________________
www
Ammmmmm
द्वादशारमयचक्रम्
[विधिनियमविधि: रारम्भकास्य] नानात्वम् , गुणानामपि संयोगविभागरूपादीनामारम्भकाणां विभुत्वाद्यनारम्भकेभ्यो नानात्वम् , कर्मणोऽवयविद्रव्यसंयोगविभागारम्भिणोऽनारम्भकेभ्यो भेदः, अन्याना]रभ्यत्वाचाकाशगुणस्य शब्दस्येतरेभ्यो विशेषः, तदभावात्तेषां, विरोधाविरोधकार्यकारणप्रकरणकृते च नानात्वम् , आदिग्रहणात् गुणकर्मणां तदभूतेरिति-द्रव्यमेव द्रव्यं भवति न गुणा न कर्माणि, गुणानामगुणाकर्मत्वात् , कर्मणश्चागुणाकर्मत्वाद्रव्येभ्यो विशेषः, सामान्यादीनाञ्चेति, सामान्यस्य सामान्यविशेषाणामन्त्यविशेषाणाचेतरेभ्योऽनारभ्यत्वात् , समवायस्य च, आश्रयित्वे सत्यपि परस्परतश्च स्वाश्रयस्य स्वानुरूपप्रत्ययाधानहेतुत्वादित्येवमादिविशेषहेतुसद्भावात् सर्वमन्यदेव, ततः किम् ? ततस्त्वदुक्तद्रव्यस्वरूपलक्षणभवनानुपपत्तिः-सर्वप्रभेदनिर्भेदं बीजं द्रव्यं तस्यैव द्रव्यस्य तथाभूतशक्तिसन्निहितव्यक्तिर्भाव इत्येवं स्वरूप
लक्षणस्य भवनस्यानुपपत्तिः, द्रव्यभवनभिन्नभवनात्मकत्वात् गुणादीनां द्रव्यान्तराणां सत्तासमवायाद्या10 श्रितपदार्थानाम्, इतिशब्दो हेत्वर्थ, तस्मात् कारणादुभयस्यापि-सामान्यस्य द्रव्यभवनस्यैकरूपस्योत्स
गेस्य क्रियाभवनस्य चापवादस्य भूतादिभेदस्याभावः । कथं तर्हि तयोर्भाव इति चेदुच्यते-द्रव्यादिषइभेदस्य सप्रभेदस्यैव-पृथक् पृथक् स्वरूपस्यैवे विशेषधर्मकस्य भावः।
यदपि च तस्य सन्मानं तदपि नात्मनैव, यदुच्यते यदयं भवति स्वयमेव यदनेन भूयत इति, नैप पुनर्भावो भवति, कस्तहि ? अन्येनान्येन भूयते, सोऽन्य एवास्य भावः, सत्ता, येन 10च भूयते सोऽपि चास्य भावः न केवलं सत्तैव, यत्सम्बन्धाद्भवतीति भवति, सापि सत्ता भावः,
भावेऽप्युभयता, उत्सर्गात् अपवादात्, सा उत्सृज्यते नियम्यते च द्विविधो हि भाव इति, स्वभावसम्बन्धिन्या सत्तया द्रव्यगुणकर्मसु सदिति भवति । कत्वं विज्ञेयं, आकाशादीनामपि शब्दाद्यारम्भकत्वात् । विभुत्वादीति, परममहत्परिमाणाणुपरिमाणादीनां कस्याप्यकारणत्वादिति भावः । अनारम्भकेभ्य इति, द्रव्यारम्भयोग्यसंयोगाजनकेभ्य इत्यर्थः, केनापि कर्मणा द्रव्यानिष्पत्तेः, उत्तरसंयोगेन 20निनष्ट कर्मणि द्रव्योत्पत्तेरिति बोध्यम् । शब्दस्य पृथिव्यायनारभ्यत्वाद्रूपादिभ्यो विशेषः रूपादीनामन्यानारभ्यत्वाभावादित्याह
अन्यानारभ्यत्वाञ्चेति । एवं द्रव्य कार्यकारणाविरोधि, गुणाः कार्यकारणोभयविरोधिनः, कर्म कार्यविरोधि, तदेवं प्रोक्तहेतु. भिव्यगुणकर्मणामन्यत्वेन न द्रव्यमेव तथा भवतीत्याह-विरोधेति । द्रव्यादेरित्यत्रादिपदग्राह्यमाह-आदिग्रहणादिति । द्रव्यमेव द्रव्यलक्षणभाग्भवति न गुणाः कर्माणि द्रव्यलक्षणानि भवन्ति तेषां निर्गुणत्वान्निष्क्रियत्वाचेत्याह-द्रव्यमेवेति । सामान्यादीनां द्रव्यादिभ्यो विशेषमाह-सामान्यादीनाञ्चेतीति, सामान्यपदेन सत्ता महासामान्यं द्रव्यत्वादयः सामान्य26 विशेषा विवक्षिताः, आदिना अन्त्यविशेषाः, समवायश्च, एतेषां नित्यत्वेनानारभ्यत्वादारभ्येभ्यो द्रव्यादिभ्योऽन्यत्वमिति भावः ।
अत्र भावार्थस्त्वेवं सम्भाव्यते सत्तायाः द्रव्यत्वादीनाञ्च खाधारेषु द्रव्यादिषु स्वाश्रयादिभ्यः परस्परतश्च द्रव्यत्वादेः सत् द्रव्यं गुणः कर्म चेत्यादिखानुरूपप्रत्ययाधानहेतुत्वात् विशेषः, एवं खाश्रयेषु नित्यद्रव्येषु वर्तमानानां विशेषाणां प्रत्याधार विलक्षणोऽयं विलक्षणोऽयमिति व्यावृत्तिप्रत्ययाधानहेतुत्वात् खाश्रयेभ्यः परस्परतश्चान्यत्वम्, तथा समवायस्यापि द्रव्यादिपञ्चसु खाश्रयेषु - इति प्रत्ययाधानसमर्थत्वात् तेभ्योऽन्यत्वम् , सामान्यस्य खानुरूपप्रत्ययः अनुवृत्तिप्रत्ययः, विशेषस्य स व्यावृत्तिप्रत्ययः, समवायस्य 30 च सइहेति प्रत्यय इति अनुगतहेतुना सामान्यादीनामन्यत्वमभिहितमिति । पूर्वनयोदितभवनानुपपत्ति निगमयति-ततस्व
दुक्केति । यदपि सर्वप्रभेदनिर्भेदं द्रव्यं यतो भवति खयमेव, न त्वर्थान्तरापेक्षया यदनेन भूयतेऽतो भावः स्वयमेवेति तदयुक्तमिति दर्शयति-यदपि चेति । द्रव्यं हि भाव इतीच्छता भवनक्रियासम्बन्धादेव द्रव्यस्य भावत्वमुक्तं स्यान्न स्वतः, अन्यथा
अन्येत्यारभ्य विशेष इत्यन्तः पाठो विशेषइत्यस्याने दृष्टोऽपि अनावश्यकत्वप्रतिभासनायोजितः । २ सि. क. वैवावि०।३ सि.क. कस्याभावः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org