________________
भावस्य न सद्रव्यादिता ]
न्यायागमानुसारिणीव्याख्यासमेतम्
६०५
( यदपि चेति ) यदपि च तस्य सन्मात्रं - स्वरूप सत्त्वं तदपि नात्मनैव-यदुच्यते यदयं भवति स्वयमेव-अर्थान्तरनिरपेक्षं स्वतंत्रम्, भयन्तरेण तदेव व्यक्तीकरोति यदनेन भूयत इति स्वभावसम्बन्ध इत्यर्थः, अयं त्वयेष्टः स एवास्य भाव इति नैष पुनर्भावो भवति, कस्तर्हि ? अन्येनान्येन भूयते - अन्यापेक्षेण स्वैतया तद्भिन्नेन, सोऽन्य एवास्य भावः, कोऽसौ ? सत्ता - महासामान्यम्, येन च भूयते सोऽपि चास्य भावः - सद्व्यपदेशार्हस्य द्रव्यादेः सतोऽपि भावः, न केवलं सत्तैव, यत्सम्बन्धात् भवतीति 5 भवति सापिं सत्ताभावः, सच्च द्रव्यादि भवतीत्यर्थः, भावेऽप्युभयता उत्सर्गात् [अपवादात् ] -सत्तायामपि उभयता-सामान्यविशेषता सोत्सृज्यते नियम्यते च - सोऽप्युत्सृज्यते भावः सर्वगत इति, नियम्यते स्वगत एवेति सत्तान्तरसम्बन्धनिरपेक्षसद्भावे सति मा भूत् सम्बन्धानवस्था, द्विविधो हि भाव इति सर्वस्य वस्तुनः उत्सर्गापवादौ पृथक् पृथक् विभिन्नरूपौ दर्शयति, तद्व्याख्या स्वभावसम्बन्धिन्येत्यादि तार्थं यावत् द्रव्यगुणकर्मसु सदिति भवति, स्वरूपसत्ता नार्थान्तरमपेक्षते सम्बन्धसत्ता त्वपेक्षत इत्यर्थः । 10 न तु भवत्येव भावः सद्रव्यगुणकर्मवत् सद्रव्यादिः, सद्भाव सामान्येऽपि भावानां प्रतिस्वं स्वभावभेदात् सत्तास्वतत्त्वासमवायात् स्वरूपसत्तायाः सतामपि सामान्य विशेषसमवायानां समत्वात् स्वसद्भावादेव सतामितरेभ्यो विशेषः ।
www.
न तु भवत्येवेत्यादि, न तु भावः सत्ता सद्द्रव्यगुणकर्मवत् सद्द्रव्यादिः सद्भाव सामान्येऽपि भावानां प्रतिस्वं स्वभावभेदात्- द्रव्यगुणकर्म सद्वैधर्म्यात् सन्न भवति न द्रव्यं भवति न घटादिर्भवति 15 द्रव्यत्वघटत्वादिसम्बद्धद्रव्यादिघटादिवत् न सद्रव्यादि भवतीत्यर्थः, किं कारणम् ? सत्तास्वतत्त्वासमवायात्-सत्ता समवायो द्रव्यत्वगुणत्व कर्मत्वघटत्वादिस्खतत्त्वसमवायो वा सत्तायां यतो नास्ति, "ते
wwwwww...m
wwwwww
भवति द्रवतीति द्रव्यमिति व्युत्पत्तिप्रदर्शनानवकाशः स्यात्, भ्वादिधात्वर्थप्रवृत्तिनिमित्तधर्मयोगिन एव भावत्वादन्येन धर्मेण भवति न स्वत इत्याशयेन समाधत्ते - अन्येनान्येनेति खतया - स्वधर्मेण स्वस्माद्भिन्नधर्मापेक्षं स्वस्य भावत्वं स च धर्मः सत्ता भावपदवाच्येति विज्ञेयम् । सत्तासम्बन्धादेव द्रव्यं भावो भवतीत्यनियमः किन्तु खरूपसत्तयाऽपि भावो भवतीत्याह - येन 20 चेति, न केवलं सत्तैव भाव उच्यते, किन्तु भवनाश्रयं सत्तासम्बन्धि च यत्तदपि भाव उच्यत इति भावः । एवच भावस्यापि सामान्यविशेषता प्रोक्तेत्याह- भावेऽप्युभयतेति, सत्तायाः स्वविषय सर्वगतत्वादुत्सर्गता - सामान्यता, सत्तायाः सत्त्वे सत्तान्तरापेक्षायाम नवस्थाप्रसङ्गेन स्वत एव सद्रूपताङ्गीकारात् खरूपसत्त्वेन स्वगतत्वादपवादता- विशेषतेत्युभयवेति भावः । एवमेवाहसोत्सृज्यत इति । स्वरूपसत्त्वसम्बन्धसत्वरूपतो भावस्य द्वैविध्यदर्शनात् सर्वे भावा एवंविधा इत्याह- द्विविधो हीति । द्रव्यादीनां खरूपसत्त्वं स्वत एव संबन्धसत्त्वन्तु सत्तापेक्षयेत्याह-स्वभावेति, खभावसत्तया सम्बन्धिसत्तया च द्रव्यादौ सद्व्य- 25 पदेश इति भावः । इत्थं स्वरूपप्तम्बन्ध वैलक्षण्यमुक्त्वा विशेषान्तरमाह-न त्विति । सत्तापि भवति द्रव्यादिरपि भवतीत्युभयोर्भावस्य समानत्वेऽपि द्रव्यादिरेव सन् भवति द्रव्यादिर्भवति न तु सत्ता, द्रव्यगुणकर्मरूपात् सतो विलक्षणत्वादिति वर्णयतिन तु भाव इति, सद्रव्यगुणकर्मवदिति वैधम्र्योदाहरणम् । सामान्यद्रव्यव्यपदेशं विशेषद्रव्यव्यपदेशं वा नाईतीत्याशयेनाह - न द्रव्यं भवति न घटादिर्भवतीति । तात्पर्यमाह - द्रव्यत्वेति । यत्र च सामान्यधर्मो विशेषधर्मो वा समवैति स एव सद्रव्यादिव्यपदेशार्हो भवति नान्य इति स्वभावभेदे कारणमाह- सत्तास्वतत्त्वेति । दृष्टान्तदाष्टन्तिकयोर्हेतु संघट- 30 यति - सत्तासमवाय इति । ननु सत्तासमवायादेव द्रव्यत्वादिसमवायादेव च द्रव्यादयः सद्रव्यादयो भवन्ति न तु सद्द्रव्यादि
१ सि. क. विभक्तयन्तरेण । २ सि. क. स्वतथा । ३ सि. क. सन्न भवति । ४ सि. क. न हि ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org