________________
खपरभावसत्त्वम् ] न्यायागमानुसारिणीव्याख्यासमेतम्
६०९ नप्रत्ययहेतुर्नान्यस्मात् सदभिधानप्रत्ययौ लभते, स्वपरप्रकाशहेतुत्वात् प्रदीपवत्-न हि प्रदीपो घटादिप्रकाशनसमर्थः स्वप्रकाशने घटादीनपेक्षते तथा सत्तापि, तस्मात्तस्य स्वभावसद्भावेन संत एवासत्त्वं सम्बन्धसद्भावाभावात् , नेतरेतरासत्त्वात् , यथा गुणोऽगुण इति नास्य गुणोऽस्तीत्यगुण उच्यते, न तु गुणो न भवतीति, कस्मात् ? गुणान्तरसम्बन्धाभावात् , न स्वयमगुणत्वादिति, एवं सामान्यं सामान्यमेवेति गतार्थम् , एवं तावत्स्वत एव भावः संत्त्वान्तरानपेक्षः सन् , योऽप्यसौ स्वभावसद्भावः का- 6 यद्रव्यादीनां परतो भावसम्बन्धादादेयः तस्मादेवासन्निति न, किं तर्हि ? तन्न भवतीति भवत्येव, अभूत्वा भावात् भूत्वा च भावात् कार्यस्य, स्वसद्भावेनैवासत्सद्भवति, सदप्यसद्भवतीति तस्य स्वसद्भावस्य कार्यस्य सदसद्भावहरूप्यम् , तदतत्समर्थविकल्पत्वादेकपुरुषपितृपुत्रत्वादिवदिति भावितमेव, तस्मात् सर्वमन्यथाऽन्यथैव सामान्यविशेषात्मकं भवति, किञ्चित्त्वित्यादि-इदं पुनर्भवत्येव भवति स्वसद्भावादेव, नाभूत्वा, न सत्त्वसम्बन्धात् परमाण्वाकाशकालदिगात्ममनोद्रव्यादि, आदिग्रहणात् 10 समवायविभुपरिमण्डलपरमाणुगुणादि, सर्वत्र चेतरासत्त्वादि]न्यथात्वमिति विशेषः, स्वपरभावसत्त्वं सामान्यम् , विशेषेऽप्युभयतेति, सामान्यविशेषाः द्रव्य[त्व]गुणत्वकर्मत्वादयः, अन्त्यविशेषा योगिनामेकाकाशदेशानामन्यत्वकराः, कर्मणि च स्वभावसद्भावेन कर्मत्वसम्बन्धसद्भावेन खेतरेभ्यो भेदाभेदी एवं द्रव्यगुणयोर्द्रव्यत्वगुणत्वसम्बन्धसद्भावात् स्वभावसद्भावादित्येवमादिसाधर्म्यवैधाभ्यां षट्पदार्थेषु
च सत्प्रत्ययव्यवहारौ जनयतः, तत एव सत्ता पृथिव्यादिवनेतरेतरात्मनाऽसती सती भवति, अपि तु सदा सद्रूपैवेत्याशयेनाह-15 सहि स्वयमिति । सत्ताया इतरेतरासद्रूपत्वाभावे कारणमाह-यथा गुण इति गुणे गुणान्तराभावात् गुणोऽगुण उच्यते न स्वसौ गुणो न भवतीति, खतस्तस्य गुणत्वात्, एवं सत्तादिसामान्यमपि तत्र सामान्यान्तराभावादेव निःसामान्यमुच्यते न तु खयं सामान्यं न भवतीति स्वतस्तस्य सामान्यत्वादिति भावः । कार्यद्रव्यादीनां सदसद्भावद्वैरूप्यं दर्शयति-योऽप्यसाविति, कार्यद्रव्यादीनि खरूपसन्यपि परतः सत्तासम्बन्धात् सन्ति भवन्तीति स्वरूपसत्त्वं तेषामसदिति तान्यसद्रूपाण्येवेति शङ्कितुरभिप्राय इति भाति । समाधत्ते-तन्नेति, अभूत्वैव कार्य भवतीति न, किन्तु भूत्वाऽपि भवति, प्राक् सत्तासम्बन्धाभावात् पश्चात्तत्सम्बन्धाद-20 • भूत्वाभवन पूर्व खरूपसत्त्वात् ततःसत्तासम्बन्धात् सत्त्वाद्धत्वा भवनं तस्मिंश्चातस्मिंश्च विकल्पे समर्थत्वात् स्यादन्यत् स्यादनन्यत् कारणात् कार्यमिति, तथा कारणे कार्य सदनन्यत् असदन्यदिति पक्षे समर्थोऽविकल्पोऽस्येति पूर्वमुक्तत्वादिति भावः। तस्मात् सर्व कार्ये खातिरिक्तसामान्यादिसम्बन्धात् सामान्यविशेषात्मकं भवतीति दर्शयति-तस्मादिति । नित्यवस्वपेक्षयाऽऽह-इद पुनरिति परमाण्वाकाशकालदिगात्ममनोद्रव्यादीत्यर्थः, परमाण्वादिद्रव्यादीनामाकाशाद्यन्यद्रव्यात्मनाऽसत्त्वमपील्याह-सर्वत्र चेति । सामान्यविशेषेऽप्युभयतेति मूलं व्यावृणोति-स्खपरेति सामान्यपदेन महासामान्यविवक्षणे तस्य स्वरूपसत्त्वे सति, 25 परभावस्य सत्त्वापादकत्वात् खपरभावसत्त्वमितरेतरात्मना चासत्त्वमेवं विशेषस्यापि खरूपसत्त्वादितरेतरात्मना चासत्वादुभयतेत्याशयः प्रतिभाति । सामान्यपदेन सामान्यविशेषस्य विवक्षणे त्वाह-सामान्येति, अपरत्रानुवृत्तिव्यावृत्तिहेतुत्वादुभयतेति भावः । विशेषपदार्थमाह अन्त्येति, अन्तेषु भवा अन्त्याः खाश्रयव्यावर्तकत्वाद्विशेषाः, तुल्याकृतिगुणक्रियेषु नित्यद्रव्येषु योगिनां येभ्यो निमित्तेभ्यो विलक्षणोऽयं विलक्षणोऽयमिति मतिरुदेति तेऽन्त्या विशेषाः स्वरूपसन्तोऽन्यव्यावर्तकाः । इत्थं षट्पदार्थानां सामान्य विशेषता सदसद्रूपताऽन्यानन्यरूपतेत्यादि साधर्म्यवैधम्ये प्रदर्शिते, इत्थमेव च विधिनियमयोर्विधानं सङ्गच्छत 30 इत्युपसंहरति-इत्येवमादीति यथोपलब्धप्रन्थाधारेण संशोध्य व्याख्यातोऽयं प्रन्थो न तु वैशेषिकाशथेनेनि विज्ञेयम् । अथ
सि.क. सत्स्वान ।
१ सि. क. सत्येवासस्कम् । २ सि. क. स चान्तरामपेक्षः। ३ सि.क. दावेयः । ५ क. गुण स्वाधर्म स्वादयः, सि. गुण स्वादयः। ६सि.क. श्वानान्यत्व।
द्वा० न० ३९ (७७) Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org