SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ ५१२ द्वादशारनयचक्रम् [उभयनयारे साध्यो भावः साध्यत्वं याऽसावनुमानगम्या क्रिया न शक्या साधनात् पृथग्दर्शयितुम् , गर्भवन्निटुंठिता सा परतः साधन एव यथाऽऽत्मानं लभते तथाऽभिधानेऽपीत्यस्वशब्दोपादानः साध्यभावो भावः क्रियेत्यर्थः, तद्भावात् अस्वशब्दोपादानसाध्यभावत्वाद्भावस्य प्रवृत्तिलक्षणस्यैवं प्रभप्रतिवचनसिद्धिरिति, तद्विपर्ययेण तु द्रव्यभावस्य प्रश्नप्रतिवचने दृष्टे व्युत्पादनकाले, तद्यथा कस्य भाव इति प्रश्नः कस्य 6 क्रिया प्रवृत्तिः कर्तरि षष्ठी कृत्वा, तदनुरूपं प्रतिवचनमपि योऽसौ भवतीति यो भविता स एव वा द्रव्यलक्षणः स उच्यते, नोच्यते यत्तद्भूयते तद्भवनमेव, किं भूयते ? न भूयते केनापीति, अनिर्दिष्टकारकं हि भावसामान्यमेव, भावस्यामिन्नत्वात् , किं कारणं ? स्वशब्दोपादानसिद्धभावत्वात् सत्त्वस्य, स्वशब्देनैव पृच्छयते कस्य भावः ? को भवतीत्यर्थः, न पृच्छयते किं भूयते ? न भूयते केनापीति प्रतिवचनमपि, तथोच्यते योऽसौ कोऽपि भवतीति तस्य भावः स भवति तेन भूयत इति नोच्यते यत्तद्भूयते 10 केनापीति, अस्वशब्दं भवनमानं न व्याक्रियते तस्यापृष्टत्वात् , किं कारणं ? क्रियालक्षणभावव्युत्पादनविपर्ययेण प्रश्नव्याकरणदर्शनात्तथैवार्थप्रसिद्धेः तद्वाचिशब्दप्रवृत्तेरपि तदनुरूपत्वादिति । भावप्रधानं हि आख्यातं भवति तथा च पचतीत्यादौ देवदत्तादिकर्तृकः पाक इति बोधात् तिर्थनिष्ठप्रकारतानिरूपितविशेष्यताशालित्वे सति साध्यत्वेन प्रतीयमानत्वं क्रियायाः, कादिवाचकतिप्रत्ययमन्तरेण क्रियायाः प्राधान्येन बोधासम्भवात् न खशब्देन क्रियोपादीयत इति भावः । एतदेव स्फुटयति-याऽसाविति, क्रिया नामेयमत्यंतापरदृष्टाऽशक्या पिण्डीभूता 16 निदर्शयितुम् , यथा गर्भो नि ठितः, साऽसावनुमानगम्येति भूवादिसूत्रे भाष्ये प्रोक्तम् , धातवो हि सकलकारकव्यापाराभिधायिनः, अत एव कारकाणां प्रवृत्तिविशेषः क्रियेत्युच्यते नहि केवलं विक्लित्तिरेव पच्धात्वर्थः, अधिश्रयणादिकाले पचतीति प्रयोगानापत्तेः, तथा चाधिश्रयणाद्यधःश्रयणान्तक्रियाणामेव पधात्वर्थता, तदेवं साध्यत्वेनाभिधीयमानः समाश्रितक्रमः पौर्वापर्यवानर्थः क्रियेति फलितम् , क्रमवताञ्च क्रियाक्षणानामेकफलोद्देशेन प्रवृत्तानां सङ्कलनाबुद्ध्या समापादितैक्यानां क्रियात्वव्यवहारः, एकैकावयवेऽपि समूहरूपारोपादधिश्रयणकालेऽपि पचतीति व्यवहारः, वर्तमानैकक्रियायाः प्रत्यक्षत्वेऽपि समुदायरूपतया