________________
wwmmam
www
mmmmmmm
द्वादशारनयचक्रम्
[विधिनियमविधिः तथा नास्ति घटो गेहे मृत्पिण्डे कपालावस्थायां वेत्यादीन्यसत्त्वानि सविशेषणान्यनन्यचन्द्रादित्वनिद्र्शनसूचितानि, तेषाञ्च सतामिवासतामायत्यामाविर्भावदर्शनादिति, अत एव प्रकरणचिन्तेत्यादि, 'यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः' (गौत० अ० १ आ० २ सू०७) इति, यस्मादेवाविर्भवद् द्विविधं दृष्टं सैदसच्च, तद्यथा अलातचक्राद्यसत् सञ्च रथचक्रादि, तत्र सन्देहः । किं घटादिकार्यमसदाविर्भवेत् अलातचक्रवत् ? उतेतरचक्रवत् सदाविर्भवेत् ? इति, यत एव संशयो न तत एव हि निर्णयः, ऐकान्तिको हि हेतुः स्यात् धूमादत्राग्निर्यथेति, असदेव कार्यमिति ।।
एवं तर्हि मयापि शक्यं वक्तुं यत्तदसत्ततोऽन्यत् कार्य तद्विकल्पासमर्थत्वात् , घटपटवदित्यादि सत्कार्यसाधनप्रपञ्चोऽतीतः सोऽत्र द्रष्टव्यः, उत्तरमत्र वक्तुमशक्यम् , यद्येवं मतिः . तदोभयवादसिद्धिर्निवारयितुमशक्यत्वात् , उभयोरन्यतरस्य वा निषेधे प्रमाणाभावात् , 10 ज्ञानाभिधानयोः प्रमाणयोः द्विरूपार्थविषयत्वादुभयरूपार्थस्थितिसत्यत्वम् , नन्वेवं तथार्थस्थितिसत्यत्वात् सर्ववादनाथानेकान्तवादाश्रयणं कृतम् ।। - एवं तीत्यादि, सत्कार्यवादी पूर्वाभिहितसत्कार्यवादोपपत्तिभिर्विरुद्धाव्यभिचारिचिकीर्षयाऽऽह-एवं तर्हि मयापि शक्यं वक्तुम् , तद्यथा यत्तदसत् ततोऽन्यत्कार्यम् , तद्विकल्पासमर्थत्वात् , घट
पटवदित्यादि सत्कार्यसाधनप्रपञ्चोऽतीतः सोऽत्र द्रष्टव्य इति पूर्वपक्षः, उत्तरमत्र वक्तुमशक्यम् , यथाऽ15 सत्कार्यसाधनानि अन्यानिवानि तथा सत्कार्यवादसाधनान्यपीति, यद्येवमिति, यद्येवं ब्रवीषि
प्रागसत्त्वं प्रतीयते, उत्तरकाले घटसद्भावात् , कपालावस्थायां घटो नास्तीति अतीतसत्त्वलक्षणं घटासत्त्वं प्रतीयते पूर्वकाले घटस्य सत्त्वात् , कदाचित् सद्रूपाणामेवासतामायत्यामाविर्भावदर्शनात् अत्यन्ताभावरूपमसत्त्वं घटादौ कार्येऽसिद्धमिति भावः। द्वितीयचन्द्राभावरूपात्यन्तासतो निदर्शनेन कदाचिदसन्ति सूचितानीत्याशयेनाह-अनन्यचन्द्रादित्वेति । हेतोरस्यानैकान्तिकत्व
मपि दर्शयति-अत एवेति, यत एव सतामसताच्चाविर्भावो दृश्यतेऽत एव सत्त्वासत्त्वसहचरिताविर्भावदर्शनेन संशयो जायते, 20 यावनिर्णय सदसत्त्वसंशयानतिवृत्तः प्रकरणसमो भवति ततश्च संशयाधायकत्वेनासत्त्वमनैकान्तिकत्वं भवतीति भावः। तत्र प्रक
रणसमप्रदर्शकं गौतमीयं सूत्रमुपन्यस्यति-यस्मादिति । निर्णये जाते तु प्रकरणसमोऽयं व्यावर्त्तते इति दर्शयितुं निर्णयार्थमित्युक्तम् । आविर्भावस्य सत्त्वासत्त्वसामानाधिकरण्यं दर्शयति-यस्मादेवेति, उभयसहचरितधर्मवत्ताज्ञानस्यापि संशायकत्वादिति भावः । चिन्ताङ्गभूत संशयं दर्शयति-तत्र संदेह इति । संशयसद्भावदशायामन्यतरनिर्णयो नैव भवतीत्यायत्या प्रादुभांवा
भावस्य साधकत्वेनोपन्यस्तमसत्त्वं हेतुरेव न भवतीत्याशयेनाह-यत एवेति । अन्यतरनिर्णायकमेव हेतुर्भवेत् , अविनाभाव25 खभावत्वात्तस्य, यथा वयविनाभावस्वभावो धूमो हेतुरित्याह-ऐकान्तिक इति । एवञ्चासत्त्वस्यानाविर्भावासाधकत्वात् कार
णावस्थायां कार्यमसदेवेत्याह-असदेवेति । अथ मत्पक्षनिवारणफलस्य त्वदुद्भावितसाधनप्रपञ्चस्य त्वत्पक्षनिवारणायापि समानत्वात् तेन त्वन्मते निराकृतेऽर्थतो मदिष्टं कार्यसत्त्वं सेत्स्यतीत्याशयेनाह-एवं तहीति । एतदेवाह-सत्कार्यवादीति । अत्रापि पूर्ववद्विकल्पचतुष्टयमुद्भाव्योभयासत्त्वान्यतरासत्त्वपक्षी गृहीत्वा दोष आपादनीय इति । विधिविधिनयोदितसत्कार्य
साधनप्रपञ्चमतिदिशति-यत्तदसदिति । सत्कार्यासत्कार्यपक्षयोस्तुल्यबलस्येत्थं प्रतिपादितत्वादन्यतरपक्षनिरसनासम्भव30 माचष्टे-उत्तरमत्रेति । उभयपक्षसाधनानां तुल्यबलत्वाद्यधन्यतरपक्षनिवारणासामर्थ्य तर्हि खस्वसाध्याविनाभूतत्वात् उभय
धर्मसिद्धिरित्याह-यद्यवमिति । ननु नोभयोर्वादयोः सिद्धिः सुन्दोपसुन्दन्यायेन परस्परनिवारित्वात् , कार्यात् प्राक् कारणे • १ सि. क. सतामेवा० । २ सि. क. सदसत्वं ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org