________________
निर्गमसूत्रम्]
न्यायागमानुसारिणीव्याख्यासमेतम् आवृत्तपरिपाकायां बुद्धौ शब्दोऽवधार्यते ॥' (वाक्य० कां०१ श्लो० ८५) इति, स च कृतस
तेरेव पदादिशब्दार्थज्ञस्य पुरुष[स्य]प्रत्ययहेतुर्वाक्यार्थः शब्दो वा, नाकृतसंङ्गतेः, म्लेच्छप्रयुक्तशब्दार्थापरिज्ञानवत् ।
नैताः स्वमनीषिका उच्यन्ते किं तर्हि ? अस्य नयस्य यतो निर्गमः
तन्निर्गमसूत्रं 'इमाणं भंते' इत्यादि यावत् 'संठाणपजवेहि' (जीवा० ३-१-७८) इति भेदवचनात् , वर्णादिपर्यवादिषु सङ्ग्रहीतसमासद्वयत्वात् वर्णः पर्यवः समन्ताद्भवितैकवाक्यभावात् वर्णस्यैव परितो भावाद्गमनाच्च, वर्णेभ्य एव गुणान्तरं चित्रवर्णः पाकजो वा तदारम्भनियमादेव पृथिव्यादिषु भवति समन्ताद्गच्छति वा घटादीनि वा द्रव्याण्यारब्धानि तैरप्यन्यारब्धद्रव्याणि प्रागभावप्रध्वंसात्मकानि वर्णाद्यात्मकान्येव च गृह्यन्ते, तस्मात्तैर्घटाद्यात्मभूतैर्वर्णादिपर्यवैरशाश्वती रत्नप्रभा, वर्ण एव च पर्यवो यथासम्भवं श्यामादय आरब्धा- 10 नारब्धद्रव्यगताः कारणगुणपूर्वकाश्चतुर्विधे पार्थिवेष्वेव पाकजाः तैः, एवं गन्धादिभिरपि ।
(तदिति) तन्निर्गमसूत्रं 'इमाणं भंते' इत्यादि यावत् 'संठाणपजवे हिं' इति, एतमेवागमं भेदवचनादिति हेतुत्वेनाह नयचक्रकारः, व्याचष्टे च-वर्णादिपर्यवादिष्वित्यादि, पर्यायशब्दस्य परिगमनार्थस्य पर्यवशब्दस्य भाववाचिनो ग्रहणात् , वर्णादीनि पैर्यवाणि यस्मिन् समन्ततो भावः, अवतेर्धातोर्भावार्थस्य रक्षणादिदण्डके पाठात् , वर्णादय एव पर्यायाः पर्यवा इति कर्मधारयो वा सरूपैक- 15 शेषत्वात्-सङ्ग्रहीतसमासद्वयत्वात् समन्ताद्गमनत्वात् समन्ताद्भावत्वात् पर्यायाणां पर्यवाणाञ्च, अत्र केनार्थेन पर्यायपर्यवार्थयोरेकस्योक्तौ द्वितीयस्यापि सैव निरुक्तिरिति मन्यमान आह-वर्णः पर्यवः समन्ताद्भवितैकवाक्यभावात् द्रव्यगुणकर्मणां सप्रभेदानां सत्तासमवायसम्बन्धप्रधानानां संसृष्टरूपाणामेकवाक्यभावादिति बहुव्रीहिं दर्शयति-वर्णस्यैव परितो भावाद्गमनाचेति, कथं पुनस्तत्परिगमनं पर्यवनश्चेति ? नाह-स चेति । एतन्नयमूलभूतार्षवचनमुपदर्शयति-तन्निर्गमसूत्रमिति । पृथिव्यादेः शाश्वताशाश्वतत्वप्रतिपादनाय 20 प्रोक्तमिदं वचनं वर्णादिपर्यायैरशाश्वतत्वप्रतिपादनाद्मेदवचनतेति, अत्रार्थे मूलं भवतीति मत्वाऽऽह-एतमेवेति । वर्णपर्यवादिशब्दस्य बहाव्रीहिकर्मधारयोभयसमासपरत्वमाह-वर्णादीति। वर्णपर्यवेत्यादौ पर्यवपदेन पर्यायपर्यवयोरुभयोर्ग्रहणं, परितो गमनं पर्यायः समन्ताद्भवनं पर्यव इति दर्शयति-पर्यायशब्दस्येति । बहुव्रीहिसमासं दर्शयति-वर्णादीनीति । अवतेर्धातोभावार्थत्वं दर्शयति-अवतेरिति, अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थपाचनक्रियेच्छादीयवाप्यालिङ्गनहिंसादानभाववृद्धिष्विति भावार्थेऽवधातोः प्रसिद्धः समन्ततो भावः पर्यवशब्दस्येति भावः । कर्मधारयसमासं दर्शयति-वर्णादय 25 एवेति, पर्यायाश्च पर्यवाश्च पर्यवाः प्राकृतशब्दापेक्षया खरूपत्वात्सरूपैकशेषः, वर्णादय एव पर्यवाः वर्णादिपर्यवाः, यद्वा पर्यवशब्देनबोभयोHहणं ततश्चैको वर्णपर्यवशब्दो बहुव्रीहिसमासविषयः, अपरश्च कर्मधारयविषयः,तयोर्द्वन्द्वे सरूपैकशेषः। तथा च तत्पदेन समासद्वयं सगृहीतं भवतीति दर्शयति-सरूपेति । एकेन शब्देनोभयोHहणं केन धर्मेणेत्याशङ्कय समाधत्ते-अत्रेति, समन्ताद्भवनधर्मस्यैकत्वेनोभयोर्ग्रहणं, सप्रभेदानि हि द्रव्यगुणकर्माणि सत्तापेक्षयाऽभिन्नानि तस्मात्तेन धर्मेणोभयोर्ग्रहणमिति भावः, एकवाक्यभावात एकरूपत्वादित्यर्थः । वर्ण एव पर्यवो यस्मिन्निति बहुव्रीहौ वर्णानां वर्ण एव पर्यव इत्यर्थलाभात् कथं तत्परि- 30 गमनं पर्यवनश्चेति शङ्कते-कथमिति कार्यगुणानां कारणगुणपूर्वकत्वात् पृथिव्यां पाकजत्वाच्च वर्णेभ्यो वर्णोत्पत्तिरिति समा
१-२ सि. क. सङ्गीते । ३ सि. क. परिगमनामि । ४ सि. क. वेते/०।
wwww
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org