________________
१०२
द्वादशारनयचक्रम्
[विधिनियमविधिः यदप्युक्तं त्वया तथाभूतसन्निहितवस्तुशक्तिव्यक्तिः क्रिया सर्वप्रभेदनिर्भेदं बीजं द्रव्यमिति च तन्न भवति, क्रिया हि प्रागभूतनिवृत्त्यर्था, जगत्प्रलयकाले च का त्वदिष्टव्यापारलक्षणा क्रिया मदिष्टादृष्टचोदिताणुगतकर्मण्यसति ? न हि सा निवृत्तमेव निर्वर्तयितुं निरर्थकं वा प्रव
तते, सा चानेकद्रव्यतायां सत्यां भवति, अनेकद्रव्यत्वञ्चादृष्टचोदिताणुकर्मान्तरेण न भवि5 तुमर्हति, भेदबीजमात्रद्रव्यशक्तिव्यक्तौ वा न कश्चिदुपकारोऽस्त्यस्य जगतः, न चेदेवमिष्यते तदा नित्यैकस्तिमितगगनवदारम्भाभावात् क्रिया निर्विषयैव स्यात् ।।
(यदप्युक्तमिति) यदप्युक्तं त्वया तथाभूतसन्निहितवस्तुशक्तिव्यक्ति क्रिया द्रव्याभेदे सर्वप्रभेदनिर्भेदं बीजं द्रव्यमिति च, तन्न भवति, यस्मात् क्रिया हि प्रागभूतनिवृत्त्यर्थी जगत्प्रलयकाले च
का त्वदिष्ठव्यापारलक्षणा क्रिया मदिष्टादृष्टचोदिताणुगतकर्मण्यसति ? सा ह्यदृष्टचोदिताणुकर्मजनिताs10 धर्मनिवृत्त्यर्था जगत्सृष्ट्या च स्यात् , कर्मैव च नः क्रिया, न हि सा निवृत्तमेव निर्वर्तयितुं क्रीडितमेवास्त्विति [निरर्थकं वा प्रवर्तते, सा चानेकद्रव्यतायां सत्यां भवति, अनेकद्रव्यत्वचादृष्टचोदिताणुकर्मान्तरेण न भवितुमर्हति, कस्मात् ? अदृष्टवशादणुषु कर्म सम्भवात् , व्यणुकादनेकद्रव्योत्पत्तेः तत्समवायाच ततश्चानेकाणुकृताग्न्यूर्द्धज्वलनादिलोकस्थितिकरसर्वकार्योपपत्तेनैकस्य कस्यचित् त्वदिष्टनित्यस्य क्रियाऽस्ति, भेदबीजमात्रद्रव्यशक्तिव्यक्ती वा न कश्चिदुपकारोऽस्त्यस्य जगतः, किं कारणं ? यस्मादुक्तं 'अणुमनसो15 श्वाचं कर्मेत्यदृष्टकारितम्' (वैशेषिकसूत्रछाया अ०५ आ० २ सू०१३) इति, ने चेदेवमिष्यते यदाऽदृष्टपरिगृहीतेष्वेषु कर्म न भवति तदा चैक्येन स्तिमितगगनवत्तदेकं द्रव्यं निःक्रियत्वान्न
सूत्रमुपन्यस्यति-द्रव्येति द्रव्यगुणकर्मणामेकं द्रव्यं समवायिकारणमित्यर्थः । संयोगविभागाः कर्मणां कार्यमित्यर्थः, तदेवं विशेषस्यापवादलक्षणस्य विधिः, उत्सर्गः सामान्य विधिः, अपवादः विशेषः नियमः, एनयोविधिः विधानं विधिनियमविधिरिति
विधिनियमयोः प्रधानत्वाद्युक्तः, तयोर्गुणप्रधानभावे पूर्वोक्तप्रकारेण दोषदर्शनादयुक्त इति भावः। पुनरपि उभयनयोदितद्रव्य. 20 क्रिययोरनुपपत्तिमाह-यदप्युक्तमिति । द्रव्यमेव सर्वविशेषात्मक क्रियया विशेषा आविर्भवन्तीति भवद्दर्शने प्रलयकाले क्रियाया
अपि विनाशेन सृष्टिकाले कथं सृष्टिः, क्रियाया अभावात् । अस्मन्मतेन तु निखिलात्मगतादृष्टवासनाप्रेरणयाऽणुषु कर्मोदयात् सृष्टिर्भवतीति भावः । पूर्वनयोदितस्य द्रव्यक्रियोभयस्यानुपपत्तिं दर्शयति-यस्मादिति, भवद्भिः प्रवृत्तिमद्रव्यं क्रिया च प्रवृत्तिः, क्रियाऽन्तर्निलीनवस्तुशक्तिव्यजिका द्रब्यमेव तथा तथा भवतीत्युच्यते, एवञ्च तद्रव्यमनेकद्रव्यमेव भवेत्, मृदादिघटादिवत्, तच्च कार्यत्वाद्विनाशीति तद्विनाशे नित्यैकद्रव्याभावात् प्रागभूतनिवृत्त्या क्रिया क समवेतु ? अदृष्टप्रेरिताणुकर्मराजनितानेकद्रव्याभावात् , न च द्रष्यं सततप्रवृत्तिमदिति युक्तम्, निष्कारणनिरर्थकप्रवृत्तिप्रसङ्गात् , तदेवाह-न हि सेति । त्वदभ्युपगता मृत्पिण्डाद्यङ्घराद्याविर्भाविका क्रिया सत्यनेकद्रव्यत्वे सम्भवति, अनेकद्रव्यत्वस्य कार्यभूतत्वेनादृष्टप्रेरितपरमाणुक्रियाव्यतिरेकेणासम्भवः, नहि क्रिया सततसम्प्रवृत्तिरूपा, निष्कारणनिष्प्रयोजनत्वप्रसङ्गात्, किन्तु प्राण्यदृष्टवशादेव परमाणुषु यणुकाद्यारम्भकक्रियाया उदयः प्राणिगणार्जितादृष्टफलोपभोगाय, तया च वणुकादिक्रमेणानेकद्रव्योत्पत्तिः, न तु त्वदिष्टस्य सर्वप्रमेदनिर्भेदस्य कूटस्थनित्यस्य द्रव्यस्य गगनादेरिव क्रियायाः सम्भव इति भावः। अदृष्टवदात्मसंयोगासमवायिकारणकं सगोद्य30 कालीन कर्म भवतीत्यत्राभियुक्तोक्तिं दर्शयति-यस्मादुक्तमिति 'अग्नेरूज्वलनं वायोस्तिर्यक् पवनं मनसश्चाद्यं कर्मादृष्टकारितम्' (वैशे०५-२-१३) इति वैशेषिकं सूत्रम्,। प्राण्यदृष्टप्रेरिताणुकर्मभिzणुकादिक्रमेणानेकद्रव्योत्पत्त्यनभ्युपगमे समानासमान. जातीयकारणाभावादनेकद्रव्यासम्भवान्नित्यं स्तिमितगगनवदेकं द्रव्यं भवेत् , न हि तत्र क्रिया सम्भवति हेत्वभावादित्याशयेनाह-'
१ सि. क. सर्वभेदप्रभेद० । २ सि.क. न देतदिष्यते ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org