SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ क्रियामेदः] न्यायागमानुसारिणीव्याख्यासमेतम् ५१३ किश्चान्यत् लिङ्गादिमद्रव्यं तद्रहिता च क्रिया भिन्नमुभयमेव भाव इति लिङ्गसंख्यावतो द्रव्यात् वस्तुत्वैकत्वगता क्रिया स्वरूपतोऽन्यैव, अलिङ्गसंख्यत्वात् प्लक्षादिवत् , भिन्नानां पदार्थानामे कसम्बन्धिविषयश्चार्थः, समुच्चयोऽन्वाचयः समाहार इतरेतरयोगश्च पदार्थोत्तरकालभाविनः द्रव्याणां गुणानां क्रियाणाञ्च दृश्यन्ते, न चैते द्रव्यं न क्रिया न गुणः किन्तु वीरपुरुषविशे- " षणविशेष्यैकात्मवत् वस्तुत्वैकत्वगत्याऽनन्यान्यत्वभाजो धर्माः। लिङ्गादिमदित्यादि यावदुभयमेव भाव इति, द्रव्यं लिङ्गसंख्याकालकारकयोगि, क्रिया तद्रहिता, लिङ्गादिमत्त्वाच्च भवतो द्रव्यस्य भवनमलिङ्गसंख्यं मिन्नं वस्तु तद्भवनभूतं तहिधा, तस्मादुभयं वस्तु, तच्चैकमिति प्रतिपाद्यमुपपत्त्या इत्यतः प्रतिज्ञायते लिङ्गसंख्यावत इत्यादि, वस्तुत्वेनैकत्वं वस्तुत्वैकत्वं तस्य गतिरापत्तिः, वस्तुत्वेनैकत्वमापन्ना क्रिया स्वरूपतो अन्यैव, द्रव्यात् क्रिया- 10 स्वरूपं भिन्नमेकं वस्त्वित्यर्थः, कस्मात् ? अलिङ्गसंख्यत्वात्-न लिङ्गसंख्ये यस्य तदिदमलिङ्गसंख्यं भवनम् , तद्धि वस्तुत्वेनैकत्वं गतं सत् द्रव्येण सहान्यत् , अन्यदेवेति प्रतिज्ञार्थोऽनेन साध्यते, अलिङ्गसंख्यत्वादिति हेतुना, दृष्टान्तः प्लक्षादिवत्, भिन्नानां पदार्थानामेकसम्बन्धिविषयश्चार्थः, यथा प्लक्षश्च धवश्चेत्यत्र चशब्दः प्लेक्षधवयोरन्ययोः समुञ्चेतापि समुच्चयमेकमेव सम्बन्धिनं विषयीकृत्य वृत्तत्वादनन्यत्वेऽपि सत्यन्यस्यैवार्थस्य वाचकः, तथा द्रव्यक्रियात्मकवस्तुत्वैकत्वान्यत्वमिति । अत्राह द्रव्यादन्यत्वेन पक्षी- 15 कृतायां क्रियायां समुच्चयनक्रियैव यदि दृष्टान्तत्वेनोच्यते साध्यत्वाददृष्टान्तः, अथ मा भूदेष दोष इति द्रव्यान्तरसमुच्चयो यदि दृष्टान्त उच्यते तथापि द्रव्यार्थत्यागः, प्लक्षधवसमुच्चयाख्यादिसर्वसत्तार्थसङ्ग्रहार्थत्वाइव्यार्थस्य, अ[थ] द्रव्यार्थ मा त्याक्षमित्येकमेवेष्यते पुनरपि दृष्टान्ताभावः द्रव्याद्भिन्नस्यार्थान्तरस्याभावादित्यत्रोच्यते, पदार्थानामिति पदार्थग्रहणान्नैष दोषः], प्रातिपदिकार्थो हि क्रियासम्बन्धी, क्रिया अलिङ्गसंख्यत्वादपि द्रव्यादन्येत्याशयेनाह-लिङ्गादिमदिति। उभयस्य भावत्वेनैकत्वेऽपि लिङ्गादिमत्वतद्रहितत्वाभ्यां 20 तयोर्भेद इत्याशयेनाह-लिङ्गादिमरवाश्चेति, भवतो द्रव्यस्य लिङ्गादिमत्त्वाच भवनमलिङ्गसंख्यं भिन्नं वस्त्विति योजना, भवनाश्रयीभूतद्रव्यस्य लिङ्गादिमत्त्वात् पाकः आस्यते इति घस्तेप्रत्ययाभ्यामुपस्थितस्य भावस्य लिङ्गसंख्यायोगाभावात् द्रव्यक्रिययोर्भवनरूपत्वेनकत्वेऽपि भावाभिहिता क्रिया द्रव्याद्भिन्नेति भावः । यद्यपि पाकौ पाका इत्येवं द्विवचनबहुवचने भवतः, तथापि ते भावाश्रयीभूतद्रव्यमेदापेक्षे एवेति बोध्यम् । तद्भवनभूतमिति, द्रव्यस्य भवनभूतं भवनमित्यर्थः, एवध द्रव्यं क्रिया चेत्युभयरूपो भावः, तत्रोभयरूपताप्रसिद्यर्थ तयोः वरूपं युक्त्या प्रतिपादनीयमिति तत्प्रतिपादनाय द्रव्यात् क्रियाया 25 भेदः साध्यत इति भावः। अत्रानुरूपं निदर्शनमाह-दृष्टान्त इति, यदा परस्परनिरपेक्षाः पदार्थाः क्रियायां समुच्चीयन्ते तदा समुच्चयश्चार्थों भवति, स च समुच्चयो यदा चेनैव प्रकाशितो भवति तदा द्वन्द्वसमासो भवति, तत्र समुच्चयनक्रिया प्लक्षधवयोरेकैव चशब्देन प्रकाश्यते तस्मात् सा क्रिया प्लक्षधवाभ्यां यथा भिन्ना तथैव भावप्रत्ययाभिहिता क्रिया द्रव्याद्भावभूतादप्यन्यैवेति भावः । अनन्यत्वेऽपि सतीति समुच्चयस्यावयविरूपस्यावयवाभ्यां प्लक्षधवाभ्यामनन्यत्वेऽपि सतीत्यर्थः । द्रव्यात् क्रियाया भेदे साध्ये क्रियाया एव दृष्टान्तो न संभवति तत्रापि द्रव्यमेदस्य साध्यत्वेन दृष्टान्तस्यैवासिद्धरित्याशयेन 10 शङ्कते-अत्राहेति । यत्किञ्चिद्व्यसम्बन्धिसमुच्चयनक्रियाया विशेषरूपाया दृष्टान्तत्वे क्रियायां द्रव्यसामान्यमेदो न साध्य भवेत् , यत्किञ्चिद्रव्यमेदस्यैव साध्यत्वपर्यवसानात् , तस्माद्रव्यार्थत्याग इत्याशयेनाह-अथ मा भूदिति । द्रव्यसामान्यभेदस्यैव साध्यत्वे दृष्टान्ताभावस्तदवस्थ एवेत्याह-अथ द्रव्यार्थमिति । समाधत्ते-पदार्थानामितीति, नात्र किया १ सि.क. भावनस्यच यथासंख्य। २ सि. क. द्रव्यक्रियास्वरूपभिमेक। ३ सि.क. सहानन्यत् । सि.क. अनन्य.।५ सि. क. अक्षधवयो। द्वा० न० २७ (६५) Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002585
Book TitleDvadasharnaychakram Part 2
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1951
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy