________________
उत्सर्गापवादविधी] न्यायागमानुसारिणीव्याख्यासमेतम्
६०१ दिपु सामान्यं, आदिग्रहणात् गुणत्वकर्मत्वे च रूपादि[७]गमनादिषु च सामान्यविशेषास्तद्भेदाः, गगनादीनि-आकाशात्मदिक्कालद्रव्याणि विभक्तसर्वगतानि, द्रव्याणामेषां सर्वव्यापिता-सर्वगतत्वम् , अण्वादिसहित[नां] नित्यत्वञ्चेति, तेषां द्रव्याणामणूनाञ्च नित्यत्वं कालव्यापिता पार्थिवादिचतुर्विधाणुद्रव्याणाञ्चेति, आदिग्रहणान्मनोद्रव्यसहितानामिति, विभुत्वपरिमण्डलत्वादिगुणसहितानां-ते च गुणास्तानि च द्रव्याणि नित्यानीत्यर्थः, एष उत्सर्गः सामान्यविधिः । ___ आरब्धद्रव्यगुणानां कर्मणश्चानित्यत्वादन्यत्वम् , पुनश्च द्रव्यगुणकर्मणां परस्परतः स्वजातिप्रभेदेभ्यश्च सत्तासमवायसामान्यविशेषान्त्यविशेषेभ्यश्च नित्येभ्योऽनित्यानां कार्यकारणतया चेत्यपवादः, तयोविधिरेष विधिनियमविधिः।
आरब्धद्रव्येत्यादि यावदपवाद इति, पार्थिवाप्यतैजसवायव्यैश्चतुर्विधैरणुभिः संयोगापेक्षैः समानजातीयैः समानजातीयानि व्यणुकादीनि तदाद्युत्तरवृद्ध्या महापृथिव्यादिपर्यन्तानि आरब्धद्रव्याणि 10 द्वे बहूनि वा द्रव्यान्तराण्यारभन्ते चतुर्विधान्येव, 'येषामधिकृतमारम्भसामर्थ्य तैरारब्धे कार्यद्रव्ये तत्समवेता नियमत एव गुणान्तरमारभन्ते' ( ) इति वचनात् , चित्रादय आरब्धगुणाः, तेषामुभयेषामारब्धद्रव्याणामारब्धगुणानाञ्चानित्यत्वात् प्रागुक्तेभ्यो विशेषः, तथा कर्मणश्च सप्रभेदस्य, एवं तावन्नित्यानित्यसर्वगतासर्वगतभेदेनान्यत्वम् , पुनश्च द्रव्यगुणकर्मणां परस्परतो द्रव्येभ्यो गुणानाञ्च कर्मणाञ्च, गुणेभ्यो द्रव्याणां कर्मणाश्च कर्मभ्यो द्रव्याणां गुणानाश्च परस्परत इति, स्वजातिप्रभेदेभ्य-15 श्वान्यत्वम् , द्रव्यजातेः परस्परत:-पृथिव्या उदकादिभ्यः, उदकस्य पृथिवीसहितेभ्योऽन्येभ्यः, एवं ज्वलनपवनगगनदिककालात्ममनसामितरेभ्योऽन्यत्वमिति, सत्तासमवायसामान्यविशेषान्त्यविशेषेभ्यश्चान्य[त्वं] नित्येभ्योऽनित्यानाञ्च, कार्यकारणतया च-'द्रव्यगुणकर्मणां द्रव्यं कारणं सामान्यम्' (वै० अ०१ आ० १ सू० १८) इत्यादि 'संयोगविभागा:[च कर्मणाम्' (वै० अ० १ आ० १ सू ३०) इत्यादि कार्यकारणनानात्वेन चान्यत्वमित्यपवादः, तयोरुत्सर्गापवादयोर्विधिः-सामान्यविशेषयोः विधिनियम-20 योरित्यर्थः, एष विधिनियमविधिः, न प्राक्तनः त्वत्परिकल्पितः।
यति-आरब्धेति। आरब्धद्रव्याणि पृथिव्यप्तेजोवायूनां परमाणुभिरारब्धानि छ्यणुकच्यणुकादिमहापृथिव्यनादिपर्यन्तानीति दर्शयति-पार्थिवाप्येति, अणवः समवायिकारणं परस्परं संयोगोऽसमवायिकारणं पार्थिवादिपरमाणवः स्वसजातीयानेव द्वषणुकादीनारभन्ते न विजातीयानबादियणुकादीनिति भावः। द्वे बहूनि वेति द्वाभ्यां परमाणुभ्यामुत्पन्नानि द्वथणुकानि बहुभिर्षणुकैरारब्धानि त्र्यणुकादीनि, एवं चतुर्विधपार्थिवादियणुकादीनामारम्भो नान्यथेति भावः । आरब्धगुणान् दर्शयति-येषामिति पृथिव्यते-25 जोवायुपरमाणुभिर्दाभ्यां बहुभिर्वा खसंयोगापेक्षैः तुल्यजातीयैरारब्धे कार्यद्रव्ये कारणसमवेता गुणाः खसजातीयगुणारम्भकरवनियमात् गुणान्तरमारभन्त इति शुक्लनीलपीतादयो गुणाः आरब्धगुणा इत्यर्थः । एतेषाञ्चोत्पन्नद्रव्याणामुत्पनगुणानाचानित्यत्वादेव पूर्वोदितनित्यद्रव्यगुणेभ्यो विशेष इत्याह-तेषामुभयेषामिति । उत्क्षेपणादिसप्रभेदं कर्म खसजातीयानारम्भकत्वादनिसत्वाच द्रव्यगुणाभ्यां विशेष इत्याशयेनाह-तथा कर्मणश्चेति । द्रव्यगुणकर्मणां परस्परतोऽन्यत्वमाह-पुनति । द्रव्याद्यवान्तर
व्यादीनां परस्परं मेदमाह-खजातीति । सामान्यपरिहीनेभ्योऽपि सत्तादिभ्यो द्रव्यगुणकर्मणामन्यत्वमाह-सत्ता-30 समवायेति । कार्यकारणभेदेन द्रव्यगुणकर्मणां भेदमभिधाय विधिनियमविधानमुपसंहरति-कार्यकारणतयेति । तत्रैव
१ सि. क. नित्यानाओत्यपवादस्तयोः । २ सि. क. °णां कार्यम् । द्वा० न०३८ (७६)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org