________________
. ६०६
द्वादशारनयचक्रम्
[ विधिनियमविधिः
हि द्रव्यादयः सत्तास्वतत्त्वसमवायात् सद्द्रव्यघटादिव्यपदेशार्हा भवन्तीत्येषोऽपि विशेषः । किमर्थं सत्तास्वतत्त्वसमवायाद्द्रव्यादि सद्भवति न पुनर्द्रव्यादिसमवायात् सत्तादिस्वतत्त्वानि द्रव्यादीनि न . भवन्तीति चेत् उच्यते स्वरूपसत्तायाः सतामपि सामान्यविशेषसमवायानां समत्वात् स्वसद्भावादेव सतां सम्बन्धसद्भावशून्यानां सत्तादीनामितरेभ्यो विशेषः ।
स तु सम्बद्धद्रव्यादीनामस्तीति दर्शयति
दण्डवत्त्वर्थान्तरभूतसत्तादिसमवायादेव स्वानुरूपा विशेष्ये बुद्धिरनुप्रवर्त्तते न त्वगृहीते विशेषणे, विशेषप्रत्ययस्य गगनादिष्वतत्सम्बन्धिष्वभाववत् ।
दण्डवत्त्वर्थान्तरेत्यादि गतार्थं यावद्विशेष्ये बुद्धिरनुप्रवर्त्तत इति, विशेषणस्वरूपप्रत्ययनिमितत्वाद्विशेषणानाम्, सत्तादिसम्बन्धानुरूपप्रत्यय हेतुत्वं सामान्यादीनाम्, स्वाश्रयेषु दण्डनिमित्तदण्डिप्र10 त्ययवत् द्रव्यगुणकर्मणाम्, न त्वगृहीते विशेषणे, स्वेत्यादिविशेषप्रत्ययस्य गगनादिष्वतत्सम्बन्धिष्वभाववदिति ।
wwwwww.www
5/
15
एवमेव ह्युभयस्येवोभयप्राधान्यस्यापि विधिः, अत्यन्त विशेषरूपत्वात् पदार्थषड्भेदानाम् न तु पूर्वनयेष्टः, अस्वातन्त्र्ये कर्त्तृत्वाभावात्, अस्माभिस्त्वदनुकम्पयाऽभ्युपगतेऽपि कर्तृत्वे द्रव्यस्यैव च प्राधान्यमिति विधानात् क्रियायाः प्राधान्याविधानाद्भावो न भवितुमर्हति ।
( एवमेवेति ) एवमेव ह्युभयस्येवोभयप्राधान्यस्यापि विधिर्यथाऽस्माभिरुक्तस्तथैव सामान्यस्य विशेषस्य च विधिः सम्भवति, अत्यन्तविशेषरूपत्वात् पदार्थषड्भेदानाम् - तथा सामान्यविशेषद्वयविधिरपि भवितुमर्हति, न तु पूर्वनयेष्टो द्रव्यक्रिययोरुभयप्राधान्याभावात्, अस्वातंत्र्ये कर्तृत्वाभा
समवायात् सत्ताद्रव्यत्वादय इति कुत इत्याशङ्कते - किमर्थमिति । सद्रव्यादयो हि सत्तासमवायाद्द्रव्यत्वादिसमवायात् सद्रव्यादयो भवन्ति सत् द्रव्यं गुणः कर्म पृथिवी रूपमित्यादि, तथा यदि सत्ताद्रव्यत्वादयः सद्रव्यादयो भवेयुस्तर्हि सत्तासमवायो द्रव्यत्वा20 दिसमवायश्च स्यात्, न चैष इष्यते सामान्य विशेषसमवायानां स्वरूपसत्त्वस्यैवै कस्याभिमतत्वात्, स्वसद्भावादेव सद्रूपत्वादित्याशयेन समाधत्ते -स्वरूपसत्ताया इति । सोऽयं विशेषः सद्रव्यादीनामस्तीति दर्शयति- दण्डवत्त्विति । पुरुषादर्थान्तरभूतस्य दण्डस्य सम्बन्धात् पुरुषे यथा स्वानुरूपा दण्डीति विशिष्टबुद्धिरुद्भवति तथा द्रव्याद्यर्थान्तरभूतसत्तादिसमवायात् द्रव्यादी विशेष्ये खानुरूपा सत् द्रव्यमित्यादिप्रतीतिरुपजायते इत्याशयं वर्णयति-विशेषणेति । न हि केवलमस्तित्वमात्रेण किञ्चिद्विशेषणं भवितुमर्हति किन्तु ज्ञातं सत् यत् खाकारानुरक्तया बुद्ध्या विशेष्यं रंजयति तद्विशेषणं भवति, यदा च विशेषणं न गृहीतं तदा 25 कथं विशेष्ये खानुरूपां बुद्धिं जनयेत्, स्वस्यैवाज्ञातत्वात् यथा अन्तराले आकाशे दिग्द्रव्ये वा अतत्सम्बद्धे घटत्वाद्यसम्बद्धे घट इत्यादिखानुरूप विशेषप्रत्ययस्याभाव इत्याशयेनाह - न त्वगृहीत इति । सत्ताद्रव्यत्वादिगगनादिद्रव्याणामित्याद्युकरी
त्यैव सामान्यविशेषयोर्विधिर्भवितुमर्हति न तु पूर्वनयोक्तद्रव्यक्रियात्मोभयविधिरत्यन्तभिन्नरूपत्वात् पदार्थानामिति ज्ञापयति एवमेव हीति यथाऽस्माभिरुक्तस्तथैवेत्यर्थः । यथाऽस्मदुक्त एवोभयविधिर्युक्तस्तथैवात्रैवोभयस्य प्राधान्येन विधानमपि सम्भवति, पदार्थानामत्यन्तभिन्नत्वेन सर्वेषां प्राधान्येन प्रवृत्तेरित्याशयेनाह - उभयप्राधान्यस्यापीति, अतो न पौनरुक्त्य30 मिति ध्येयम् । सामान्यविशेषोभयविधिः षट्पदार्थानामत्यन्तमेदरूपतायामेव सम्भबति न तु गुणप्रधानभावे तत्रैकस्यैव विधिस - म्भवादित्याशयेनाह - अत्यन्तेति । कथं पूर्वनये न सम्भवतीत्यत्राह - अस्वातंत्र्ये इति खतंत्रो हि कर्त्ता, क्रिया तु गुणभूतत्वान्न खतंत्रभूता, द्रव्यस्यैव च तथाभूतेरभ्युपगमादिति भावः । कर्तृत्वाभ्युपगमेऽपि द्रव्यक्रिययोरुभयोर्भावत्वं न भवत्येव
१ सि. क. 'स्वतच्चास० । २ सि. क. एवमेवाद्युभयस्यैवो० । ३ सि. क. विधे० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org