताद्यवस्थाखात्मतयापि निरूपणसम्भवे बहुकृत्वः
पुरुषे निरवच्छिन्नज्ञानद्वारेणैव पुरुषनिरूपणदर्शनाद्विनिद्रावस्थालक्षण एवासावित्याह-तत्रापिचेति । सर्वाखवस्थासु ज्ञानव्यापि
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org