________________
असत्कार्यम्] न्यायागमानुसारिणीव्याख्यासमेतम् वदिति प्रथमचक्रकम् , अथ न कार्यानित्योपादानवत् कारणोपादानमसच्च कारणमिति निश्चितम् , तद्वैलक्षण्यान्न तर्हि सत् कार्यमसत्, सद्विलक्षणत्वात् खपुष्पवदितरः कारणवत्, खपुष्पमपि वा सत् अनुपादानानुपलब्धेः कार्यवत् , नन्वित्यादि सोत्तरम् , अथैवमपि वैलक्षण्ये कार्यसत्त्वविनिश्चयो न व्यावर्त्तते, उपादानात्मकञ्च तत् , न तर्खनुपादानात्मकत्वात् गन्धर्वनगरवत् कारणमसत् , न त्वेवं भवत्यतः कारणं सत्, उपलभ्यत्वेऽनुपादानात्मकत्वात् कृतवत्, कृतमपि वा कारणवत्, न तु कार्य- 3 मनुपादानानुपलब्ध्यात्मकत्वात् खपुष्पवत् , सत्त्वे वा विशेषो वक्तव्यः, अविशेषे वैलक्षण्यानुपपत्तेः, विशेषोन्नयनेऽपि विशेषस्यासदाश्रयत्वात्ततोऽन्यत्वमेवाघटपटवदिति द्वितीयचक्रकप्रवर्त्तनं कृतम् ।।
तस्मादसत्कार्यमित्युपसंहृते आह
नन्वेवमसत्कार्यञ्चेदुत्पद्यते ततोऽसत्त्वादायत्यामपि नाविर्भवेत् कार्यम् , खपुष्पमप्यायत्यां वा प्रादुर्भवेत् , असत्त्वादिति, तच्च नास्ति, तस्मात् सत्कारणे कार्यमि-10 त्येतच्च न, सविशेषणासत्त्वात् , अत्यन्तासत एवासत्त्वादनन्यचन्द्रादित्ववत् , नास्ति घटो गेहे मृत्पिण्डे कपालावस्थायां वेत्यादीन्यसत्त्वानि सविशेषणानि, तेषाञ्च सतामिवासतामायत्यामाविभावदर्शनात् , अत एव प्रकरणचिन्ता, किं घटादिकार्यमसदाविभवेदलातचक्रवत् ? उतेतरचक्रवत् सदाविर्भवेत् ? इति ।
नन्वेवमित्यादि यद्येवमसत्कार्यश्चेदुत्पद्यते ततोऽसत्त्वादायत्यामपि बीजमृत्पिण्डाद्यवस्थान- 15 कालादुत्तरकालेऽप्यकुरो नाविर्भवेच्छिवकादि घटादि च कार्यम् , असत्त्वात् खपुष्पमप्यायत्यां वा प्रादुर्भवेदसत्त्वादुङ्कुरघटादिवदित्येतदनिष्टं प्रसक्तं, तच्च नास्ति तस्मात् सत् कारणे कार्यमित्येतच्च न, सविशेषणासत्त्वात्-योऽयं हेतुरनिष्टापादनार्थमुक्तोऽसत्त्वादिति एषोऽसिद्धः 'अभूतं नास्तीत्यनर्थान्तरम्' (वैशे० अ०९ आ.१ सू०९) इति वचनादत्यन्तासत एवासत्त्वात् , अनन्यचन्द्रादित्ववत्-यथा नास्त्यन्यश्चन्द्रमा इति द्वितीयचन्द्राभावादनन्योऽयमेवेति सामान्यात् प्रतिषिध्यते चन्द्रमाः, 20
mmawwam
कद्रयावर्तनं क्रियते व्याख्यातप्रायत्वात् स्पष्टत्वाच्च न वित्रियते। एवञ्च कार्यकारणयोर्नानात्वात् सतोऽन्यत् कार्यमिति सिद्धे कार्यस्योत्पत्तेः पूर्वमिव पश्चादप्याविर्भावो न स्यात्, खपुष्पवदसत्त्वाविशेषात् , तथाप्याविर्भावे खपुष्पस्याप्याविर्भावः स्यात्, न भवति चैवम् , तस्मात् कारणकालेऽपि कारणे कार्य सदभ्युपेयमित्याशङ्कते-नन्वेवमिति । कार्यखपुष्पयो सत्त्वं सामान्यतः, अपि तु तयोविलक्षणमेवासत्त्वं प्रागसत्त्वात्यन्तासत्त्वरूपमित्याशयेन समाधत्ते-सविशेषणेति । बीजेति, बीजकालेऽङ्कुरो मृत्पिण्डादिकाले शिवकादिघटादि च यथा नोत्पद्यते तथोत्तरकालेऽपीत्यर्थः । असतोऽपि प्रादुर्भावे दोष-25 माह-खपुष्पमपीति । आयत्यामपि न प्रादुर्भवेत् कार्यम् , असत्त्वादित्यत्रासत्त्वहेतुः कार्ये नास्ति, अत्यन्तमसत एवासत्त्वरूपत्वात् गृहमृत्पिण्डकपालादौ घटासत्त्वस्य प्रागादिविशेषणासत्त्वादित्याशयेनोत्तरयति-सविशेषणेति । अत्यन्तासत एवासत्त्वे सूत्रकृद्धचनमादर्शयति-अभूतमिति, यद्यत्र कदापि न भविष्यति न वा भूतं तस्य वस्तुनस्तत्रात्यन्ताभावो नास्तीति प्रतीतिविषयोऽनन्तरं मन्तव्यः, नास्ति विषयतयार्थान्तरमत्यन्ताभावभिन्नं यस्येत्यनान्तरमिति सूत्रार्थः, यथा जले पृथिवीत्वं नास्ति पृथिव्यां जलत्वं नास्तीति । निर्विशेषणाभावविषयं निदर्शनमाह-अनन्येति.न ह्यत्र किञ्चिद्विशेषणविशिष्टचन्द्रमसः प्रति- 30 षेधः, अन्यचन्द्राभावात् , तदिव कार्ये सामान्यात् सत्त्वप्रतिषेधोऽसिद्ध इति भावः । सविशेषणासत्त्वे निदर्शनमाह-तथानास्तीति गृहे घटो नास्तीति कदाचिद्वहे घटस्यापि सम्भवात् एतत्कालीनघटासत्त्वं प्रतीयते, मृत्पिण्डे घटो नास्तीति घटस्य
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org