________________
अनेकान्तवादप्रसङ्गः ]
न्यायागमानुसारिणीव्याख्यासमेतम्
५९९
इति प्रत्युच्चार्याह- अहमपि ब्रवीम्येवमपि सत्कार्य साधनान्यशक्यानि निवर्त्तयितुं सोपनय सप्रपञ्चानां वक्तु युक्तत्वात्, यद्येवं यथा स्वयोपनयसहितेने प्रत्यवस्थानसहितेने च पूर्वोत्तरपक्षप्रसङ्गेन सत्कार्यासरकार्यवादयोः तुल्यं समर्थनमिति भवतो यदि मतिः तदोभयवादसिद्धिः - सत्कार्यासत्कार्यवादयोः सिद्धिः, निवारयितुमशक्यत्वात्, स्यान्मतमन्योन्यनिवारितयोरनयोर्वादयोरसिद्धिरेवेति, असद्वादाश्रयणं [वा] श्रेय इत्येतच्चायुक्तम् उभयोरन्यतरस्य वा निषेधे प्रमाणाभावात् ज्ञानाभिधानयोः प्रमाणयोर्द्विरू- 5 पार्थविषयत्वात्, अतद्विषययोरप्रमाणत्वात् तस्मादवश्यमुभयरूपार्थस्थितिसत्यत्वम्, ततः किमिति वेदुच्यते, नन्वेवं तथार्थस्थिति सत्यत्वात् सर्ववादनाथाने कान्तवादाश्रयणं कृतम्, त्वयेति वाक्यशेषः ।
अनेकान्तवादो हि वादनायकः सर्ववाद विरोधाविरोधयोर्निग्रहानुग्रहसमर्थत्वादरिविजि - गीष्वादीनामिवोदासीननृपः, स चेत्थं - स्यादन्यत् स्यादनन्यत् कारणात् कार्यम्, तदतत्समर्थविकल्पत्वात्, एकपुरुषपितृपुत्रादिवदिति सदसद्वाद्युभयोपनी तहेतु सामर्थ्यादेवाने कान्तसिद्धेः, 10 नं च तेन सह कस्यचिद्विरोधः, तस्मात् परित्यक्तपक्षरागैरनभिनिविष्टैरात्महितगवेषिभिः कुशलैरयमाराध्यः शरणञ्च नयसमूहात्मकत्वात्, यद्यसौ सर्वैराराध्यः शरणञ्च वादानां किमर्थ वादिभिः सह विवदते, दृष्टश्च विवादः, तस्माद्विरोधादित्वाच्छेषवादिवदनाराध्योऽशरणञ्चेत्यत्रोच्यते, मम तेन सहाविरोध एव तथापि त्वत्प्रतिपत्त्यैकान्तवस्त्वनुपपत्तेर्ब्रूमः ।
wwwwwwwwww
( अनेकान्तवादो हीति ) अनेकान्तवादो हि वादनायकः सर्ववादविरोधाविरोधयोर्निग्रहा - 15 नुग्रहसमर्थत्वात्, अरिविजिगीष्वादीनामिवोदासीननृपः, स चेत्थं स्यादन्यत् स्यादनन्यत् कारणा[ त्] कार्यमित्यादि, कुतः ? तदतत्समर्थविकल्पत्वात् तस्मिन्नतस्मिंश्च विकल्पे समर्थत्वात् कारणे कार्य सदन - म्यत् असदन्यदिति वा पक्षे समर्थो विकल्पोऽस्येति, अनन्तरोक्त विकलादेशहेतुद्वयसमाहारैकरूपोऽयं हेतुः पक्षद्वयसाधनसमर्थः, को दृष्टान्तः ? एकपुरुषपितृपुत्रादिवत् - यथैक एव पुरुषोऽपेक्षाविशेषोपनीतैः पितृपुत्रभ्रातृभागिनेयमातुलादिभिरन्यैश्चान्योऽ[न] न्यश्च तेन तेन प्रकारेण सन्नसंश्च कारणकार्यनित्यानि - 20 कार्यस्यादर्शनाद्वाऽसत्कार्यवादाश्रयणमेव श्रेय इत्याशङ्कते - स्यान्मतमिति । समाधत्ते - उभयोरिति वस्तुनः सदसदात्मतया ज्ञानस्य शब्दस्य वा तथाविधवस्तु प्रत्यायकतया सदसत्त्वयोरन्यतरस्य प्रतिषेधे नास्ति सामर्थ्यम्, किन्तूभयधर्मात्मकस्या निराकृतान्यतरधर्मात्मनो वा बोधन एव सामर्थ्यादिति भावः । उभयनिषेधविषयस्यान्यतरनिषेधविषयस्य वा ज्ञानस्याभिधानस्य वाऽऽभासत्वमेव, न तु प्रमाणत्वमित्याह - अतदिति । एवञ्चोभयात्मकतायाः सत्यत्वेऽभ्युपगतेऽनेकान्तवादाश्रयणमेव कृत ित्याह-नन्वेवमिति । सर्ववादनाथत्वमेव दर्शयति - अनेकान्तवादो हीति । कथं विरोधाविरोधयोर्निग्रहानुग्रहौ क्रियेते 25 इत्यत्राह - स चेत्थमिति घटादिकार्यं सद्दव्यमृत्पृथिव्यादिकारणात् पर्यायार्थतयाऽन्यः पृथुबुनोदर द्याकारतया पूर्व सदादेरभावात् पूर्वमपि घटादेः सत्त्वेऽनुपलम्भायोगात्, तथा तत् सदादिभ्यो द्रव्यार्थतयाऽनन्यः, सदादिव्यतिरिक्तस्वभावतयाऽनुपलम्भात् तथा च स्यात् कारणात् कार्यमन्यत्, स्यादनन्यदिति भावः । साधनमत्राह - तदतदिति, कथञ्चित्सदसत्त्वपक्षयोरेव सङ्गतार्थत्वात्, एकान्तपक्षे च परस्परं पूर्वोदितविधिना विरोधादिति भावः । तदेव भावयति-कारणे कार्यमिति कारणकाले कारणे कार्यस्य सत्त्वादेवानन्यत्वमनन्यत्वादेव वा सत्त्वम्, असत्त्वादेवान्यत्वमन्यत्वादेव वाऽसत्त्वमिति पक्षयोः कथञ्चिदन्या - 30 नन्यत्वाभ्यामेव विकल्पाः भङ्गाः सङ्गतार्था भवन्ति यथा कथञ्चिदनन्यान्यत्वाभ्यामेवैकः पुरुषः पितृपुत्रभ्रातृभागिनेयादिर्भवतीति भावः। उभयात्मकतार्या प्रत्येकपक्षोदिता हेतव एव समुचिता हेतुत्वमवलम्बन्त इत्याह- अनन्तरोक्तेति । वस्त्वंशमात्रप्ररूपको विकलादेशः । दृष्टान्तं घटयति-यथैक इति । निरवच्छिन्नसत्त्वासत्त्वयोरेवैकत्र वृत्तौ विरोधेन सापेक्षयोस्तयोरेकत्र १ सि. क. तानि । २ सि. क. 'तानि ।
Jain Education International 2010_04
For Private & Personal Use Only
5
www.jainelibrary.org