________________
द्वादशारनयचक्रम्
[विध्युभयारे लक्षणम् ? तस्या न सोऽस्ति व्यतिरिक्तः, यथा रूपादय एवं घट इति । उत पुरुषादिलक्षणास्ताः ? पुरुषायेव सत्यं न ताः काश्चिदवस्थाः, यथा घट एव रूपादयः, न रूपादयो नाम केचिद्धटव्यतिरेकेणेति, द्वयोर्विकल्पयोरन्यतरोऽवधार्यः ।
किश्चात:
यद्यवस्थास्वात्मैव न पुरुषाद्यात्मावस्थास्ताः, ततः पुरुषो नाम न कश्चिदिति रूपादिसमुदयमात्रवाद एवायमन्यो युगपदाविरूपादिगुणसमुदयवादतुल्यो युगपदवस्थचतुरवस्था. समुदयवादः।।
यद्यवस्थावात्मेत्यादि यावत् समुदयमात्रवाद एवायमन्यः, यदि पुरुषादि न किञ्चिदस्ति, अवस्थास्वात्मैव तल्लक्षणं ता एव सत्याः न पुरुषाद्यात्मावस्थाः-पुरुषादिस्वरूपास्ता अवस्था न भव10 न्तीत्यभ्युपगतं भवति, ततः पुरुषो नाम न कश्चिञ्चतुरवस्थाव्यतिरिक्त इत्येतदापन्नम् , पुरुषादीति
सामान्येनोपक्रम्य पुरुषो नामेति पुरुषस्यैवाभाववचनं विधिविधिनयविकल्पानां पुरुषस्य प्रथमत्वात्तहषणेनातिदेक्ष्यमाणत्वात् । पुरुषवादे प्रस्तुते कथं पुरुष एवासन्नित्यापाद्यते ? इति चेदुच्यते यस्मात्समुदयिमात्रसमुदयाभ्युपगमात्, रूपादिसमुदयमात्रवाद एवायमन्यः, स एवायं बौद्धपरिकल्पितरूप
वेदनाविज्ञानसंस्कारसंज्ञास्कन्धसमुदायः पुरुषः, अङ्गुलीमुष्टिवत् , बलाकापंक्तिवत् , अक्षद्विचक्र16 पञ्जराणीयोऽक्षपटयुगसमिलादिरथवदिति समुदयवादः, ईषन्मषीम्रक्षितकुक्कुटवत् पुरुषप्रत्याख्यान
wwwwwwww
किं पुरुषादीनामवस्थात्मकत्वं-पुरुषस्यावस्था एवात्मानः, रूपादिसमुदयात्मकघटवत्, नावस्थाव्यतिरेकेण पुरुषः कश्चिदस्ति, अथवा घटात्मकरूपादिवत् पुरुषात्मिका एवावस्थाः अवस्थानां पुरुष एवात्मा न पुरुषव्यतिरेकेणावस्थाः काश्चन विद्यन्त इति विकल्पद्वयाभिप्रायः। अथावस्थास्वरूपत्वं पुरुषादेरिति प्रथमपक्षे परिगृहीते दोषमभिधातुमाह-यद्यवस्थेति । पुरुषादेरवस्था
स्वरूपत्वेऽवस्थाखव पुरुषो निलीनः, न पुरुषस्य किञ्चित् खखरूपमस्ति, किन्त्ववस्थास्वरूपेण सवरूपस्तथा चावस्थानामेव सत्यत्वेन 20 पुरुषादेरसत्यत्वमापद्यते पुरुषाचनात्मकत्वादवस्थानामतो न पुरुषः कश्चिदवस्थाव्यतिरिक्तोऽस्तीत्याशयमाविष्करोति-यदीत्यादिना । ननु प्रथम पुरुषादिपश्चवादसाधारण्येन विकल्पमारचय्यान्यपक्षावधारणा कृता, अधुनातु केवलं पुरुषवादाश्रयेणैव न पुरुषो नाम कश्चिदिति विशेषपक्ष एव कथं दोष उच्यत इत्याशङ्कय समाधिमाह-पुरुषादीति । विधिविधिनयेषु पञ्चसु पुरुषवा
दस्यैव प्रथमत्वात्तत्रोक्तदोषस्यैवेतरवादेष्वतिदेक्ष्यमाणत्वाञ्च तथोक्तमिति भावः। ननु पुरुषवादे प्रकान्ते तदाश्रयेण दोषो वाच्यः, न 25 पुनस्तस्यैवाभावः प्रतिपादनीयः प्रक्रमभङ्गापत्तेरतः कथमेवमुच्यत इत्याशङ्कते-पुरुषवाद इति । किं कुर्मो वयं तस्याभ्युपगम
एव तादृशः प्रत्येकाभिन्नसमुदायाश्रयणात् , अयमभ्युपगमः पुरुषं निराकरोत्सेवेत्युत्तरयति-यस्मादिति । तथा चायं पुरुषवादो रूपादिपञ्चस्कन्धात्मकात्मवादिबौद्धवादसदृश इत्याह-रूपादीति । बौद्धवादो हि त्रिधा वादिवैचित्र्यात् , केचित् सर्वास्तित्ववादिनः वैभाषिकसौत्रान्तिकाः, केचिद्विज्ञानास्तित्वमात्रवादिनो योगाचाराः, केचिच्च सर्वशून्यवादिनो माध्यमिकाः, तत्र सर्वास्तित्ववादे बाह्यमान्तरञ्चेति द्विविधं वस्तु, आद्यमणुहेतुकं भूतं भौतिकञ्च, अपरं स्कन्धहेतुकं चित्तं चैत्तञ्च, एतानि सर्वव्यवहा80 रास्पदभावेन संहन्यन्ते, तत्र प्रकृतप्रस्तावात् स्कन्धहेतुकसमुदयवादं दर्शयति-रूपेति । सविषयाणीन्द्रियाणि रूपस्कन्धः,
वविषयस्पर्श या सुखदुःखत द्रहितविशेषावस्था चित्तस्य जायते स वेदनास्कन्धः, अहमित्याकारो रूपादिविषय इन्द्रियादिजन्यो वा दण्डायमानो विज्ञानस्कन्धः, संस्कारस्कन्धो रागादयः क्लेशा उपक्लेशाश्च मदमानादयो धर्माधर्मों च, सवि. कल्पप्रत्ययः संज्ञासंसर्गयोग्यप्रतिभासः संज्ञास्कन्धः, यथा डित्थः कुण्डली गौरो ब्राह्मणो गच्छतीत्येवंजातीयकः, तदेतेषां समुदायः पुरुषो न कश्चिदतिरिक्त इति भावः । भिन्नसमुदायाभावे निदर्शनान्याह-अङ्गुलीति । ईषदिति स्तोकमषीलेपनेन
सि.क.पर
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org