________________
तृतीयो विध्युभयारः
wwwmaw
wwmanwwwwwwwwww,
कमलदलविपुलनयना कमलमुखी कमलगर्भसमगौरी।
कमले स्थिता भगवती ददातु श्रुतदेवता सिद्धिम् ॥ १॥ इदानीं विध्युभयारावसरः, यद्ययं विधिविधिनयारोक्तो भावो निर्दोषः स्यादरान्तरारम्भोऽनर्थकः स्यात् , स तु सदोष एवेति प्राप्तावसरं सदोषमुक्त्वोत्तरत्र विध्युभयारं निर्दिदिक्षुः प्राच्यदोषाभिधानार्थ-6 मेव तावदाह
अथ किं भवता प्रतिस्वमात्मनो ग्राहे तथा तथा या एता व्रीह्यङ्करादिघटपटादिवस्तुव्यापिवृत्तयोऽवस्था उक्तास्तासु पुरुषादितत्त्वमवस्थालक्षणं ? उत पुरुषादिलक्षणास्ताः ?
अथ किं भवतेत्यादि अथेत्यधिकारोपन्यासे, अनन्तरोक्तपुरुषादिवाददूषणाधिकारोपन्यासार्थोऽथशब्दः, किंशब्दः प्रश्ने, सामान्येन पुरुषनियतिकालखभावभावेष्वनन्तरोक्तेषु प्रतिस्वमात्मनो 10 ग्राहे तथा तथा-तेन तेन प्रकारेण पुरुष [ एव ] सुप्तादिचतुरवस्था, नियतिरेव पूर्वपरादिक्रियाऽक्रियादिनियतावस्थारूपा, काल एव क्रमयोगपद्यभूतभवद्भाव्यवस्थातत्त्वः, स्वभाव एवात्मप्रविभागमात्रप्रतिविविक्तभवनभेदतत्त्वः, भाव एव स्वत्वास्वत्वाद्यविद्याविकल्पविनिर्मुक्तसत्तामात्रव्याप्यनञ्जनशब्दार्थज्ञानाद्यवस्थाविशेषजगत्तत्त्व इति, या एताः प्रतिस्खं न[1]शेषाः, ब्रीह्यङ्करादिघटपटादिवस्तुव्यापिवृत्तयोऽवस्थास्तस्य तस्य पुरुषादिदर्शनस्य व्यापित्वप्रदर्शनार्थमुक्तास्तासु किं पुरुषादितत्त्वमवस्था- 15
अथ व्याख्याकारः प्राच्यकारिकया मङ्गलमारचयति-कमलेति । अथ वक्तव्यनिर्देशपूर्वकं सङ्गतिमाह-इदानी मिति । एतदेव स्पष्टीकरोति-यद्ययमिति पूर्वव्यावर्णितस्यापि विधिविधेरवस्थाऽवस्थावतेंदोपादानस्यावश्यभावात् परमशून्यक्षणिकाद्यनभिप्रेतवादप्रसङ्गाचासन्निधिव्यापत्तिभवनवृत्तिद्वैतवादः श्रेयान्, प्रकाशप्रवृत्तिनियमात्मभोग्यसत्त्वरजस्तमोमयप्रकृतिव्यापारस्योदासीनभोक्तृपुरुषोपभोगार्थप्रवृत्तेरिति विधिविधीयते नियम्यते च न सर्वमेकात्मकं किं तर्हि सर्व सर्वात्मकमिति, विधिविधिनियमनयदर्शनमस्यैव वा विकल्पान्तरविध्युभयनयदर्शनस्य प्रकृतिपुरुषयोर्गुणत्रयव्यवस्थानुपपत्तेः स्थित्युत्पत्तिविना. शानात्मकत्वादसत्त्वापत्तेश्च भावद्वैतं भाव्यभवितृभेदात् प्रतिविशिष्टबुद्धिखतंत्राधिष्ठात्रधिष्ठेयास्वतंत्रत्वद्वैविध्यात्तदात्मक-20 द्वैतमत्र प्रतिपद्यमिति पूर्ववादस्य सदोषत्वात्तदोषमभिधातुमवसरोऽधुना प्राप्त इति भावः, भावः-पुरुषादिः, तत्समर्थकाभिप्रायविशेषो वा । अथ पूर्वनयदोषोपपादनं विहाय विप्रतिपत्तिप्रदर्शनं तेषां वादिनां तदन्यतरपक्षपरिग्रहव्यतिरेकेण गत्यभावप्रदर्शनार्थ दोषप्रदर्शनसौकर्यार्थ चेत्याशयेन विप्रतिपत्तिमुद्भावयति-अथेति । कोऽसावधिकार इत्यत्राहअनन्तरेति, अधिकारः प्रतिपादनम् । खं खमिति प्रतिखं तत्र खपदविवक्षितमाह-सामान्येनेति । पुरुषादिवादिना वखाभिप्रायमादर्शयति-पुरुष एवेति।चतुरवस्थाखरूपः पुरुष एव तत्त्वं नान्यः कश्चिदित्यभिप्रायः, आत्मप्रवि-25 भागेति, भिन्नभिन्नभवनविशेषतया प्रतीयमानानि खभावस्यैव प्रविभागरूपाणि, न ततोऽत्यन्तभिन्नानीति भावः । स्वत्वा. खत्वादीति भावे स्वकीयत्वपरकीयत्वरूपा येऽविद्याविरचिता विकल्पास्तैर्विनिर्मुक्तः सन्मात्ररूपो व्यापकोऽनजनः निर्विकार एव सन् शब्दार्थज्ञानाद्यवस्थालक्षणविकारात्मकजगत्सर्जनादिखभाव इत्यर्थः । समुदितयावदवस्थालक्षणत्वं पुरुषादेनिवर्तयितुमाहप्रतिस्खं नाशेषा इति । अन्यथा वक्ष्यमाणसाव्यापित्वानेकत्वादिदोषा असङ्गता भवेयुरिति भावः। तासु किमिति ।
१ सि.क. तेन प्रका०। २ सि. स्वत्वाद्य०।३ सि. प्यनेजन०।४सि.क.च्याप्ति। द्वा. न. १ (३९)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org