________________
६००
द्वादशारनयचक्रम्
[विधिनियमविधिः त्यादिपर्यायार्पणीयश्चेति, अस्य हेतो वनोक्तसाधनद्वयादेवाधिगम्या विकल्पभङ्गकैर्व्याख्यातैव, सदसदाशुभयोपनीतहेतुसामर्थ्यादेवानेकान्तसिद्धेः, न च तेन सह कस्यचिद्विरोधः, तस्मात् परित्यक्तपक्षरागैरन. भिनिविष्टैरात्महितगवेषिभिः कुशलैः-अव्यथा हितप्राप्त्यसम्भवादाश्रयणीय इति परिच्छिद्यायमाराध्यः
शरणश्च नयसमूहात्मकत्वात् , अनन्यसाधारणोत्साहप्रभुमंत्रशक्तियुतभरतचक्रवर्त्तिवद्विजिगीषुभिरिति, 6 यद्यसौ सर्वैराराध्यः शरणञ्च वादानां किमर्थं वादिभिः सह विवदते ? दृष्टश्च विवादः तस्माद्विरोधादित्वाच्छेषवादिवदनाराध्योऽशरणञ्च तथापि च दर्शनात्तेन सहेत्यत्रोच्यते, मम तेन सह[1]विरोध एव तथापि च-किन्तु वयं त्वत्प्रतिपत्त्यैकान्तवस्त्वनुपपत्तेब्रूमः-वयं त्वदनुग्रहार्थं त्वदनुशासिन इति न दोषः।
इदानी नैगमनय उभयविधिरात्ममतस्वरूपं वक्तुकामः परमतं प्राग्दूषितं प्रत्युञ्चारयन्नित्थमुपसंहरति10 यत्तद्भूयते येन भूयते द्रव्येण तस्य भवनसामान्यस्योत्सर्जनविधिः प्रवृत्त्यात्मकस्तस्यैवापवादविधानमित्येष उभयविधिस्त्वयेष्ट एवं न भवति किन्तु सत्ताद्रव्यत्वादिगगनादिद्रव्याणामेषां सर्वव्यापिता अण्वादिसहितानां विभुत्वपरिमण्डलत्वादिगुणसहितानां नित्यत्वञ्चेत्युत्सर्गः।
यत्तद्भयत इत्यादि, यत्तद्भवति तेन भवता यद्भूयते द्रव्येण तस्य भवनसामान्य क्षेत्रतः 15 सर्वत्वं कालतो नित्यत्वञ्च सर्वात्मकं तस्योत्सर्जनं विधानं स एव विधिः प्रागुक्तः पश्चाद्वितीयः प्रवृत्त्यात्मक[:] भूताभूतभेदात्मकः तस्यैवापवादस्तस्य च विधानमित्येष उभयविधिस्त्वयेष्ट एवं [न] भवति, कस्तीति चेत् ? सत्ताद्रव्य[त्व]ादीति यावन्नित्यत्वञ्चोत्सर्ग इति, सत्ता-महासामान्यं द्रव्यत्वं पृथिव्या
wwwwwm
न विरोध इत्याह-न च तेन सहेति । अनेकान्तवाद एव हिताहितप्राप्तिपरिहारायालमिति विभाव्यायमेव समाश्रयणीयः
श्रेयोऽभिलाषुकैर्विचक्षणैरित्याह-तस्मादिति । ईदृग्विधस्यैव शरणत्वे दृष्टान्तमाह-अनन्येति, इतरेषां समाश्रयणे हि न 20 विजयप्राप्तिः, अपि तु स्वस्थानाद्रंशोऽपीति भावः । नन्वनेकान्तवादस्य सर्ववादनायकत्वेन सर्वैः सहाविरोधे केनापि सह विरोधमूलवादप्रसङ्ग एव न भवेत् , दृश्यते च विवदमानोऽयमपीतर इव, तस्मादत्रापि विरोधादिसम्भवादितरवादिवदनाराध्य एवाशरणयोग्यत्वादित्याशङ्कय समाधत्ते-यद्यसाविति, त्वत्प्रतिपत्त्या त्वदभिप्रायेणैव, त्वय्यनुकम्पया वेत्यर्थः । नैगमनय इति धर्मधर्मिणोर्गुणप्रधानभावेन निरूपणपरो नयो द्रव्यपर्याययोरभयोर्विधिर्यस्मिन् स नय इदानीं स्वमतमुपस्थापयतीति भावः।
कर्तसाधनाविनाभाविभावसाधनं भावशब्दमुभयविधिनोतं प्रदश्य स्वमतं दर्शयति-यत्तद्भयत इति, यत्तद्धयत इति 25 भवनस्य कर्तृप्रधानभूतं द्रव्यं सर्वप्रभेदनिर्भेदं बीजभूतमिति सामान्यविधानं तच सर्वात्मकं नित्यञ्च, येन भूयत इत्यनेन भवतो
द्रव्यस्य यद्भवनं प्रवृत्तिरूपा क्रिया तथासन्निहितवस्तुतत्त्वव्यक्तिलक्षणा भूताभूतभाक्त्वाद्र्व्यव्यतिरिक्ता द्रव्ये गुणभूतेत्यपवादविधानं पूर्वोदितोभयविध्यराभिमतं न युक्तमिति दर्शयति-यत्तद्भवतीति । एतन्नयाभिमतमाचष्टे-सत्तेति, क्षेत्रतः सर्वगतानां कालतो नित्यभूतानां वस्तूनां विधानमुत्सर्गविधिः सामान्यविधिरिति भाति । तत्र जातिरूपं सामान्यं महासामान्यसामान्यविशे
षोभयात्मकमाकाशकालदिगात्मद्रव्याणि च सर्वगतानि, एतान्येव द्रव्याणि चतुर्विधपरमाणुमनःसहितानि परममहत्परिमाणवरूप 30 विभुत्वं अणुपरिमाणलक्षणं पारिमाण्डल्यमित्यादीनि नित्यवस्तूनीत्येवं विधानमुत्सर्गविधिरिति दर्शयति-महासामान्यमिति
खेतरनिखिलजातिव्यापकमित्यर्थः, सामान्यत्वन्तु समानप्रतीत्यभिधानप्रयोजकत्वाद्विज्ञेयम् , सामान्यविशेषत्वञ्च किञ्चिजातिव्यापकत्वे सति किञ्चिजातिव्याप्यत्वम् , विशेषत्वं तु विशेषकत्वादिति ध्येयम् । अथ विशेषकधर्मवतां विधानस्वरूपमपवादविधानं दर्श
१ सि. क. व्युत्पद्यते । २ सि. क. तवापि । ३ सि. क. °वत्त्वा।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org