________________
६१० द्वादशारनयचक्रम्
[विधिनियमविधिः विशेषा एव वैशेषिकं विशेषप्रयोजनं वा वैशेषिकमिति विधिनियमयोर्विधिरुपपद्यते, न त्वदिष्टैकवस्तुनि विधिनियमविधिरिति ।
अत्राह किमयं द्रव्यास्तिकभेदः ? पर्यायास्तिकभेदो वा ? इत्यत्रोच्यते
नैगमैकदेशत्वात् द्रव्यास्तिकोऽयम् , द्रव्यमपि द्रव्यत्वसामान्यविशेषसम्बन्धात् , जातिः शब्दार्थः, अन्त्यञ्च पदं वाक्यार्थः, स च पूर्वपदज्ञानाहितसंस्कारापेक्षोऽन्त्यपदप्रत्ययः।
(नैगमैकदेशत्वादिति) नैगमैकदेशत्वाव्यास्तिकः [अयम् ] द्रव्यमस्तीत्यस्य मतिः, न पूर्ववद्रव्यमेवास्ति वाद्यन्तरवत् सदसन्नास्त्येव द्रव्यमिति निगमशक्तो निरुक्तार्थभेदः, तेषु द्रव्यमपीत्यादि-द्रव्यत्वसामान्यविशेषसम्बन्धाद्रव्यं न भव्यद्रवणगुणसन्द्रावसमुदायाद्यात्मकम् , जातिः शब्दार्थ
इति-सर्वशब्दानां जातिवाचित्वमेव, आकाशादीनामपि जातिवज्जातिरित्युपचारात्, अन्त्यश्च पदं 10 वाक्यार्थ:-यथा देवदत्तः काष्ठैः स्थाल्यामोदनं पचतीत्यत्रान्त्येन पचतिपदव्यङ्गयेन सह परस्परसंसर्गलक्षणस्यान्वयव्यतिरेकवतोऽर्थस्य परिपूर्णत्वात् , स च वाक्यार्थः पूर्वपदज्ञानाहितसंस्कारापेक्षोऽन्यपदप्रत्ययः, प्रत्येकं पदैर्हि स्वांशार्थविषयैरुत्पादितानि विज्ञानानि संस्कारमादधति, अतोऽन्त्यपदज्ञानं पूर्वपदज्ञानसंस्कारपरिपाकवशात् सम्बन्ध्यन्तरव्यवच्छेदि परस्परसंसर्गविषयमुपजायत इति सम्बन्धान्वयध्यतिरेकवानन्त्यपदार्थव्यक्तिर्वाक्यार्थ इति, यथाह-'नादैराहितबीजायामन्त्येन ध्वनिना सह ।
amammam
15 प्रधानभूते नयद्वये कस्मिन्नन्तर्भावोऽस्य नयस्य, तत्र यदि द्रव्यास्तिकनये तर्हि तस्यापि त्रैविध्यात् कतमस्मिन् समावेश इत्यत्राह
नैगमेति । अत्राभिप्रेतं द्रव्यास्तिकशब्दार्थ दर्शयति-द्रव्यमस्तीति निरवधारणा व्युत्पत्तिरभिमता, नैगमनयस्य हि पर्याया अपि विषया इति, न तु वादान्तरे यथा सदेव असदेव वा द्रव्यं नास्तीति वेति प्ररूप्यते तद्वदिति, नैगमनयशक्तैवान व्युत्पत्तिद्रव्यशब्दस्येति भावः। द्रव्यशब्दार्थोऽपि द्रव्यत्वजातिविशिष्ट एव, न तु भव्यं द्रवणं गुणसन्द्रावो गुणसमुदायो वाऽरान्तराभिमत
इत्याह-द्रव्यमपीति । पदास्यार्थमाह-जातिः शब्दार्थ इति, गोत्वादिसामान्यमेव गवादिशब्दार्थो न व्यक्तिः आनन्या20 व्यभिचाराच्च, यत्र सामान्यं नास्ति यथाऽऽकाशादौ तत्र तद्वाचकाः शब्दा आकाशत्वादिधर्मविशेषे जातित्वमुपचर्य तानेव
बोधयन्ति, अतच्छब्दस्य तच्छब्देनाभिधानमुपचारः। वाक्याथ दर्शयति-अन्त्यश्चेति वाक्यार्थः वाक्यशब्दार्थः अन्त्यपदस्यैव वाक्यत्वम् , तत्कथमित्यत्राह-यथेति, आदौ प्रथमपदज्ञानं तेन संस्कारः प्रभवति, ततो द्वितीयपदज्ञानं ततः पूर्वपदज्ञानजनितसंस्कारसहितेन द्वितीयपदज्ञानेन विशिष्टसंस्कारो जन्यते, ततश्च तृतीयपदज्ञानं ततश्च पूर्वसंस्कारसहितेन तेन विशिष्टसंस्कारोदयः, इत्थं यावदन्त्यपदज्ञानं पूर्वपूर्वपदज्ञानजनितसंस्कारसहितं जायते, एवञ्च तथाविधपूर्वपदज्ञानजनितसंस्कारसहितोऽन्यपद25 प्रत्यय एव वाक्यपदेनाभिधीयत इत्याशयेनाह-स चेति, भेदः संसर्गो वा वाक्यार्थो भवति, तत्र मेदः पदार्थानां परस्पर व्यव
च्छेदः, संसर्गः पदार्थानामन्योऽन्येनानुरञ्जनं तदेतत्सूचयति-सम्बन्ध्यन्तरेति, सम्बन्ध्यन्तरव्यवच्छेदीत्यनेन भेदः परस्परसं. सर्गविषयमित्यनेन च संसर्गः सचितः। उक्तार्थे संवादमाह-नादैरितिनादैर्ध्वनिभिराहितं समर्पितं बीजं त्यक्तपरिच्छेदयोग्यसंस्काररूपं यस्यां बुद्धौ तस्यां आवृत्तः अभ्यस्तः परिपाको यस्याः तस्यां, प्रथमेन ध्वनिना किश्चिद्भावनाबीजमाहितं तेन च कश्चित् परिपाकः
कार्यजननशक्तिविशेषः आहितः, एवं द्वितीयतृतीयादिना, तत उद्बुद्धसंस्कारायां बुद्धौ अन्त्येन ध्वनिना सह अन्त्यध्वन्यवधारणसम30 कालं शब्दोऽवधार्यते, यदाऽन्यो ध्वनिरवधार्यते तदा गौरित्येवं शब्दोऽवधार्यते इति कारिकार्थः । एवंविधं पदं वाक्यं वा गृहीत
सकेतस्य पुरुषस्य वाक्यार्थप्रत्ययजनकं न त्वगृहीतस्य, यथा म्लेच्छेन यवादिपदस्य कंग्वादौ प्रयुक्तस्य तदर्थापरिज्ञानमित्याशये.
सि. क. वाधुत्तरवत् । २ सि. सामान्यविशेषणसम्बन्धस्वा द्रव्यं, क.सामान्यविशेषविशेषणसंबंधं वा द्रव्यं । ४ सि. क. सम्बन्धोन्व०।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org