SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ पर्यायशब्दार्थः] न्यायागमानुसारिणीव्याख्यासमेतम् ६१३ विधिविधिः, विधेविधिनियनं, विधेनियमः विधिनियम षष्ठश्चायं विधिनियमविधिरिति षड्भेदो द्रव्यास्तिक उपवर्णितः, षडप्येते भेदा द्रव्यास्तिकस्यैवेत्यर्थः, एषु च षट्सु नयेषु पर्यवशब्दो भाववचनः, समन्ताद्भवनात् पर्यवः, सर्वात्मना भवनात् , पर्यायशब्दः समन्ताद्गतिवचनः, समन्ताद्गमनपर्यायद्रव्यस्य वर्णाद्यात्मना पर्यायः, द्रव्यस्य वर्णाद्यात्मना परितो गमनात् अयञ्च विग्रहार्थः, षण्णामपि सामान्येनेष्टं द्रव्यं विशेषेण तु यथा दर्शनमेव विध्यादिषु प्रत्येक व्याख्यातस्वरूपभेदमनुगन्तव्यं सर्वगतिसामान्य- 3 मत्यजद्भिः, सर्वस्य सर्वात्मकत्वात् , एकस्य सर्वात्मकत्वात् , एकैकस्य सर्वात्मकत्वात् सर्वस्य चैकैकात्मकत्वात् सर्वगतिमेव यथादर्शनमाह द्रव्यशब्दार्थसूत्रम् , तत्र व्याख्यातमेव यथादर्शनं द्रव्यप्राधान्यातू, पर्यायोपसर्जनादिहान्ते पर्यायशब्दो व्याख्यात इति । द्रव्यार्थनयविकल्पाः समाप्ताः॥ ण्डयेति, नैगमसङ्ग्रहव्यवहाररूपद्रव्यार्थिकनयस्य मिलित्वा त्रिशतभेदत्वात् तस्यैवेते संक्षेपेण षड्भेदा इत्यर्थः । नामग्राहं 10 षड्भेदानाचष्टे-तत्रेति । द्रव्यप्राधान्येष्वेषु नयेषु पर्यवपर्यायशब्दयोरर्थमाह-एषु चेति, पर्यवपर्यायशब्दयोरर्थमभिधाय भावार्थमाचष्टे-षण्णासपीति. प्रथमारस्य सर्वप्रमाणाविरोधितत्त्वव्यवहारसमवस्थलोकपरिग्रहवदेव सामान्यविशेषौ घटादिविषयौ नान्यथेति विधिरिति व्यवहारैकदेशविषयत्वाद्विशेषसङ्कीर्णद्रव्य विषयत्वाद्रव्यार्थता, द्वितीय स्य यदुत्सृष्टतया विधिः सर्वास्मकत्वेन सियति लोके यच्च तथाऽन्यथा च भवति एष विधिविधिविवक्षितव्यावृत्तिरनजीकृतभेद इति सर्वस्यैकात्मकत्वात् भवनलक्षणद्रव्य विषयत्वाइव्यार्थता, तृतीयस्य पूर्वोदितनयवादप्रवृत्तिखरूपस्य विधेरु-सर्गतो विधानात्मा विधिविधीयते नियम्यते 15 चन सर्व एकात्मक किन्तु सर्व सर्वात्मकमिति गुणसन्द्रावलक्षणद्रव्यार्थता, चतुर्थस्य एकैकस्य प्रकृति पुरुषस्य सर्वरूपद्रव्यभवनपरमार्थत्वादेकं सर्व सर्वमेकच्चेति विधिनियम्यत्वादेकैकस्य सर्वसर्वात्मकत्वात् द्रव्यत्वजीवत्वचेतनत्वमूतत्वादिधर्मापरित्यागेनावि. च्छेदेन सर्वभेदेषु व्यापनशीलत्वाइव्यार्थता, पञ्चमस्य भवितृभवनयोरन्यतरप्राधान्येऽसत्त्वापत्तेः प्राधान्यादुभयौ विधिनियमाविति कर्तृसाधनाविनाभाविभावसाधनद्रव्यशब्दार्थत्वात् सर्वात्मैक्यभावनाद्रव्यार्थता, षष्टस्य द्रव्यादिषट्रपदार्थानां साधर्म्यवैधर्म्ययोः परतः सत्त्वस्यासतो भवनस्य खतश्च सत्ताया विधानात् विधिनियमविधिरूपत्वाव्यत्वाभिसम्बन्धाच द्रव्यार्थतेति भावः । तत्त-20 द्भङ्गप्रान्तभागेषु द्रव्यशब्दार्थसूत्रं तत्तदभिप्रायानुरूपं व्याख्यातमेव द्रव्यप्राधान्यात्, न तु पर्यवशब्दार्थ उक्तः, उपसर्जनत्वात. न त्वसम्मतत्वात् , सम्मतत्वादुपसर्जनत्वादेव चेह स शब्दो व्याख्यात इत्याह-यथादर्शनमाहेति । इति विजयलब्धिसूरिविरचिते विषमपदविवेचने नयचक्रशास्त्रस्य षष्ठो विधिनियमविध्यरः समाप्तः। समाप्ताश्च द्रव्यप्राधान्यभङ्गाः। Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002585
Book TitleDvadasharnaychakram Part 2
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1951
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy