________________
द्वादशारनयचक्रम्
[विधिनियमविधिः तद्भावयितुं सोपपत्तिकं सनिदर्शनमाह-वर्णेभ्य एवेत्यादि यावद्गृह्यन्त इति, वर्णेभ्य एव रूपादिभ्यो गुणान्तरं चित्रवर्णो रक्तश्यामपाण्ड्वादिः पाकजो वा तदारम्भनियमादेवेति, यथोक्तं- येषामधिकृतमार. म्भसामर्थ्यम्' ( ) इति, पृथिव्यादिषु वर्णान्तरं भवति समन्ताद्गच्छति वा तानि वर्णादिपर्यवाः पर्याया वा, घटादीनि वा द्रव्याण्यारब्धानि तैरप्यन्यारब्धद्रव्याणि प्रागभावप्रध्वंसात्मकानि वर्णाद्यामकान्येव मृत्पिण्डाद्यवस्थानानि घटादीनि कपालादीनि च गृह्यन्ते, तस्मात्तैः प्रागभावप्रध्वंसात्मकैर्घटाद्यात्मभूतैर्वर्णादिपर्यवैरशाश्वती, कार्यकारणभूतैरित्यर्थः, कर्मधारये वा वर्ण एव च पर्यवो गुणो यथासम्भवमित्यादि, गुणा इमे, तैरशाश्वतीति च वर्तते, वर्णादिपर्यवैरिति सम्बन्धः, यथासम्भवमारब्धानारब्धद्रव्यगताः केचित् श्यामादयोऽनारब्धचतुर्विधाणुगतास्तदारब्धद्रव्यान्तरे कारणगुणपूर्व
काश्चतुर्विधे, पार्थिवेष्वेव रक्ताद्याः पाकजाः संयोगविभागौ [स]क्रियेषु पृथक्त्वं सर्वद्रव्येषु परत्वापरत्वे 10 दिग्देशकालापेक्षे तल्लिङ्गे, आदिग्रहणात् गन्धशब्दज्ञानादयोऽसाधारणगुणाः पृथिव्याकाशात्मादीनां, एकत्वादिसंख्याः सर्वद्रव्यसाधारणाः, एवं गंधादिभिरिति तृतीयानिर्देशादेभिश्चाशाश्वती, नित्या [च] रूपादिमूर्तिसंस्थानसामान्यधर्मेद्रव्यार्थतो रत्नप्रभेत्यर्थः ।
इति विधिनियमविध्यरः षष्ठो नयो नैगमभेदो द्रव्यास्तिकान्तःपाती परिसमाप्तः, अयं चैष च सविभागविन्यस्तश्चक्रार इवार इति सम्पिण्ड्यैकस्य त्रिशतभेदस्य संक्षेपेण षड्भेदाः, 15 एषु च पर्यवशब्दो भाववचनः समन्ताद्भवनात् पर्यायशब्दः समन्ताद्गतिवचनः द्रव्यस्य वर्णाद्यात्मना परितो गमनादिति ।
(इतीति) इति [विधिनियमविध्यरः] षष्ठो नयो नैगमभेदो द्रव्यास्तिकान्तःपाती परिसमाप्तः, इतिशब्दस्य समाप्त्यर्थत्वात् , विधिनियमविध्यर इति नामनिर्देशः, अयश्चैष च सविभागविन्यस्तश्चक्रार
इवार इति, अयञ्चेत्यतीता एष च षष्ठः, सम्पिण्ड्यैकस्य त्रिशतभेदस्य संक्षेपेण षड् भेदाः, तत्र विधिः, 20 धत्ते-वर्णेभ्य एवेति । पृथिव्यादेः कार्यभूता घटादयोऽपि वर्णात्मकाः, तेभ्यो वर्णपर्यवस्य भावादियाशयेनाह-पृथिव्यादिग्विति पृथिव्यादिसन्तानभूतकार्यस्य घटादेस्तत्प्रागभावतत्प्रध्वंसस्यापि वर्णत्वात् पृथिव्यादेः कार्याणि द्रव्यगुणकर्माणि वर्णपर्यवा एव, तैः रत्नप्रभाऽशाश्वतीति भावः । कर्मधारयसमासापेक्षया तात्पर्यमाह-कर्मधारये वेति । अत्र पक्षे वर्णपर्यवशब्देन गुणानामेव ग्रहणमिति सूचयति-गुणा इम इति । शेषं पूरयति-अशाश्वतीति । भावार्थमादर्शयति-यथा सम्भवमिति पृथिव्यादिचतुर्विधपरमाणुगताः श्यामादयो गुणा नित्यद्रव्यगताः, तदारब्धव्यणुकादिगतास्तु कारणगुणपूर्वकाः रूपादयः पृथि8 व्यान्तु रूपादयः पाकजा अपि, सर्वद्रव्येषु संयोगविभागौ पृथिव्यप्तेजोवायुमनःसु सक्रियेषु पृथक्त्वं गुणः, परत्वापरत्वे दिकृते कालकृते च, श्यामादय इत्यत्रादिग्रहणात् गन्धशब्दज्ञानादीनां ग्रहणं, तत्र गन्धः पृथिव्यां शब्द आकाशे ज्ञानादय आत्मनि, एकत्वादिसंख्यास्तु सर्वद्रव्यगताः, एवंभूतैर्वर्णपर्यवैगुणः रत्नप्रभाऽशाश्वतीति भावः । रत्नप्रभायाः शाश्वतत्वमपि रूपादिसामान्येन मूर्त्या संस्थानसामान्येन द्रव्यत्वादिसामान्यधर्मेण चेति दर्शयति-नित्येति । एतन्नयनिरूपणं सङ्गह्नाति-इतीति । इति हेतुप्रकरणप्रकारादिसमाप्तिष्विति कोशादितिशब्दस्यानेकार्थत्वेनात्र विवक्षितमर्थ दर्शयति-इतिशब्दस्येति । उक्तानां नयानां 30 षण्णां द्रव्यार्थिकत्वात् प्रान्ते प्रत्येकं चक्रस्यारत्वं रूपयति-अयञ्चेति। अधुनैव निरूपितत्वेन बुद्धिस्थत्वात् प्रत्यक्षविषयेदंशब्देनातीतानां पञ्चानां नयानां ग्रहणम् , समीपतरवर्तित्वाच षष्ठस्य नयस्यैतच्छब्देनेति दर्शयति-अयश्चेत्यतीता इति । सम्पि
सि.क. वर्णाद्यनात्म०।२ सि.क. सम्भव इत्या०।३सि. क. स्वर्णादि०। ४ सि. क. निर्देशोऽयं तयचत्स. विभा०।५सि. क. अयं चेत्यतीतान्यं चेतं च षष्ठं ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org