SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ द्विधाभावशब्दार्थः] न्यायागमानुसारिणीव्याख्यासमेतम् व्युत्पाद्यते क्रिया, यत्तद्भूयत इति, भावे लकारविधानात् , यत्तदिति च भवनमेव प्रकृत्यों निर्दिश्यते, नोच्यते योऽसौ भवति कोऽपीति, येन येन भूयते योऽसौ भवति की प्रत्ययार्थः, स नोच्यते तस्मिन् प्रश्ने, तस्मात् प्रकृत्यर्थपरा व्युत्पादना एवं प्रकारा, किं कारणं ? अस्वशब्दोपादानसाध्यभावत्वाद्भावस्यास्मदुक्तानुकारात् , यथोक्तमन्यैः 'द्रव्यभावयोरुक्तिक्रियालक्षणो भेदोऽयं प्रदर्यते स्वशब्दोपादानसिद्धभावः सत्त्वम् , अस्वशब्दोपादानसाध्यभावो भाव इत्येतदुक्तिक्रियाश्रयं सत्त्वभावयोः पृथक्त्वमिति'( ) प्रसिद्धं हि लोके शास्त्रेषु च 'क्रियावाचकमाख्यातं द्रव्याभिधायकं नामेति'( ) 'स्वभावसिद्धं द्रव्यं क्रिया चैव हि भाव्यते' (महाभा० अ० १. पा. ३ आ. १) तथा 'पूर्वापरीभूतं भावमाख्यातेनाचष्टे, उपक्रमप्रभृत्यपवर्गपर्यवसानम् , परिनिष्पन्नं नाम्ना मूर्त सत्त्वम् , यथासंख्यं व्रजति पचति व्रज्या पक्तिरिति' ( तस्माद्भूटपटादिशब्दा द्रव्यस्य स्वशब्दाः पचतिगच्छत्यादयः क्रियायाः, भावशब्दश्च द्वयोरपि दृष्टः, तत्रास्वशब्दस्य द्रव्यवाचिनो घटपटदेवदत्तादेरुपादानेन 10 भावव्युत्पत्त्यभिप्रायेण भवनं भाव इत्युक्तम्, अत्र भवनशब्देन सपरिस्पन्दापरिस्पन्दसाधनसाध्यक्रियाविशेषो विवक्षितस्तेन अस्त्यादीनामात्मभरणवचनानां धातुत्वं सिद्धम् , भवनं भाव इति कर्तृसाधननिवृत्त्यर्थः, एतदेव दर्शयति-यत्तदिति चेति । भवतीति भाव इति कर्तृव्युत्पत्तिं निरस्यति-नोच्यत इति, वृक्षादिनानामपि धातुसंज्ञा प्रसज्यते तान्यपि हि भवन्ति तस्मान्नोच्यते तथेति भावः। कर्तृव्युत्पत्तिसिद्धो भावस्तु प्रत्ययार्थः, प्रकृत्यर्थस्यैवेदानी व्युत्पाद्यमानत्वात् भाववचनो धातुरिति भावशब्दो न कर्तृसाधन इत्याशयेनाह-स नोच्यत इति । यो भाव्यते स भाव इति साध्यमानावस्थापन्नार्थस्य भावत्वात्तद्वाचित्वं 15 प्रकृतरित्याह तस्मादिति । द्रव्यक्रियाभिधायित्वे प्राचां संवादानाह-यथोक्तमिति, भावो यथा द्रव्य एवात्मलाभ लभते द्रव्यात् साधनात् यथा पृथग्भूतो दर्शयितुं न शक्यते तथैव वचनेऽपि स न खशब्दाभिधेयः किन्तु खशब्दोपादानसिद्धभावो द्रव्यमस्खशब्दोपादानसाध्यभावो भाव इति, तदेतदने व्यक्तीभविष्यति । क्रियेति, क्रियाप्रधानमाख्यातं भवति द्रव्यप्रधानं नामेति महाभाष्ये ५-३-६६ सूत्रे पाठो दृश्यते, अन्यत्र तु भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानीति दृश्यते, तत्राख्यातपदेन तिङन्तो गृह्यते, तथैव लोके व्यवहारात्, कथमाख्यातं क्रियाप्रधानं भवतीति चेत् क्रियाप्रश्ने तिङन्तेन प्रतिवचनात् , यथा 20 किं करोति देवदत्त इति पृष्टः पचतीति तिङन्तेनाऽऽचष्टे, प्रश्नवाक्येन क्रियाया एवावगमात् तत्राख्यातेनैवोत्तरोपादानात् कालसंख्यासाधनोपग्रहाभिधानेऽपि आख्यातस्य क्रियाप्रधानत्वमवगम्यत इति । केचित्तु नामपदवाच्यार्थाश्रयक्रियाव्यङ्गयो भावः, पाकरागत्यागादिः स यत्र प्रधान गुणभूता च क्रिया तदिदं भावप्रधानमाख्यातम् , आख्यायतेऽनेन गुणभावेन वर्तमानाऽनेककारकप्रविभक्ता प्रधानद्रव्यभावाभिव्यक्त्युन्मुखीभूता क्रियेत्याख्यातमिति व्युत्पत्तिरिति वदन्ति। स्वभावसिद्धमिति स्वभावेन शब्दशक्तिखभावेन सिद्धं सूक्ष्मरूपेण सिद्धावस्थमेव द्रव्यं शब्दवाच्यम्, यद्यपि क्रियापि सूक्ष्मरूपेण सिद्धावस्था तथापि शब्दशक्ति-25 खाभाव्यात् सा साध्यतयैव प्रतीयत इति तदर्थः । अथ साध्यखभावः सक्रमोऽर्थः क्रियेत्यस्य समर्थनाय निरुक्तं वचनं प्रमाणयतिपूर्वापरीभूतमिति, पूर्वापरीभूतं भावमाख्यातेनाचष्टे व्रजति पचतीत्युपक्रमप्रभृत्यपवर्गपर्यन्तम् (निरु० अ०१ सू. १४) मूर्त सत्त्वभूतं सत्त्वनामभिः (सू. १५) व्रज्या पक्तिरिति (सू. १६) इति पाठक्रमो दृश्यते तद्व्याख्यानञ्च क्रियाया एकत्वादपूर्वमनपरं सन्त पूर्वापरमिव भूतं पौर्वापर्येणावस्थितं भावं किं करोतीत्याख्यातेनाचष्टे-पृच्छते कस्मैचित् अन्य उपक्रमप्रभृत्यपवर्गपर्यवसानं भावं व्रजति पचतीत्याद्याख्यातेनाऽऽचष्टे, उपक्रमः प्रारम्भस्तदादि अपवर्गोऽन्तिमक्रिया तदवसानम् , एवश्चानेकक्रियाभि-30 व्यङ्ग्यो भाव आख्यातेनोच्यत इति भावः। कदाचित्तु तमेवोपक्रमप्रभृत्यपवर्गपर्यन्तमभिनिर्वतमान मूर्त-किमपि रूपान्तरतामापन्न सत्त्वभूतं द्रव्यत्वं प्राप्त भावसत्त्वनामभिः लिङ्गसंख्यायुक्तैः शब्दैराचष्टे यथा कतरो देवदत्त इति द्रव्यं पृष्टः यः पाचकः कारकः इति नाम्नाऽऽचष्टे। उदाहरणं दर्शयति-व्रज्यापक्तिरितीति, कृदभिहितभावस्य द्रव्यवत्प्रकाशनात् , अत्र मते गुणसमुदायस्य द्रव्यत्वं बोध्यम्' एवं द्रव्यं क्रिया च भाव उच्यत इत्याह-तस्माद्धटपटादीति। अखशब्दोपादानेत्यादिमूलार्थमाह-तति, .१ सि. क. भावयाभक्ति०।२ सि.क. सिद्धभावं । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002585
Book TitleDvadasharnaychakram Part 2
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1951
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy