________________
द्वादशारनयचक्रम्
६०८
[विधिनियमविधिः सामान्यं सामान्यमेव, योऽप्यसौ स्वभावसद्भावः कार्यद्रव्यादीनां यतो भावसम्बन्धादादेयस्तस्मादेवासन्निति न, किन्तर्हि ? तन्न भवतीति भवत्येव अभूत्वा भावात् भूत्वा च भावात् सदसद्भावद्वैरूप्यम् , किञ्चित्तु परमाण्वाकाशकालदिगात्मनोद्रव्यादि भवदेव भवति स्वसद्धा. वादेव, सामान्यविशेषेऽप्युभयता कर्मणि च, स्वभावसम्बन्धसद्भावाभ्यां भेदाभेदौ, एवं । साधर्म्यवैधाभ्यां षट्पदार्थेषु वैशेषिकमिति ।
(अयन्त्विति) अयन्तूभयप्रधानविधिरिति निगमनम् , तुशब्दो विशेषणार्थः, एवं ह्यसौ विशिष्टार्थाधिकारापरित्यागेनैव सामान्यविशेषयोविधिरिति, कीदृश इति चेत् तन्निदर्शयति-आरब्धानारब्धेत्यादि सप्रभेदपट्पदार्थपरस्परान्यत्वप्रदर्शनार्थों ग्रन्थो यावत् कर्मणि तु स्वभावसम्बन्धसद्भावाभ्यामिति, प्रायो गतार्थः, तथापि किञ्चिदुच्यते-पार्थिवादिपरमाणुव्यणुकाद्यारब्धानामपि स्वभावभेदा10 देशकालाभेदेऽपि नानात्वम् , परमाण्वाकाशादीनामनारब्धानाञ्च तत एव, भावसम्बन्धाभिव्यङ्ग्याभेदेऽपि सति, आरभ्याणाञ्च कादाचित्कत्वादितरेषां नित्यत्वाद्विशेषः, भावसत्त्वस्य-सत्तासत्त्वस्य स्वभावसद्भावेऽपि [वि]शेषः, कस्मात् ? अत्यन्तव्यञ्जनस्वातंत्र्यात्-इतरे व्यज्यन्ते स तु व्यनक्त्येवेति, अन्यथा भूते:-एवमन्येन प्रकारेण भवनात् सर्वत्र सन्निहितमेव भवतीत्यभावादन्यथाऽभूतेरिति, यद्येवं भावव्यञ्जनस्वातत्र्यं न स्यात्-नैव स्यात् सत्तासम्बन्धरहितत्वात् खपुष्पवत्-भावो हि सद्भावसद्व्यञ्ज15 नस्वातंत्र्याभावात् खपुष्पवन्न स्यादिति, पृथिव्युदकेत्यादि, एतान्यपि द्रव्याणि इतरेतराभावात्मना न सन्ति, असतामेव सत्तासम्बन्धात् सत्त्वं भवति द्रव्यसत्त्वसम्बन्धाद्रव्यत्वं भवति, ततश्च सत्तातो द्रव्यत्वाच्चान्योऽन्यतश्च तेन तेन प्रकारेणान्यता, अन्यत्व एवेतरेतरासतां भावादिसम्बन्धः-अन्यत्व एवासति सत्त्वैमिति, गुणकर्मणोरप्येवमेवेति, भावगुणत्वकर्मत्वादिभिः सम्बन्धात् इतरेतरासतामेव सद्गुणकर्मत्वान्यत्वानि, एवं भावोऽसतां सम्बन्धात् सत्त्वं जनयति द्रव्यादीनामित्युक्तम् , तथा 20 किं भावस्य सम्बन्धोऽन्येन जन्यते, नेत्युच्यते-न चास्येत्यादि, स हि स्वयं सम्बन्धादन्येषां सदभिधा
WANImam
सामान्यविशेषयोर्विधानं प्रदर्श्यत इति द्रव्यक्रियाभवनविधानाद्विशिष्टमिति व्याचष्टे-तुशब्द इति । कार्यद्रव्याणामकार्यद्रव्याणाञ्च सत्तारूपेणामेदेऽपि पृथिवीत्वादिस्वरूपमेदाढ़ेदः तथा नित्यत्वानित्यत्वाभ्यां वा भेदः इति दर्शयति-पार्थिवेति तत एव खभावभेदादेवेत्यर्थः । सत्तासम्बन्धस्य सर्वत्राविशेषतया तेनाभेदेऽभिव्यक्के सत्यपीत्याशयेनाह-भावेति । कादाचित्कत्वात्-अनित्यत्वादित्यर्थः । सर्वेषां खभावतः सत्त्वेऽपि सत्तासम्बन्धेनैव सत्त्वं तस्या अभिव्यक्तीकरणे अत्यन्तं खातंत्र्यादि25 त्याह-भावसत्त्वस्येति । स्वातंत्र्ये हेतुमाह-अन्यथेति कारणेऽसत एव कार्यस्य भवनाङ्गीकारादिति भावः, सन्निहितमेव
कारणे सन्निहितमेव कार्यमित्यर्थः । यदि वस्तुनः सद्रूपतया व्यञ्जने सत्तायाः खातंत्र्यं न स्यात्तर्हि वस्तु सदेव न स्यात् सत्तासम्बन्धाभावादित्याह-यद्येवमिति । असती पृथिवी जलाद्यात्मना, असजलादि पृथ्व्यात्मना इत्येवमितरेतरात्मनाऽसतामेव
नां सत्तासम्बन्धात् सद्रूपता द्रव्यत्वादिसम्बन्धाद्व्यादिरूपता सत्ताद्रव्यत्वाद्योस्तद्वतोश्च परस्परं भेदः पूर्वमसतामेव भावत्वादिसम्बन्धादित्याह-एतान्यपीति । एवं गुणादीनामितरेतरात्मनाऽसतां सत्तागुणत्वादिसम्बन्धात् सद्गुणादिरूपते. 10 त्याह-गुणकर्मणोरिति । भावः सत्ता सा कथं सती, अपरसत्तासम्बन्धात् सत्त्वेऽनवस्थाप्रसङ्गादित्यत्राह-किं भावस्येति,
खरूपत एव सत्तायाः सद्रूपता, स्वतस्सद्रूपत्वाभावेऽपरत्र सत्प्रत्ययाभिधानहेतुत्वासम्भवात् , तस्मात् प्रदीपवत् खस्मिन् परत्र
१सि.क. व्यञ्जनास्वातंत्र्ये वन । २ सि. क. भावादिसम्बन्धान्यन्य एवा.
सि.क. सत्त्वमन्यवत्य एवेति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org