________________
६०७
उभयप्रधान विधिः] न्यायागमानुसारिणीव्याख्यासमेतम् वादिति, अस्माभिस्त्वदनुकम्पयाऽभ्युपगतेऽपि कर्तृत्वे-स्वतंत्रभवनात्मके द्रव्यस्यैव च प्राधान्य मिति विधानात् क्रियायाः प्राधान्याविधानात् भावः-द्रव्यं कर्तृ स्वातंत्र्यात् , न क्रिया प्राधान्याभावादित्येवं युक्त्या प्राप्तत्वेऽपि त्वदनुकम्पया तयोः कर्तृत्वे वाऽभ्युपगतेऽपि न भवितुमर्हति, उभयप्राधान्याभावादित्यर्थः।
किं कारणमुभयप्राधान्यं नास्तीति चेदुच्यते
तथाभूतार्थविषयत्वात् सन्निधानस्य तथातथाभवद्भावाभिमुखसन्निहितघटादिभवनगेहवत् क्रियया न किश्चित् प्रयोजनम् , सम्भाव्यमानमपि प्रयोजनमभिव्यक्तिमात्रं स्यात् , तस्या अपि तद्भवनतंत्रत्वाद्रव्यभवनस्यैव प्राधान्यस्योपकारमात्रार्थत्वाव्यक्तेरप्राधान्यम् ।
(तथाभूतार्थेति) तथाभूतार्थविषयत्वात् सन्निधानस्य-द्रव्यं हि सन्निहितभवनमिष्यते तथातथाभवद्भावाभिमुखसन्निहितघटादिभवनगेहवत्-गेहसन्निहितघटवत् सर्वथा तेषां क्रियाव्यङ्ग्याभिम-10 तानां द्रव्ये सन्निधानाभ्युपगमात् प्रदीपेनेव गेहे सन्निहितानां घटादीनां क्रियया न किञ्चित् प्रयोजनम् , सम्भाव्यमानमपि प्रयोजनमभिव्यक्तिमात्रं स्यात् तस्या व्यक्तेरपि तद्भवनतंत्रत्वात् द्रव्यभवनस्यैव प्राधान्यस्योपकारमात्रार्थत्वात् व्यक्तेरप्राधान्यमिति ।
अयन्तूभयप्रधानविधिः, आरब्धानारब्धद्रव्याणां पार्थिवपरमाणुढ्यणुकादीनां भावसम्बन्धाभिव्यङ्ग्याभेदेऽपि सति स्वभावादिभेदान्नानात्वम्, भावसत्त्वस्यात्यन्तव्यञ्जनस्वातंत्र्यात्, 15 अन्यथा भूतेः, यद्येवं न स्यान्नैव स्यात् सत्तासम्बन्धरहितत्वात् खपुष्पवत्, पृथिव्युदकज्वलनपवनगगनकालदिगात्ममनसां द्रव्याणामपीतरेतराभावात्मनाऽसतामेव सत्तातो द्रव्यत्वादन्योऽन्यतश्च तेन तेन प्रकारेणान्यता, अन्यत्व एवेतरेतरासतां भावादिसम्बन्धः, गुणकर्मणोरप्येवमेव, न चास्य भावस्यान्यस्माद्भावता, स्वपरप्रकाशहेतुत्वात् प्रदीपवत् , तस्मात् स्वभावसद्भावेन सत एवासत्त्वं सम्बन्धसद्भावाभावात्, नेतरेतरासत्त्वात् , यथा गुणोऽगुण इति, एवं 20 उभयोः प्राधान्यानङ्गीकारादित्याह-अभ्युपगतेऽपीति । उभयविधिप्रयोजकोभयप्राधान्यस्याभावे कारणमाह-तथाभूतेति । तेन तेन क्रमसहभाविभवनेनाविनाभाविसन्निहितवस्तु द्रव्यं भवति, सहक्रमभाविनो हि भावा द्रव्ये सन्निहिताः सत्कार्यवादाङ्गीकारात्, तथा च तदेव द्रव्यं तेन तेन प्रकारेण भवति ततश्च किं क्रियया, न हि गृहे विद्यमानस्य घटस्य प्रदीपः किमपि करोति, ततश्च क्रियायाः कर्तृत्वाभावाद्भावत्वं नास्त्येवेति दर्शयति-द्रव्यं हीति । यथा गृहे सर्व वस्तु सन्निहितं तथा द्रव्येऽपि सर्व वस्तु सन्निहितमिति अविद्यमानसम्पादकक्रियाया व्यर्थतैवेत्याह-गेहेति । यथा प्रदीपो विद्यमानस्यैव घटादेय॑क्षकस्तथा 25 क्रियापि द्रव्ये विद्यमानस्यैव भावस्य व्यञ्जिकाऽस्तु इत्यत्राह-सम्भाव्यमानमपीति । तथापि तस्या अप्राधान्यमेवेत्याह-तस्या इति, तस्या अभिव्यक्तरपि द्रव्यं यदा तेन तेन प्रकारेण भवति तदैवाभिव्यञ्जकत्वात् द्रव्यभवनमेव प्रधान क्रियाकृताभिव्यक्तिरप्रधानम्, न हि गृहे घटाभवने प्रदीपोऽभिव्यञ्जयति, क्रमयोगपद्येनानन्तकार्यभवनशक्तिमद्रव्यं तथाभवतश्च भावान् क्रिया प्रकाशयतीति व्यस्य तथाभवनापेक्षित्वेन क्रियाया अभिव्यजिकाया अप्राधान्यमिति भावः । इदानी खमतेनोभयप्राधान्यविधानं सङ्गच्छत इति दर्शयति-अयन्त्विति, पार्थिवपरमाण्वादिद्रव्याणि अनारब्धद्रव्याणि, नित्यद्रव्याणि, व्यणुकादिद्रव्याणि 30 बद्रव्याणि कार्यद्रव्याणीति योजना । अस्मिन् हि नये द्रव्यादिषट्पदार्था अधिकृताः, तदधिकारानुसारेणैव प्राधान्येन सि. क. कम्पायुप० । २ सि. क. स्वातंत्र्यतत् किया। ३ सि. क. प्राप्तेऽपि ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org