________________
३०७
पुरुषादेरवस्थात्मत्वनिरासः] न्यायागमानुसारिणीव्याख्यासमेतम् फलोऽन्यवदाभाति, सुप्तसुषुप्तजाग्रत्तुरीयावस्थासंज्ञाभेदात्, युगपद्धाविरूपादिगुणसमुदयवादतुल्यो युगपदवस्थचतुरवस्थासमुदयवाद इति, एष देशभिन्नरूपादिसमुदयवादतुल्यः ।
नायं देशभिन्नरूपादिसमुदयवादतुल्य एव, किं तर्हि ? कालभेदभिन्नायुगपद्भाविसततसंवृत्तज. नननिधननामरूपवादतुल्यक्षणिकवादोऽपि यस्मात्
तुरीयत्वप्रतिपादनार्थाभ्युपगतमुक्तिक्रमवदयुगपदवस्थावृत्तेः क्षणिकवादः, वासोवत । ।
तुरीयत्वप्रतिपादनार्थाभ्युपगतमुक्तिक्रमवदयुगपदवस्थावृत्तेः क्षणिकवाद इति, सुप्तसुषुप्तजाग्रत्परमविनिद्रावस्थाविशुद्धिक्रमान्यथावृत्त्यभ्युपगमादवस्थाक्षयोऽन्यथात्वम्, अन्ते क्षयदर्शनादादौ क्षयोऽनुमेयोऽवस्थानामिति क्षणिकवादः, को दृष्टान्तः ? वासोवत् , यथा वस्त्रं क्षणे क्षणे जीर्यज्जीर्यदन्ते विशीर्यते तथाऽवस्था अपि ।
न केवलं समुदयक्षणिकवादावेव किं तर्हि
शून्यवादोऽपि, तद्यथा चतसृणां न ज्ञानव्यतिरिक्तत्वं, तथातथा त्वयैव ज्ञानात्मना रूपरसादिघटादिसृष्टेःप्रतिपादनात् , सा च कल्पनाज्ञानं तन्मात्रमेव सत्यं, न रूपादि किञ्चित् , स्वप्नवदिति विज्ञानव्यतिरिक्तार्थशून्यवादः, नवा विज्ञानमात्रं निर्विकल्पत्वाश्रयस्य शून्यत्वापत्तेः।
(शून्येति) शून्यवादोऽपि, तद्यथा चतसृणां नेत्यादि, यथा पुरुषवादिना चतस्रोऽवस्थाः पृथक् परिगृह्य तास्वपि ज्ञानमेव सुप्तत्वात् सुप्तपुरुषवत् , सुषुप्तत्वान्मदिरामत्तवदित्यादिना प्रतिपादितम्, 15 तथा तथा रूपाद्यमूर्तमूर्तीपत्त्या त्वयैव रूपणाद्रूपमिति च ज्ञानात्मना चैतन्यस्वरूपादनपेता रूपरसादिघटादिसृष्टिश्चानेकविधोपपादिता, सा च कल्पनाज्ञानं तन्मात्रमेव सत्यं, न रूपादि किश्चित्तदाभासज्ञानबहिर्भूतं स्वप्नवत् , यथा स्वप्ने सिंहाद्याभासज्ञानमात्रं न सिंहादिः कश्चिद्वहिर्भूतस्तथा जाग्रद्विज्ञानमपि ज्ञानमात्रमेव, ग्रामारामस्त्रीपुरुषादिरूपाद्याकारज्ञानमात्रम् , तद्व्यतिरिक्तार्थशून्यस्वप्न
यथा कुक्टोऽन्यो न भवति तथा संज्ञान्तरकरणेन पुरुषवादो न समुदयवादादन्यो भवति, केवलमन्यवदेवाभातीति भावः। 20 चतसृणामवस्थानां देशभेदेन सह वृत्तित्वाभ्युपगमेऽयं बादो देशभिन्नरूपादिसमुदयवादतुल्य इत्याह-युगपदिति । क्षणमात्रस्थायिवस्तुस्खीकर्तृक्षणिकवादतुल्यतामस्य दर्शयति-कालभेदेति । अथ क्षणिकवादतुल्यतासमर्थनाय प्रथममवस्थाविनाशमादर्शयति-सुप्तेति सुप्तादीनामवस्थानां विशुद्धिविशेषेण विभिन्नप्रकारेण वृत्तरभ्युपगतत्वाद्विशुद्धिभेदेनावस्थाभेदस्यावश्यकतया नैकावस्था नित्या संभवति, विशिष्टावस्थाकाले पूर्वावस्थाविनाशात् , तस्मादन्ते क्षयदर्शनेन ततः पूर्वपूर्वमपि वासोवत् क्षणे क्षणे विनाशोऽवश्यं वाच्य इत्ययमपि वादः क्षणिकवाद एवेति भावः, शून्यवादोऽपीति, विज्ञानव्यतिरिक्तशून्यवादः 25 सर्वशून्यवादश्चेत्यर्थः । पुरुषस्य चतस्रोऽप्यवस्था ज्ञानात्मरूपा एवेति दर्शयति-यथेति पुरुषस्य रूपादिलक्षणमूर्तखरूपताऽमूर्तखरूपता च रूपणादिरूपतया चैतन्यलक्षणादनपेतैव, प्रागुपवर्णितत्वाद्रूपादिज्ञानस्य चाविद्याविजृम्भितत्वेन कल्पनाज्ञानरूपतयाऽसत्यत्वाज्ज्ञानस्यैव च सत्यत्वात् तन्मात्रमेव, रूपादयश्च खप्ने सिंहाद्याभासवदाभासमात्रमतो विज्ञानव्यतिरिक्तवस्तुशून्योऽयं वाद इति भावः । दृष्टान्तमाह-स्वप्नवदिति यो यः प्रत्ययः स सर्वो बाह्यानालम्बनो यथा स्वप्नप्रत्ययः, यथाहि खप्रमायादिप्रत्यया विनैव बाह्येनार्थेन ग्राह्यग्राहकाकारा भवन्ति, एवं जागरितप्रत्यया अपि प्रत्ययत्वाद्वाह्यानालम्बना इति 30 भावः । अस्य वादस्य विज्ञानवादत्वमपि न सम्भवति निर्विकल्पकात्मकस्य तथाविधज्ञानस्यागोचरस्य सद्भावे प्रमाणविरहाच्छ
१सि.क.०भिन०।२ सि. क. क्रमवत्त्व०।३ सि. क.चतुषणों।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org