फला20 नुमेया क्रिया यथा कुक्षिस्थो गर्भोऽप्रत्यक्षस्तथेयं क्रिया अथवा यथा निलठितः निष्क्रान्तः कुक्षेर्गर्भः प्रत्यक्षो नैवं क्रियेति व्यतिरेकदृष्टान्तः, अनुमानप्रयोगश्च-विमतं कारकेभ्यो भिद्यते बाधकाभावे कारकसत्ताकालेऽव्यवह्रियमाणत्वात् , बाधकाभावे यद्यत्काले न व्यवह्रियते तत्ततो भिद्यते, एवञ्च कारकातिरिक्तक्रियाया यथा प्रत्यक्षेण नोपलम्भस्तथाऽभिधानेऽपीत्यस्खशब्दोपादानत्वे सति साध्यभावत्वं क्रियाया इति भावः। प्रवृत्तिलक्षणस्येति कारकाणां प्रवृत्तिविशेषः क्रियेति लक्षणस्येत्यर्थः, अप्रत्यक्ष तया द्रव्यव्यतिरेकेण क्रियायाः सत्तामसम्भावयता प्रश्नकर्ता कृतस्य का पुनः क्रियेति प्रश्नस्य साधनात् पृथग्भूता प्रत्यक्षतो निदर्शयितुं न शक्येत्युक्तावेव प्रतिवचनं सम्भवति न तु क्रियाखरूपमात्रोपदर्शनेनेति भावः । अत्रेदं बोध्य भाष्यकृता क्रियाशब्दः परिस्पन्दलक्षणः,भावशब्दश्च परिस्पन्दापरिस्पन्दसाधारणः प्रोक्तः तेन अस्तिभवत्यादीनामपि धातुत्वं सिद्ध्यतीति । द्रव्यपक्षे भावशब्दार्थ वर्णयति-तद्विपर्ययेण त्विति, क्रियापक्षविपर्ययेण त्वित्यर्थः । प्रश्नप्रतिवचने दर्शयति-तद्यथेति, कारकचक्रस्य प्रवृत्तिर्भवतीति तदेव द्रव्यं तस्यैव भवनात् न त्वसौ भाव्यमानः सिद्धरूपत्वादिति भावः। भाव्यमानत्वं निरस्यति-नोच्यत इति । क्रियाकारकसम्बन्धोपसर्जनस्य परिनिष्ठितस्य द्रव्यभावत्वान्न स भाव्यमान इत्याशयेनाह-अनिर्दिष्टेति साधनव्यापारावस्थाप्रतिपत्तये हि निर्वय॑माना प्रधान्येनोपादीयमाना क्रिया भवति यदा तु साधनव्यापारावस्थां कथयितुं न प्रकृता नापि क्रिया प्राधान्येनोपादीयते तदा व्यापारानपेक्षया धर्मान्तराणामाश्रयभूतत्वेन चेदं तदिति प्रत्यभिज्ञातं द्रव्यमुच्यते नासौ क्रिया तस्मादेव योऽसौ भवतीत्युच्यते नोच्यते च यत्तद्धयते इति भावः । स्वशब्दति, लिङ्गादिनिष्ठप्रकारतानिरूपितविशेष्यताशालित्वे सति सिद्धत्वेन प्रतीयमानत्वादिति भावः । ननु पचति पाक इत्यादौ पच्धात्वर्थे क्रियायां न लिङ्गसंख्यादीनां सम्बन्धः लिङ्गसंख्यादयो हि प्रत्ययवाच्याः ते प्रत्ययवाच्यकर्तृकर्मादिरूपे द्रव्ये एव सम्बद्ध्यन्त इति द्रव्य लिङ्गसंख्यादियोगि, क्रिया च न तादृशीति Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002585
Book TitleDvadasharnaychakram Part 2
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1951
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy