SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ द्वादशारनयचक्रम् [ उभयनयारे ww अन्तरङ्गत्वात् क्रियायाः, न पदार्थो बहिरङ्गत्वात् यथा पुत्रमिच्छति पुत्रीयतीति द्वितीया बहिरङ्गकर्माभिधायिनी पुत्रस्यैषणोत्तरं गणसम्बन्धात्, उक्तच 'प्रातिपदिका [थ ] नां क्रियाकृताः सम्बन्धा भवन्ति' ( एतत्समानार्थः भा० अ० २ पा० ३ आ० ३ ) इति, एषितुर्देवदत्तस्य पुत्रेणाभिसम्बन्धो न पदार्थेन विभक्तयन्तेन, पदान्तरसन्निधौ तु तद्व्यक्तिः, 'कारकाणां प्रवृत्तिविशेषः क्रियेति' ( महाभा० अ० १ ०पा० ३ सू० १ ) वचनात् क्रियया सम्बन्धमित्वा कर्मादित्वमेतीति पूर्वमेव क्रियया सम्बन्धः, यदि क्रियासम्बन्धवत् प्रातिपदिकावस्थायामेव समुच्चयादिसम्बन्धोऽपि स्यात्ततः प्रातिपदिकार्थातिरेकात् सम्बोधनवद्यत्नान्तरविधया प्रथमा स्यात्, द्वितीयादयश्व न स्युः, कर्माद्यधिके हि प्रातिपदिकार्थे ता विधीयन्ते, यदि तु समुच्चयाद्यधिको कर्माद्यस्तीति द्वितीयादयः स्युस्ततः कर्माद्याधिक्येऽपि प्रातिपदि - दृष्टान्तः, अपि तु समुच्चयः प्रवृत्तिरूपः, तत्र सुप्तिङन्तपदजन्य प्रतीतिविषयीभूतार्थस्य सम्बन्धः, न तु प्रातिपदिकार्थस्य, तस्य 10 क्रिययैवान्वयात् कस्यचित्तु साक्षात् क्रियासम्बन्धोऽन्यस्य तु तद्विशेषणत्वेनेत्येतावान् समासान्तरेषु भेदः, द्वन्द्वेषु तु समुदायविभक्त्या समुदायार्थस्य क्रियासम्बन्धद्योतनात् क्रियार्थिनोऽवयवार्थाः समुदायात्मतामापद्यन्ते, कथमन्यथा लक्षादिशब्दाः प्रत्येकं लक्षधवादिरूपो द्वयर्थः स्यात्, द्वयोरेवार्थयोरपेक्षावतोः समुदायत्वात्, अत एव समासेऽन्योन्यापेक्षायाः समुदायादेवार्थानामवगतेश्चरितार्थत्वाश्च शब्दो निवर्त्तते, न तु वाक्ये, तत्रार्थानां विच्छेदेन प्रतिभासनात् समुच्चयप्रकाशनाय चशब्दस्यावश्यकत्वादिति । पुत्रमिच्छतीति अत्र 'सुप आत्मनः क्यजि'ति क्यच् प्रत्ययः, तदर्थ इच्छा, एकदेवदत्तकर्तृका स्वसम्बन्धिपुत्रकर्मिके15 च्छेति बोधः, अत्र पुत्रशब्दोऽसत्यः कल्पितोऽवयवः, तथा च पुत्रविशिष्टेच्छा पुत्रीयतिनाऽभिधीयते पुत्रमिच्छतीत्यादिवाक्यं तु प्रकृतिप्रत्ययपरिकल्पनेनान्वाख्यानोपायमात्रम्, सा च क्रिया देवदत्तादिकारकात् भेदेन न गृह्यते, कारकाणां प्रवृत्तिविशेषरूपा हि सा, भावविकारत्वाद्भावाश्रिता कारकशक्तीनां प्रवर्त्तिका भवति, तस्माद्देवदत्तादेः पुत्रेषणायामभिसम्बन्धः अन्तरङ्गत्वात् कारकशक्तिप्रवर्त्तकरूपत्वेन क्रियाया अन्तरङ्गत्वात् कारकशक्तिभूतं द्वितीयार्थकर्मत्वं क्रियासम्बन्धोत्तरकालभावीति बहिरङ्गम्, क्रियाजनकत्वशक्तिर्हि कारकम्, सिद्धस्य च द्रव्यस्य स्वरूपतः क्रियाजनकत्वान्यथानुपपत्त्या शक्त्याविष्टस्यैव तस्य तत्त्वं वाच्यमिति 20 सा प्रवृत्तिशक्तिरन्तरङ्गेति भावः । तत्र प्रमाणमाह-उक्तश्चेति, भाष्ये 'प्रातिपदिकार्थानां क्रियाकृता विशेषा उपजायन्ते तत्कृताश्चाऽऽख्याः प्रादुर्भवन्ति कर्म करणमपादानं सम्प्रदानमधिकरणमिति' दृश्यते, सर्वेषां हि खव्यापारद्वारा स्वातंत्र्येणैव क्रियाजनकत्वात् कर्तृत्वेन कारकत्वम्, ततः कः किं केन कस्मै व पचतीति विवक्षायां स्वस्वव्यापारवशेन करणादित्वम्, तत्र साधनान्तरनियोगव्यापारः कर्त्ता, कर्तुः क्रिययेप्सिततमव्यापारं कर्म, कारकान्तरसाध्यव्यापारं करणम्, प्रेरणानुमत्यादिव्यापारं सम्प्रदानम्, अवधि भावोपगमव्यापारमपादानम् कर्त्रादिव्यवहितक्रियाधारोऽधिकरणमिति एता विशेषक्रियाः 25 सामान्यक्रियापूर्विका इति सर्वत्र कारकत्वमनुवृत्तमिति तद्भावार्थः । एषितुरिति, कर्तुः क्रियायामेवान्वयात् पुत्रि नामधातुवाच्यायां क्रियायामेव देवदत्तस्य सम्बन्धो न तु पुत्रमिति द्वितीयान्तेन, पुत्रीयतेरकर्मकत्वात्, तत्समानार्थक वाक्ये एव पुत्रमिति पदार्थस्याभिव्यक्तेर्न तत्र देवदत्तस्याभिसम्बन्ध इति भावः । सामान्यक्रियासम्बन्ध एव विशेषक्रियासम्बन्धः विशेषस्य सामान्यपूर्वकत्वादिति दर्शयति- क्रिययेति । प्रकृते द्वन्द्वे निगमयति-यदीति, यथा प्रातिपदिकार्थः अन्तरङ्गत्वात् क्रिययाऽभिसम्बध्यते तथा यदि समुच्चयेनापि प्रातिपादिकार्थः सम्बन्ध्येत तर्हि प्रातिपादिकार्थभूतेभ्यः स्वार्थद्रव्यलिङ्गसंख्या30 कारकेभ्यः समुच्चयस्य भिन्नत्वात् तत्र प्रथमा विभक्तिसम्पत्तये प्रयत्नः कर्त्तव्यः स्यात्, 'प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे ५१४ प्रथमे 'ति सूत्रेणागतार्थत्वात् यथा संबोधनस्यानेनागतार्थत्वात्तत्र प्रथमाविभक्तिसम्पत्तये 'सम्बोधने चेति सूत्रप्रणयनरूपं यत्नान्तरमादृतमिति भावः । द्वितीयादयश्चेति प्रक्षन्यग्रोधौ लक्षन्यग्रोधाभ्यामित्येवं द्वितीयादिविभक्तयो न स्युः, द्वितीयादीनां कर्माद्यधिकप्रातिपदिकार्थे विधानादिति भावः । अथ यदि लिङ्गाद्यधिकः कर्मादिरस्तीति राममित्यादौ यथा द्वितीयादयो भवन्ति तथा समुच्चयाद्यधिकः कर्मादिरस्तीति ता भवन्तीत्युच्यते तर्हि कर्माद्यधिकः प्रातिपदिकास्यार्थोऽस्तीति प्रथमैव कुतो 35 न स्यात् तस्मात् समुच्चयः पदार्थप्रतिपत्त्यनन्तरं वाक्यार्थकालेऽवभासते न तु पदार्थप्रतिपत्तिपूर्वमित्याशयेनाह - यदि त्विति । वाक्यार्थे चोपकुर्वन्तश्चादयः पदैरभिसम्बध्यन्ते, अत एव भिन्नानां पदार्थानामेकसम्बन्धिविषयश्चार्थ इत्युक्तम्, १ सि. क. सम्बन्धत्वात् । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002585
Book TitleDvadasharnaychakram Part 2
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1951
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy