SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ mmmmmmmmmm द्वादशारनयचक्रम् [उभयनयारे कुतः पुनर्भवतीति ? भवनसम्बन्धाद्भवतीति भवति तस्य द्रव्यस्य, तस्मात्तद्भवनं भावः सा क्रिया प्रवृत्तिर्भवनमित्यर्थः। अत एव तदर्थगतेः प्रकृतिपर एव प्रत्ययः प्रयोक्तव्यः प्रत्ययपरैव च प्रकृतिरिति [पातं० महाभाष्ये० अ: ३ पा०१ सूत्रे २]व्युत्पत्तिः, उभयार्थवत्त्वप्रदर्शनाय च कोऽसौ 5 भावो नामेति प्रश्नोपक्रम व्युत्पाद्यते क्रिया, यत्तद्भूयत इति, नोच्यते योऽसौ भवति कोऽपीति, अस्वशब्दोपादानसाध्यभावत्वात् भावस्यास्मदुक्तानुकारात् , तद्विपयेयेण तु द्रव्यभावस्य प्रश्नप्रतिवचने दृष्टे व्युत्पादनकाले, तद्यथा कस्य भाव इति प्रश्नः, प्रतिवचनमपि योऽसौ भवतीति उच्यते नोच्यते यत्तद्भूयते तद्भवनमेव, किं भूयते न भूयते केनापीति, स्वशब्दोपादा नसिद्धभावत्वात् सत्त्वस्य । 10 अत एवेत्यादि, तस्योभयार्थत्वदर्शनस्य दृढीकरणार्थं यावत् प्रत्ययपरैव प्रकृतिरिति, उत्तानार्थम् , किप्प्रत्यये चिदादीनां प्रथमैकवचने प्रकृतिमात्रप्रयोगदर्शनात् अधुनेत्यादिषु च प्रत्ययमात्रश्रवणात् व्यभिचरतीति चेत् ? अत एव तदर्थगतेरन्यत्र चोभयप्रयोगदर्शनादनुमीयते व्यर्थतेति, व्युत्पादनकालेऽपि प्रकृत्यर्थव्युत्पत्तिरन्यथा, अन्यथा प्रत्ययार्थव्युत्पत्तिः शास्त्रेऽन्वयव्यतिरेकाभ्यां क्रियते, तत्किमर्थमिति चेत् ? उभयार्थवत्त्वप्रदर्शनाय चेत्यादि यावत् कोऽपीति, कोऽसौ भावो नामेति प्रभोपक्रम 15 तोर्द्रव्यं भावो भवति तद्भवनं क्रियेत्युच्यते, भवनाद्धि द्रव्यं भाव इत्याशयेनाह-इतिशब्दस्येति, तस्य द्रव्यस्य भवनस म्बन्धात् तद्रव्यं भवतीति भवति भाव इति भावः । अत एवेति, यत एव भावशब्दो द्रव्यं क्रियाञ्चाह अत एवेत्यर्थः, तथा हि द्रव्यं सिद्धरूपं क्रिया च साध्यरूपा, भाव इत्येकशब्दोपात्ते एकस्मिन्नर्थे युगपत् सिद्धत्वसाध्यत्वलक्षणविरुद्धधर्मद्वययोगस्यासम्भवेन सिद्धसाध्योभयार्थप्रतिपादनं भावशब्दस्यैकस्यानुपपन्नमिति अन्वयव्यतिरेकवशेन शास्त्रे प्रकृतिप्रत्ययविभागकल्पनयाऽर्थवि भागः कृतः, एतावत्साध्यमेतावत्साधन मिति यथा पचतीत्यादौ धातुभागः साध्यभूतायां क्रियायां, प्रत्ययभागः सिद्धरूपे कारकादा20 विति, एवञ्च धातुना साध्यत्वेनाभिहितायां क्रियायां प्रत्ययेन सिद्धताभिधानात् द्रव्यक्रियावगतेः प्रकृतिप्रत्ययौ प्रत्ययार्थ सह ब्रूत स्तयोः प्रत्ययार्थः प्रधानमिति न्यायाच्च प्रकृतेः पर एव प्रत्ययःप्रयोक्तव्यः प्रत्ययपरैव च प्रकृतिरिति व्युत्पत्तिरपि सिध्यतीति भावः। न केवला प्रकृतिः प्रयोक्तव्या नापि प्रत्यय इति प्रकृतिपर एव प्रत्ययः प्रत्ययपरैव प्रकृतिरिति नियमयोर्व्यभिचारं शङ्कते-क्विपुप्रत्यय इति चिनोतीति चित् चिधातोः विप्प्रत्यये तुकि प्रत्ययलोपे च चिदिति प्रकृतिमात्रं प्रयुज्यते, इदम्शब्दादधुनाप्रत्यये इदमो लोपे प्रत्ययमात्रं प्रयुज्यत इति प्रोक्तनियमव्यभिचार इति भावः । अन्यत्र केवलानां धातूनां प्रत्ययानां वाऽप्रयोगात् प्रकृ25 तिप्रत्ययसंघातस्यैवार्थवत्त्वदर्शनेन चिदादिस्थलेऽपि प्रत्ययादेरनुमानेनोभयार्थावगतिरस्त्येवेत्याशयेन समाधत्ते अत एवेति। समुदायेनैवार्थवत्त्वप्रतीत्या समुदाय एवार्थवान् स्यात् न तु प्रकृतिः प्रत्ययो वाऽर्थवानित्यत्राह व्युत्पादनकालेऽपीति प्रकृतिषु विभिन्नेष्वपि प्रत्ययार्थस्याभेदात् प्रकृत्यर्थोऽन्यः प्रत्ययार्थस्तु स एवेत्यवगम्यते, अन्वयाद्व्यतिरेकाच, तथाहि पचतीत्युक्ते पच् शब्दः श्रूयते, अतिशब्दश्च प्रत्ययः, अर्थोऽपि विक्लित्तिः कर्तृत्वमेकत्वञ्च, पठतीत्युक्ते तु पच्छब्दो हीयते पशब्द उपजायते अतिशब्दश्चान्वयी, अर्थोऽपि विक्लित्तिहीयते पठिक्रियोपजायते कर्तृत्वमेकत्वञ्चान्वेति, तेन मन्यामहे यः शब्दो हीयते तस्यासा30 वर्थो योऽर्थो हीयते, यः शब्द उपजायते तस्यासावर्थो योऽर्थ उपजायते, यः शब्दोऽन्वयी तस्यासावर्थों योऽर्थोऽन्वयीति प्रकृतिप्रत्यायार्थव्युत्पादनं कृतमिति भावः । तत्किमर्थं क्रियत इत्यत्राह-उभयार्थवत्त्वेति प्रकृतेः प्रत्ययस्य चार्थ प्रदर्शयितुमित्यर्थः, तत्र प्रथमं प्रकृत्यर्थ प्रदर्शयितुं भाववचनो धातुरिति धातुलक्षणान्तर्गतभावशब्दमधिकृत्यास्तिभवतिविद्यतीनां क्रियावाचित्वविरहिणां धातुत्वं समर्थयितुं कः पुनर्भाव इति प्रश्नः कृतः, भवतेः खपदार्थो भवनं भाव इति च समाधानं कृतम्. यत्तद्भयत इति सि. क. प्रयोजन । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002585
Book TitleDvadasharnaychakram Part 2
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1951
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy